SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ पीठिका - [भा. ] कोटिसंख्याकास्तेषु च क्वचित्प्रथमं क्वचित् द्वितीयमित्यादि, नाम एक नामादि दश नामपर्यतं यथानुयोगद्वारेषु षट् नाम्नि त्ववतारः तत्र षट् भावा औदयिकादयो निरूप्यन्ते, तत्रास्य ज्ञायोपशमिके भावे अवतारः सर्वश्रुतस्य ज्ञायोपशमिकत्वात्; प्रमाणं चतुर्द्धा द्रव्यप्रमाणं क्षेत्रर्पमाणं काल प्रमाणं भावप्रमाणं च तंत्र व्यवहाराध्ययनं भाव आत्मकत्वाद् भावप्रमाणविषयं, तदपि भावप्रमाणं त्रिधा तद्यथा गुणप्रमाणं नयप्रमाणं संख्याप्रमाणं च, गुणप्रमाणमपि द्विधा । जीवगुणप्रमाणमऽजीवगुणमाणं, तत्र जीवादपृथग्भूतव्यवहाराध्ययनस्य ज्ञानगुणप्रमाणे समवतारः तदपि जीवगुणप्रमाणं त्रिधा ज्ञानदर्शनचारित्रभेदात्, तत्र बोधात्मकत्वात् व्यवहाराध्ययनस्य ज्ञानगुणप्रमाणे समवतारः तत्र ज्ञानगुणप्रमाणं प्रत्युज्ञानुमानागमोपमानभेदात् चतुष्प्रकारं, तत्र व्यवहाराध्ययनस्य प्रायः परोपदेशसव्यापेक्षत्वादागमे समवतारः, आगमोऽपि लौकिकलोकोत्तरमेदात् द्विधा तत्रेदं व्यवहाराध्ययनं परमर्षिप्रणीतत्वात् लोकोत्तरे समवतरति, सोपि द्विधा आवश्यकमावश्यकव्यतिरिक्तश्च तत्रेदमावश्यकव्यतिरिक्तआवश्यकव्यतिरिक्तोपि द्विधा अंग प्रविष्टो अनंगप्रविष्टश्च तत्रेदमनंगप्रविष्टः सोपि द्विधा कालिकोत्कालिकभेदात् तत्रेदं कालिके, सोपि सूत्रार्थोभयात्मानंतरपरंपरभेदभिन्नः, तत्रेदं सूत्रार्थ रुपत्वात्तदुभये, तथेदं गणभृतां गौतमादीनां सूत्रत्र आत्मागमस्तच्छिष्याणाम् जंबूस्वामि प्रभृतीनामनंतरागमः प्रशिष्याणाम् तु प्रभवादीनां परंपरागमः अर्थतो भगवतामर्हतामात्मागमो गणधराणामनंतरागमः तच्छिष्याणां परंपरागमः । नयप्रमाणे तु नास्य संप्रत्यवतारो मूढनयत्वात् उक्तं च मूढनइयं सुयंकालियं च इत्यादि, संख्यानामस्थापनाद्रव्यज्ञेत्रकालोपमपरिमाणभावभेदात् अष्ट प्रकाश यथानुयोगद्वारेषु तथा वक्तव्या, तत्र कालिक श्रुतपरिमाण संख्याऽपि द्विधा सूत्रतोऽर्थतश्च तत्रार्थतोऽनंतपर्यायत्वादपरिमितपरिमाणं सूत्रतः परिमितप्रमाणं अक्षरपदपादश्लोकगाथादीनां संख्यातत्वात्, संप्रति वक्तव्यता साच त्रिधा स्वसमयवक्तव्यता परसमयवक्तव्यता उभयसमयवक्तव्यताच, स्वसमय स्वसिद्धांतवक्तव्यता पदार्थविचारः तत्र प्रायेण सर्वाण्यपि अध्ययनानि स्वसमयवक्तव्यतायां समवतरंतीत्यस्यापि स्वसमयवक्तव्यतायां समवतारः ।। इदानीमर्थाधिकारः सचेहदान प्रायश्चित्तमाभवत् प्रायश्चित्तमालोचना विधिश्च; संप्रति समवतारः, स च लाधवार्थं प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव, उक्तः उपक्रमः, इदानीं निक्षेपः स च त्रिधा ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्र तत्रौघोनाम यत्सामान्यशास्त्राभिधानं तच्च चतुर्द्धा अध्ययनमक्षीणमायः क्षपणा च, एकैकं नाम स्थापना द्रव्यभावभेदेन चतुर्भेदमनुयोगद्वारतः प्रपंचेनाभिधाय भावाध्ययनभावक्षीणभावाय भावक्षपणास्वैतदध्ययनमायोज्यं, नामनिष्पन्ने निक्षेपे व्यवहारः इति, व्यवह्नियते यत् यस्य प्रायश्चित्तमाभवति स तद्दानविषयीक्रियतेऽनेनेति व्यवहारः; नृस्त्रोभावात् समश्च हल इति करणे घञ्प्रत्ययः तत्र व्यवहारग्रहणेन व्यवहारी व्यवहर्तव्यं चेति द्वितयसूचितमेव तद्व्यतिरेकेण व्यवहारस्यासंभवात् न खलु करणं सकर्म्मकक्रियासाधकतमरुपं कर्म्मकर्त्तारं च विना क्वचित्संभवदुपलब्धमिति, ततो यथा व्यवहारस्य प्ररूपणा कर्त्तव्या तथा व्यवहारी व्यवहर्त्तव्ययोरपीति, त्रयाणामपि प्ररूपणां चिकीर्षुर्भाष्यकृदेतदाह. ववहारो ववहारी ववहरियव्वा य जे जहा पुरिसा । For Private & Personal Use Only [ भा. १] Jain Education International www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy