________________
व्यवहार - छेदसूत्रम् - १-३ / ६६ हिण्डमानाःस्थविरास्तत्र गच्छेव्रजन्तितत्रदृष्टान्तैः पर्षद्साधुपरिवाररूपा घृष्टा पादघर्षणात्, मृष्टा शरीरस्य केशादीनां च समारचनात् ततस्तां तथारूपां पर्षद मवलोक्य चन्दनाखोडिदृष्टान्तेन खरण्टना कर्तव्या । सा चैवं--आयरियादिट्टंतमेगं सुणंति । एगो इंगालदाहओ इंगालकठाईणं आणणठाए नदीकूलं गतो, तत्थपासइ ।तडेणबुज्झमाणंगोसीसचंदणखोडिं सोतं घेत्तूण पारंठितो, तमंतरा वणिओपास जाणइ । एसा गोसीसचंदनखोडी । ततो तेन सो भणितो किं एएण कट्टेण तं करिस्सइ । इंगालदाहगो भाइदहिऊण इंगाले घेच्छामि । वणिओ चिंतेति जइ इत्ताहे चेव मग्गीहामो तो बहुं सुकं मोल्लं काहिति तो जाहिओमाझवेहिति ताहे किणीहामि । एवं चिंतित्ता जाव वणिओ मुल्लस्स कएण घरं गंतु एति ताव तेन दहा गोसीसचंदनखोडी । वणिएण आगंतुं पुच्छितो कहिं ते कट्टं । सो भणइ-दहुत्ति । एवं भणिएण खिंसितो महाभाग फिडितो सिईसरियत्तणस्स एवं जहा सो इंगालदाहओ सोय वाणियओ ईसरियत्तणस्स चुक्को एवं तुमपि नाणादी दहंतो निव्वाणस्स चुक्किहिसि । एतदेवाहइंगालदाह खोडी पवेसे दिठाउ वाणिएणंतु ।
,
[ भा. १४३९ ]
४१२
[ भा. १४४० ]
जामुल्लं आनयए इंगालट्ठाए ता दड्ढा ।। इय चंदनरयणनिभा पमायतिक्खेण परसुणा भेत्तुं । दुविहं पडिसेवि सिहिणा तिरियणखोडी तुमेदड्डा ।।
वृ- अङ्गारान् दहतीति अङ्गारदाहस्तस्य पार्श्वे गोशीर्षचन्दनखोडी प्रवेशे ग्रामप्रवेशे च वणिजा दृष्टा । स च यावन्मूल्यमानयति तावत्तेनाङ्गारदाहकेनाङ्गारार्थं सा खोडिर्दग्धा । इत्यक्षरार्थो भावार्थस्तु प्रागेवोक्तः । । साम्प्रतमुपनयमाह - इय चंदणेत्यादि । इत्येवममुना प्रकारेण चन्दनरत्ननिभा गोशीर्षचन्दनमूल्या त्रिरत्नरत्नत्रयरूपा खोडिः । प्रमादरूपेण तीक्ष्णपरशुना भित्त्वा द्विविधा या प्रतिसेवा मूलगुणप्रतिसेवा उत्तरगुणप्रतिसेवा चेत्यर्थः । सैव शिखी वैश्वानरस्तेन त्वया दग्धा । एवं वारितः सन् यदि निवर्तते ततः प्रायश्चित्तं दत्वा तस्य वर्त्तापकाः स्थविरा दातव्याः । अथ न निवर्त्तये तस्य पहरणीयः न केवलमेतेऽनर्हाः किं चान्येऽपि तथा चाह
[ भा. १४४१ ]
एएण अनरिहेहिं अन्ने इय सूइया अनरिहातो । के पुन ते इमो ते दीनादिया मुणेयव्वा ।।
वृ- एतैरनन्तरोदितैरनार्हेरन्येऽपि खलु सूचितानर्हाः के पुनस्ते । सूरिराह इमे ते वक्ष्यमाणादीनादयो ज्ञातव्यास्ताने वाह
[ भा. १४४२ ]
दीना जुंगिय चउरो जातीकम्मे य सिप्पसारीरे । पाणा डोंबा किणिया सोवागा चेव जातीए ।।
वृ- दीनार्हाः कस्मादिति चेदुच्यते-तेषां नन्दनाभावादुक्तं च
दीनाभासं दीनगविं दीणजंपिउं पुरिसं ।
कं पेच्छसि नंदतं दीणं दीणाए दिठीए ।।
तत्थ जुंगिका हीनाश्चत्वारोऽनर्हाः । तद्यथा जातौ कर्मणि शिल्पे शरीरे च तत्र जातौ जुंगिकाश्चत्वारस्तद्यथा-पाणा डोंबाः किणिकाः श्वपचाश्च । तत्रपाणा नाम ये ग्रामस्य नगरस्य च बहिराकाशे वसन्ति तेषां गृहाणामभावात्, डोम्बा येषां गृहाणि सन्ति गीतंच गायन्ति, किणिका ये वादित्राणि परिणह्यन्ति । वध्यानां च नगरमध्ये नीयमानानां पुरतो वादयन्ति । श्वपचाश्चएडाला ये शुनः पचन्ति ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International