SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं : ८७, [भा. १६२१] ४४९ यावत् षण्मासास्तावद्यदि तिष्ठति । ततः प्रत्यागतस्य षण्मासेभ्य आरतो वा प्रतिनिवृत्तस्य प्रायश्चित्तं चतुर्गुरु षण्णां मासानां परतः प्रतिनिवृत्तस्य मूलं ज्ञातव्यम् । [भा. १६२२] आगंतुं अन्नगणे सोहिं काऊण वूढपच्छित्तो । सगणागणमुब्भाये दरिसीती ताहे अप्पाणं ।। वृ- एवं मोहचिकित्सां कृत्वा तत्पूर्वनिक्षिप्तमाचारभाण्डमादाय अन्यगणे आगत्य प्रविश्य शोधिं कृत्वा आलोचनां प्रदाय यत्प्रायश्चित्तं लभते तत्रैव वहति । ततो व्यूढप्रायश्चित्तः सन् उद्भ्रामकभिक्षाचरप्रचुग्रामेये आचार्यसम्बन्धिनः साधवो भिक्षाचर्यामागतास्तेपामात्मानमुपदर्शयति तं दृष्ट्रा यः प्ररुषयति, तस्य प्रायश्चित्तं चतुर्गुरुकाः । किन्तु तै र्गत्वा सूरिभ्यः कथनीयं दृष्टोऽस्माभिः स पूर्वनष्ट इति । यच्च तेनोक्त तदपि कथनीयं । किं तु तेनोक्तमित्यत आहवेतिय लज्जाए-अहं न तरामि गंतु गुरुसमीवं तु । 7 [ भा. १६२३] न य तत्थजं कयं मे निग्गमनं चेव सुमरामि ।। " वृ- आत्मनि साधुनामुपदर्शिते स तान् साधून् प्रति ब्रूते- लज्जया अहं गुरुसमीपं गंतुं न शक्नोमि न च तत्र वसतौ यन्मया कृतं तत्स्मरामि केवलं निर्गमनमेव स्मरामि । [भा. १६२४] तेहिं निवेइए गुरुणो गीया गंतूण आनयंति तयं । मिगपुरतो उ खरंटण वसभनिवारंति मा भूओ ।। वृ- एवं तैः साधुभिर्गुरौ निवेदितेगुवदिशेन गीता गीतार्था वृषभा इत्यर्थः । गत्वा तकं साधुमानयन्ति आनीतस्य च तस्य तेषां मृगाणां बालशैक्षिकाणां पुरतः कैतवेन गुरुणा खरण्टणा कर्तव्या । यथा क्रियायां क्रियमाणायां किमर्थं नष्टो यदिकथमप्यनर्थे अपतिष्यत् ततः कुगतावगमिष्यदिति । एवं गुरुणा कैतवेन खरण्टनायां कृतायां वृषभास्तं निवारयन्ति । वत्स मा भूय एवं कार्षीरिति । पृच्छन्ति च मृगपुरतः तां वार्तां कथमित्याह [भा. १६२५] कत्थगतो अनपुच्छा साहु किलिट्ठा तुमं विमग्गंतो । मानं अज्जो वंदह तिनि उ वरिसाणि दंडो से ।। वृ- त्वमनापृच्छ्य कुत्र गतः क्लिष्टाः खलु त्वां विमार्गयन्तः साधवः स प्राह-न स्मरामि भगवन् कथमहं नष्टः कुत्र वागतः केवलं कर्मोपशमेन स्वस्थीभूतो जानाति स्म यथाइं विनिर्गत इति । ततो युष्मत्पादान्तिकमागतः । तत आचार्यैः साधवो वक्तव्याः मा आर्या अमुं साधुं त्रीन् संवत्सरान् वन्दध्वमेषोऽस्य साधोर्दंडः । [ भा. १६२६] तिन्हं समानपुरतो होयरिहो पुनो निव्वियारो उ । जावज्जीवमनरिहा इयमन्ने जे उगणादीणं ।। वृ- तिसृणां समानां संवत्सराणां पुरतः पुनर्यदि निर्विकारस्ततो भवत्यर्हो गणादीनां गणावच्छेदकत्वादीनां पदानां शेषास्तु सूत्रोक्ता अनिक्षिप्तगणादयो नहइमे अन्ये गणादीनां गणावच्छेदकत्वादिपदानां यावज्जीवमनर्हा तानेवाह [ भा. १६२७] पढमो निक्खित्तगणो बितितो पुन होइ अकडजोगित्ति । ततितो जम्मसदेसो चउत्थो उ विहारभूमीओ ।। पंचमो निक्खित्तगणो कडजोगी जो भवे सदेसंमि । [भा. १६२८] ज सेवंती अकरणं पंचण्हवी बाहिरा हुति ।। -वृ-प्रथमोऽनिक्षिप्तगणो द्वितीयः पुनर्भवत्यकृतयोगी यतनायोगमकृतवान् । तृतीयो जन्माधिकृत्य 21 29 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy