________________
४२८
व्यवहार - छेदसूत्रम्-१-३/७३
भिन्नायारकुसीलो संसत्तो संकिलिट्टो उ ।।
वृ- अवसन्न आवश्यकादिष्वनुद्यमः क्षताचारस्तथा पार्श्वस्थोऽन्योद्गमादिभोजी सबलाचारः, कुशीलो जात्याजीवनादिपरो भिन्नाचारः, संसक्तः संसर्गवशात् स्थापितादिभोजी, संक्लिष्टः संक्लिष्टाचारः । सम्प्रत्याचारः प्रकल्पधर इति पदं व्याख्यानयति
[भा. १५१८]
तिविहो य पकप्पधरो, सुत्ते अत्थे य तदुभए चेव । सुत्तधर वज्जियाणं तिगदुगपरिकड्डूणा गच्छे ||
वृ- त्रिविधः खलु प्रकल्पधरस्तथा सूत्रे सूत्रतः अर्थतः तदुभयतश्च । इयमत्र भावनाआचारप्रकल्पधारिणां चत्वारो भङ्गास्तद्यथा सूत्रधरोऽर्थधरः, नोसूत्रधरोऽर्थधरः, सूत्रधरोप्यर्थधरोऽपि । नो सूत्रधरोनाप्यर्थधरः ४ । अत्र चतुर्थो भङ्गः शून्य उभयविकलतया आचारप्रकल्पधारित्वविशेषणासंभवात् । आद्यानां तु त्रयाणां भङ्गानां मध्ये तृतीयो भङ्गवर्ती स उपाध्याय उद्दिश्यते । यतः स उभयधारितया गच्छस्य सम्यक् परिवर्धको भवति । तदभावे द्वितीयभङ्गवर्त्यपि तस्याप्यर्थधारितया सम्यक् परिवर्धकत्वान्नात्वाद्यवर्ती तथा चाह-सूत्रधरवर्जितानामाचारप्रकल्पिकानां गच्छे गच्छस्य परिवर्धना त्रिके तृती यभङ्गे च ततस्त एवोपाध्यायाः स्थाप्या न प्रथमभङ्गवर्तिनः । एवं दशाकल्पव्यवहारधरादिपदानामपि व्याख्या कर्तव्या । अत्र पर आह
[ भा. १५१९]
पुव्वं वणेऊणं दीनं परियाय संघयणसद्दं । दसपुव्वीए धीरे मज्जारपडियपरुवणया ।।
वृ- ननु पूर्वमाचार्यपदयोग्यस्य दीर्ध: पर्यायो वर्णितः, संहननं चाति विशिष्टं श्रद्धा च प्रवचनविषयाऽत्युत्तमा आगमतश्चार्चायपदेयोग्या जधन्यतोऽपि दशपूर्विकास्तथा धीरा बुद्धिचतुष्टयेन विराजमानाः ततः एवं पूर्वं वर्णयित्वा यदेवमिदानीं प्ररुपयथ, यथा त्रिवर्षपर्याय आचारप्रकल्पधर उपाध्यायः स्थाप्यते । पञ्चवर्षपर्यायोदशाकल्पव्यवहारधर इत्यादि सैषा प्ररूपणा मार्जारदिनकल्पा । यथा हि मार्जारः पूर्वं महताशब्देनारटति पश्चादेवं शनैः शनैरारटति । यथा स्वयमपि श्रोतुं न शक्नोत्येवं त्वमपि पूर्वमुचैः शब्दितवान् पञ्चाच्छनैरिति सूरिराह-सत्यमेतत् । केवलंयत्पूर्वोक्तं तद्यथोक्तं न्यायमङ्गीकृत्य, सम्प्रति पुनः कालानुरुपं प्रज्ञाप्यतेइत्यदोषस्तथा चात्रपुष्करिण्यादयो दृष्टान्तास्ताने वाह[भा. १५२० ] पुक्खरिणी आयारे, आणायणातेनगा यगीयत्थे ।
आयारंमि उएए, आहरणा होति नायव्वा ।।
वृ- पुष्करिणी वापी आचारे आचारप्रकल्पस्य आनयनं स्तेनकाश्चौरा गीतार्था एतानि चत्वार्याहरणानि दृष्टान्ता भवत्याचार्ये ज्ञातव्यानि इमानि च
[ भा. १५२१]
सत्थपरिणाच्छक्काय अहिंगम पिंडउत्तरज्झाए ।
रुक्खे यवसभगावो गोहा सोही य पुक्खरिणी ।।
वृ- शस्त्रपरिज्ञा षट्कायाधिगमः, षट्जीवनिका इदमेकमुदाहरणं १ पिंड २ उत्तराध्ययन उत्तराध्ययनानि ३ वृक्षाः कल्पद्रुमादयः ४ वृषभाः बलीवर्दाः ५ गावः ६ गोधाः ७ शोधिः ८ । अत्रैव दृष्टान्तः पुष्करिणी च ९ । एवं सर्वसंख्यया त्रयोदश आहरणानि । एतानि व्याचिख्यासुः प्रथमतः पुष्करिण्याहरणं भावयति
[भा. १५२२]
Jain Education International
पुक्खरिणीतो पुव्वं जारिसया तुण्हा तारिसया इण्हिं ।
तहवियता पुक्खरिणीतो हवंति कज्जाई कीरंति । ।
वृ- पूर्व सुखमसुखमाकाले यादृश्यः पुष्करिण्यो जम्बूद्वीपप्रज्ञप्तौ वण्यन्ते । इदानीं न तादृश्यः तथापि च ता अपि पुष्करिण्यो भवन्ति कार्याणि च ताभिः क्रियन्ते । आचारप्रकल्पानयनाहरणमाह
For Private & Personal Use Only
www.jainelibrary.org