________________
३७०
व्यवहार - छेदसूत्रम्-१- २/५९ - नवहिं अट्ठहिंसत्तहिच्छहिं पंचहिं चेवचरमपयं ।। वृ-युवराजामात्यपुरोहितकुमारकुलपुत्रेषुयथाक्रमंप्रथमदिवसेमासगुरुचतुर्लघुकचतुर्गुरुकषट्लघु षट्गुरुकादिकृत्वायथाक्रमंनवभिरष्टभिः सप्तभिः षड्भिः पञ्चभिश्चदिवसैश्चरमंपाराञ्चितंवक्तव्यम्, । तद्यथा-प्रथमे दिवसे युवराजं दृष्ट्रा निवर्तमानस्य मासगुरु, द्वितीये दिवसे चतुर्मासलघु, तृतीये दिवसे चतुर्मासगुरु, चतुर्थेदिवसे षण्मासलघु, पञ्चमे दिवसे षण्मासगुरुः, पष्टे च्छेदः, सप्तमे मूलमष्टमेऽनवस्थाप्यं, नवमे पाराञ्चितम् । तथाअमात्यं दृष्ट्राप्रथमे दिवसे निवर्तमानस्य चतुर्मासलघु, द्वितीये दिवसे चतुर्मासगुरु, तृतीये षण्मासलघु, चतुर्थे षण्मासगुरु, पञ्चमे च्छेदः, षष्ठे मूलं सप्तमेऽनवस्थाप्यं अष्टमेपाराञ्चितमिति, । तथापुरोहितंदृष्टाप्रथमे दिवसेनिवर्तमानस्य चतुर्मासगुरु, द्वितीयेषण्मासलघु,तृतीयेषण्मासगुरु, चतुर्थेच्छेदः, पञ्चमेमूलं, षष्ठेऽनवस्थाप्यंसप्तमेपाराञ्चितम् । तथा कुमारं दृष्ट्वा प्रथमे दिवसे निवर्तमानस्य षण्मासलघु, द्वितीये दिवसे षण्मास गुरु, तृतीये च्छेदः, चतुर्थे मूलं, पञ्चमेऽनवस्थाप्यं, षष्टे पाराञ्चितम् । तथा कुलपुत्रकं प्रथमे दिवसे दृष्टा निवर्तमानस्य षण्मासगुरु, द्वितीयेच्छेदः, तृतीये मूलं, चतुर्थेऽनवस्थाप्यं, पञ्चमे पाराञ्चितमिति; उपसंहारमाह[भा.१२५९] इति दव्यखेत्तकाले भणिया सोहीउभावइणमणा ।
दंडियभूणगेसंकंतभोइया विवणेभुंजणे दोसु ।। वृ- इति एवमुक्तेन प्रकारेण प्रत्येकं संयोगतश्च द्रव्ये क्षेत्रे काले च भणिता शोधिरिदानीं भावत इत्यमन्याद्रव्यक्षेत्रकालव्यतिरिक्ताभण्यतेइतिवाक्यशेषः । प्रतिज्ञातमेव कुर्वन्द्वारसंग्रहमाह-दण्डिके राजाभूणके देशीपदमेतत् बालके पुत्रादावित्यर्थः । मते इति वाक्यशेषः । तथासक्रान्ते परपुरुषंगते विपन्ने मृते कलत्रे इति गम्यते । तथा दोसुत्ति तृतीयार्थे सप्तमी । यथा । तिसु तेसु अलंकिया पुहवी इत्यत्रततोऽयमर्थः । द्वाभ्यांपुरुषाभ्यांस्त्रीभ्यांवावक्ष्यमाणस्वरूपाभ्यांभोजनेभावतःशोधिर्भवति । तत्र यथोद्देशं निर्देश इतिप्रथमतोदंडितादिद्वारत्रयमाह[भा.१२६०] दंडिय सोउनियत्तेपुत्तादिमए वचउलहू होति ।
संकंतमयाएवा भोएतेचङगुरूहोति ।। वृ-यत्रससंप्रस्थितस्तत्रतानिमनुष्याणिकस्मिंश्चिदपराधेराजा दण्डितानि यदि वातेषांपुत्रादिकं किमपिमृतंअथवाद्वयमपीदंजातंततोदंडितवान्यदिवापुत्रादीन्मृतानथवा उभयमपिश्रुत्वा निवर्तते । ततो निवृत्ते निवृत्तस्य प्रायश्चित्तं चत्वारो लघुकालधुमासकाभवन्ति, तथा भोजिकानामभार्या ।सा अन्यपुरुषसङ्क्रान्ता, अथवामृताश्रुता; ततोऽन्यपुरुषसङ्क्रान्तायांमृतायांवाभोजिकायांनिवर्तमानस्य चत्वारो गुरुका गुरुमासाभवन्ति, सम्प्रतिभोजणेदोसत्तिव्याख्यानयति । [भा.१२६१] अह पुनभुंजेजाही, दोहिं उवगेहिं सत्थसमयं तु ।
इत्थीहिं पुरिसेहिं,वतहिंय आरोवणा इणमा ।। वृ-अथ पुनस्तत्र गतः सन् द्वाभ्यां वर्गाभ्यामेतदेव वक्तव्यमाचष्टे-स्त्रीभ्यां पुरुषाभ्यां वा समकं सार्धंतुशब्दो वक्ष्यमाणसमस्तविशेषसूचकः ।भुञ्जीततत्रइयमनन्तरमुच्यमानाआरोपणा प्रायश्चित्तं तामेवाह[भा.१२६२] लहुगाय दोसुदोसु य गुरुगाच्छम्मास लहुगुरुच्छेदो।
निक्खिवणंसियमूलंजचन्न सेवएदुविहं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org