SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं : १, [भा. २४९ ] ८७ विनिर्गतस्ततस्तस्य निर्गमनमशुद्धमिति कृत्वा पयहीयव्वोत्ति परिहर्त्तव्यः । तदपरिहरणे प्रायश्चित्तं, तत्राधिकरणविषये प्रायश्चित्तमाह भा. २५०] गिहिसंजय अहिगरणे, लघुगुरु तस्स अप्पणोच्छेदे । विगइन देइ धेत्तुभुतउद्धरियं च गहिएवि ।। वृ-गृहिभिः संयतैश्च सहाधिकरणेविनिर्गतंयद्याचार्यः स्वीकरोति, ततो यथाक्रमं प्रायश्चित्तं लघुगुरुकं इयमत्र भावना यदि गृहस्थेन सहाधिकरणं कृत्वा विनिर्गतस्तं यद्याचार्यः संगृह्णाति, ततस्तस्याचार्यस्य परिहारस्थानं चत्वारो लघुमासाः, अथ संयतेन समधिकरणं कृत्वा समागतं संगृह्णाति ततश्चत्वारो गुरुकाः, तस्य पुनरागंतुकस्य पणत्ति रात्रिंदिवसपंचकप्रमाणः पर्यायस्य च्छेदः इहाधिकरणादिदोषतो विनिर्गतास्ते प्रश्न वा सति तदुक्तिवशादवसीयते, तत्र विकृतिदोषविनिर्गतस्य पृष्षस्यापृष्टस्य वा य उक्तिविशेषस्तं दर्शयति विगइमित्यादि । स आचार्यो विकृतं घृतादिकं ग्रहणाय न ददाति तथा योगवाहिभिर्योगोत्तीर्णैः कायोत्सर्गकरणतो गृहीतेपि परिपूर्ने विकृतिजातेऽन्यैर्भुक्ते या उद्धरिता विकृतिस्तामपि नानुजानाति किंच [ भा. २५१] नववज्जियाव देहो पगई दुब्बलो अहं भंते, भावियरस इण्हि न य गहणां धारणं कत्तो । वृ- वज्जियावो नाम देशीवचनत्वादिक्षुः उक्तंच वज्जियावगो उच्छु इति नववज्जियावत् देहो यस्य स तथा इयमत्र भावना स ब्रूते अहं भगवन् नवेक्षुतुल्यो मम देहो यथा स इक्षुः पानीयेन विना शुष्यति, तथा ममापि देहो विकृतिं विना सीदति, अन्यच्चाहं स्वभावेन दुर्बलो, न विकृतिमंतरेण बलिको भवाभि, तथा सर्वदैव विकृत्या भावितदेहस्ततस्तद्भावितस्य सतो ममेदानीं तस्याभावेन बलं न सूत्रस्यार्थस्य वा ग्रहणमशक्तत्वात् पूर्वगृहीतस्य तु सूत्रस्यार्थस्य वा धारणं कुतः । तत् अशक्त्या सर्वं दूरत एव विस्मृतं, ततोहं विनिर्गतः संप्रति योगविषये प्रत्यनीकविषये चोक्तिविशेषं दर्शयतिएगतरनिव्वगति, जोगो पच्चत्थिगीव मे अत्थि । [ भा. २५२ ] बुक्कखलिए गेह, छिद्दाणि कहेइ य गुरूणं । वृ- तस्मिन् गच्छे योग एकांतरनिर्विकृतिकः विमुक्तं भवति !; स पृष्टोऽपृष्टी वा ब्रूते तस्याचार्यस्य गच्छं योगं एकांतरोपवासेनोह्यते, एकांतराचाम्लेन वा तथा योगवाहिनो योगोत्तीर्णस्यापि ते आचार्या विकृतिं न विसृजंति, ततः कर्कशास्तत्र योगा इति विनिर्गतः । तथा तद्गच्छे मे मम प्रत्यर्थिकः प्रत्यनीकोस्ति स कथंचित् सामाचारीयोगेषु बुक्कखलिएसुत्ति बुक्के विस्मृते, सामाचारीविशेषे स्खलिते दुः प्रत्युपेक्षणादिके मां गृह्णाति, अत्यर्थं खरंटयति, अथवा चुक्कखलितेषु जातेषु तानि चुक्कस्खलितानि अपराधपदे छिद्राणीव छिद्राणि गृह्णाति गृहीत्वा च गुरूणां कथयति पश्चात् गुरुवो मां खरंटयंति, ततो विनिर्गतः, संप्रति लुब्धस्य स्तब्धस्य वोक्तिविशेषं दर्शयति [ भा. २५३ ] - चकमणादि उट्ठाणे, कटिगहणं झाउ नत्थि थद्धेवं; भुंजइ सयमुक्कोसं, न य देंत तेसिंलुद्धेवं । वृ- स्तब्ध एवं भाषते, चंक्रमणादावुत्थाने कटिग्रहणां स्वाध्यायश्च नास्ति एतदुक्तं भवति, यद्याचार्याश्चंक्रमणं कुर्वन् आदिशब्दात् यदिवा कायिक्यादिभूमिं गच्छंत्यागच्छंति वा तथा अभ्युत्थातव्याः तेषां नायकत्वात् तत एवं चंक्रमणादावभ्युत्तिष्ठतामस्माकं कटी वातेन गृह्यते भूयां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy