________________
उद्देशक : २, मूलं : ५८, [भा. १२११]
३५९
किमप्यन्यत्तेन वा पाराञ्चितादिना वक्तव्यम् । किंतु गुर्वादेश एवोभाभ्यां यथोदितः सम्पादनीयः । अथ राज्ञा प्रद्वेषतो निर्विषयत्वाज्ञापनादिना व्याघातो दीपितस्तत्र यदि ते उपाध्याया अन्ये वा गीतार्थास्तस्य शक्तिं स्वयमेवबुध्यन्ते । ततो जानन्तः स्यमेव तस्य माहात्म्यं तं ब्रुवते, यथा अस्मिन् प्रयोजने त्वं योग्य इति क्रियतामुद्यमः । अथ न जानते तस्य शक्तिं ततः स एव तान् अजानान् ब्रूते यथा अस्ति ममात्र विषय इति एतच्च स्वयमुपाध्यायादिभिर्वा भणितो वक्ति
[ भा. १२१२] अत्थ महानुभागो जहा सुहं गुणसयागरी संधी । गुरुगं पिइक पप्प भविस्सए लहुयं ।।
वृ- तिष्ठतु यथासुखं महान् अनुभागोऽधिकृतप्रयोजनानुकूला अचिन्त्या शक्तिर्यस्य स तथा गुणशतानामनेकेषां गुणानामाकरो निधानं गुणशताकरः सङ्घः यत इदं गुरुकमपि कार्यं मां प्राप्य लघुकं भविष्यति, समर्थोऽहमस्य प्रयोजनस्य लीलयापि साधने इति भावः । एवमुक्ते (क्तः) सोऽनुज्ञातः सन् यत्करोति तदेवाह[भा. १२१३]
अभिहानहेतुकुसलो बहसु नीराजितो विउ सभासु । गंतूण रायभवेण भणति तं राय दारदुं ।।
वृ- अभिधानहेतुकुशल इति अभिधानेषु शब्देषु हेतुषु साध्यगमकेषु कुशलो दक्षोऽभिधानहेतुकुशलः शब्दमार्गे तर्कमार्गे वातीव क्षुन्नइत्यर्थः अतएव बहुषु विद्वत्सभासु नीराजितो निर्वटितः इत्थं भूतः सन् राजभवनं गत्वा तं राजद्वारस्थं प्रतीहारं भणति किं भणतीत्यत आह
[ भा. १२१४] पडिहाररुवी भण रायरूविं, तमिच्छए संजयरुविदङ्कं । निवेदयित्ता यस पत्थिवस्स, जहिं निवो तस्स तयं पवेसे ||
वृ- हे प्रतीहार रुपिन मध्ये गत्वा राजरुपिणं राजानुकारिणं भण बूहि, यथा त्वां संयतरुपी द्रष्टुमिच्छति एवमुक्तः सन् प्रतीहारस्तथैवास्य निवेदयति । निवेद्य च राजानुमत्या यत्र नृपोऽवतिष्ठते तत्र तं साधुं प्रवेशयति
[ भा. १२१५ ]
तं पूयइत्ताण सुहासणत्थं, पुब्विंसु रायागयकोउहल्लो ।
पहे उराले असुयाई, सव्वावि आइक्ख पत्थिवस्स ।।
वृ- तं साधु प्रविष्टं सन्तं राजा पूजयित्वा शुभासनस्थं शुभे आसने निषणभागतकुतूहल: समुत्पन्नकुतूहलोऽप्राक्षीत् । कानित्याह-प्रश्नान् उदारान् गंभीरार्थान् कदाचिदप्यश्रुतान् प्रतिहाररूपिन् इत्येवमादिकान् सचापिसाधुरेवंपृष्टः पार्थिवस्याचष्टे, किमाचष्टे इत्याह
[ भा. १२१६]
ज़ारिसयाय आरक्खा सक्कादीणां न तारिसा,
तह रायदारपालो तं पि चक्कीणपडिरुवी ।।
वृ- यादृशकाःखलु शक्रादीनामादिशब्दाच्चा सुरादि परिग्रहः आत्मरक्षा न तादृशः एष तव राजन् । द्वारपालस्तत उक्तं हे प्रतिहाररूपिन् तथा त्वमपि यादृशश्चक्री चक्रवर्त्तिः तादृशो न भवसि रत्नाद्यमभावादत्रान्तरे चक्रवर्तिसमृद्धिराख्यातव्या । किन्तु प्रतापशौर्यन्यायानुपालनादिना तत् प्रतिरूपोऽसि तत उक्तं राजरूपिणं ब्रूहिचक्रवर्तिप्रतिरुपमित्यर्थः । एवमुक्ते राजा प्राह-त्वं कथं श्रमणानां प्रतिरुपी
तत आह
[ भा. १२१७ ]
Jain Education International
समणाणं पडिरुवी जं पुच्छसि राय तं कहमहंति ।
For Private & Personal Use Only
www.jainelibrary.org