SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं : ७४, [भा. १५५५ ] गणस्य गच्छस्य वृद्धिर्भवति । शेषं सुप्रतीतत्वान्न व्याख्यातम् । मू. (७५) निरुद्धवासपरियाए समणे निग्गंथे कप्पइ आयरिय उवज्जयत्ताए उद्दिसित्तए समुच्छेयकप्पंसि तरसणं आयारपकप्पस्स देसे अवट्टिए संय अहिजिस्सामि, त्ति अहिज्जेज्जा, एवं से कप्पइ आयरिय उवज्जायत्ताए उद्दिसित्तए सेय अहिज्जिस्सामि त्ति नो अहिज्जेज्जा एवं से नो कप्पइ आयरिय उवज्जायत्ताए उद्दिसित्तए तद्दिवसं ।। बृ- अस्य सम्बन्धमाह [भा. १५५६ ] अपवदितं तु निरुद्धं आयरियत्तं तु पुव्वपरियाए । इमं तो पुन अववातो, असमत्तसुयस्स तरुणस्स ।। बृ- निरुद्धे विनाशिते पूर्वपर्याये सत्याचार्यत्वमपवदितुं प्रव्रज्यादिवस एवाचार्यत्वमनुज्ञातमनन्तरसूत्रे ऽयमनेन सूत्रेणाभिधास्यमानः पुनरपवादो ऽसमाप्तश्रुतस्य तरुणस्य किमुक्तं भवत्यल्पविषयपर्यायस्यासमाप्तश्रुतस्यापि चापवादतो गणधरत्वमनुज्ञाप्यते । ततोऽनेनाप्ययपवादाभिधानतो भवति पूर्वसूत्रेणास्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या -निरुद्धो विनाशितो वर्षपर्यायो यस्य स निरुद्धवर्षपर्यायः । एतदुक्तं भवति-त्रिषु वर्षेषु परिपूर्णेषु यस्य निरुद्धः पूर्वपर्यायो यदि वा पूर्णेषु समाप्तश्रुतस्य निरुद्धवर्षपर्याय इति श्रमणो निर्ग्रन्थः कल्पते आचार्योपाध्यायतया आचार्यतया उपाध्यायतया वा उद्देष्टुं क्वेत्याह-समुच्छेदकल्पे आचार्ये कालगते अन्यस्मिंश्च बहुश्रुते लक्षणसम्पूर्णे सति तस्य च आचार्यतया उपाध्यायतया वोद्देष्टुमपि तस्य आचारप्रकल्पस्य निशीथाध्ययनस्य देशोऽधीतो भवति । सूत्रमधीतमर्थाद्यापि नाधीतो यदि वाचार्यो न परिपूर्णोऽद्याप्यधीत इत्यर्थः । सेय इत्यादि स च देशमधीतवान् पाश्चात्यं स्थितं देशमध्येऽधीयते । तत एवं सति कल्पते आचार्योपाध्यायतया उद्देष्टुं, यदि पुनः सोऽध्येष्ये इति चिन्तयन्नपि नाधीयतेति संभाव्यते । तत एवं सति न कल्पते आचार्योपाध्यायतया उद्देष्टुं । एष सूत्रार्थसंक्षेपार्थः । तत्राल्पवर्षपर्यायस्यासमाप्तश्रुतस्यापवादतो गणधरपदानुज्ञानार्थमिदं सूत्रमित्युक्तमतोऽल्पवर्षपर्यायत्वं समाप्तकुतत्वं च भाष्यकृद्भावयति [भा. १५५७] ४३५ तिनी जस्स अपना वासा पुने हि वा तिहिउ तंतु । वासेहिं निरुद्धेहहिं, लक्खणजुत्तं पसंसंति ।। Jain Education International - वृ- यस्य त्रीणि वर्षाणि व्रतपर्यायतयाऽद्याप्यपरिपूर्णानि एतस्यामवस्थायां यदि वा त्रिषु वर्षेषु परिपूर्णेषु तस्य तन्निरुद्धवर्षपर्यायत्वमभवत् । स त्रिषु वर्षेषु पूर्णेषु वा अपूर्णेषु वा वर्षेषु निरुद्धेषु आचार्ये कालगते अन्यो बहुश्रुतोऽपि लक्षणसम्पूर्णो न विद्यते । स चासमाप्तश्रुतोऽपि लक्षणयुक्तो ग्रहणधारणसमर्थश्चेति स्थाप्यते, बहुश्रुतोऽप्यन्यो न स्थाप्यते किन्तुसोऽसमाप्तश्रुतोऽपि लक्षणयुक्तः । किंकारणमत आह-लक्षणेत्यादिलोके वेदेसमये च विशारदा नायकत्वपदाध्यारोपे प्रशंसन्ति लक्षणयुक्त नेतरं बहुश्रुतमपि ततः स एव स्थाप्यते । अत्र पर आह [भा. १५५८ ] किं अम्ह लक्खणेहिं तवसंजमसुठियाण समणाणं । गच्छविवद्धिनिमित्तं इच्छिज्जइ सो जहा कुमरो ।। वृ- किमस्माकं श्रमणानां तपःसंयमसुस्थितानां लक्षणैः केवलं लक्षणहीनोऽपि बहुश्रुतः स्थाप्यतां येनास्माकं स्वाध्यायवृद्धिर्भवति । आचार्य आह- सोऽल्पश्रुतोऽपि लक्षणयुक्ततया गणधरपदस्थापनायामिष्यते गच्छविवृद्धिनिमित्तं यथा राज्यविवृद्धिनिमित्तं राज्ये कुमारः । एतदेव भावयतिबहुपत्तो नखई सामुद्दं भणति किं ठवेमि निवं । दोसगुणएगनेगे सोविय तेसिं परिकहेइ ।। [भा. १५५९] For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy