SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २९८ व्यवहार - छेदसूत्रम् - १- १/३५ कोटिसङ्ख्या हिरण्यं मणिमुक्ताशिलाप्रवालरत्नानि च मणयश्चंद्रकान्ताद्याः मुक्तामुक्तफलानि विद्रुमाणि रत्नानि कर्केतनादीनि ते ईदृशा भवन्तिधनवन्तः ।। उक्तं धनवतां स्वरूपमिदानीं नैयतिकस्वरूपमाह[भा. ९५१] सणसत्तरसादीणं धन्नाणं कुंभकोडिकोडीणं । जेसिता भायणठा एरिसिया होंति नियइइया ।। - वृ- सणः सप्तदशो येषां तानि सणसप्तदशानि तानि चामूनि तद्यथा शालिः १ यवः २ कोद्रवाः ३ व्रीहि ४ रालकः ५ तिलाः ६ मुद्द्राः ७ भाषाः ८ चवलाः ९ चणकाः १० । तुवरी ११ मसुरकः १२ कुलत्थाः १३ गोधूमाः १४ निष्पावाः १५ अतसी १६ सणश्च १७ उक्तं च सालि जव कोइव वीहि रालगतिल मुग्ग मास चवल चणा । वरि मसूर कुलथा गोहुम निष्पाव अवसि सणा ।। सणसप्तदशानि आदिर्येषां तानि सणसप्तदशानि, तेषां धान्यानां कुम्भकोटी कोट्यो येषां भोजनार्थं विश्राणनार्थं गृहेषु सन्ति ते एतादृशा भवन्ति नैयतिकाः, नियतिर्व्यवस्था तत्र नियुक्तास्तथा वा चरन्तीति [नै] नियतिकाः । उक्तं नियतिकस्वरूपम् ।। अधुना रूपयक्षस्वरूपमाहभंभीय मासुरुक्खे माढरकोडिण दंडनीतिसु । अल्लंचपक्खगाही एरिसया रूवजक्खातो ।। [ भा. ९५२] वृ- भम्भ्यायामासु [ शुद ? ] वृक्षे माढरे नीतिशास्त्रे कौण्डिन्यप्रणीतासु च दण्डनीतिषु ये कुशला इति गम्यते । तथा न कस्यापि लञ्चामुत्कोचं गृह्णन्ति । नाप्यात्मीयोऽयमिति कृत्वा पक्षं गृह्णन्ति ते एतादृशोऽलंचा पक्षग्राहिणो रूपयक्षारूपेण मूर्त्या यक्षा इव रूपयक्षाः मूर्तिमन्तो धर्मैकनिष्ठा देवा इत्यर्थः । उक्तो वणिग् दृष्टान्तः । । साम्प्रतमुपनयनमाह [भा. ९५३ ] तत्थ न कप्पइ वासो गुणागरा जत्थ नत्थिं पंच इमे । आयरिय उवज्झाए पवित्तथैरेय गीयत्थे ।। वृ- वणिज इंव राजाद्यभावे साधोरपि तत्र गच्छे वासो न कल्पते । यत्र इमे वक्ष्यमाणागुणानामाकराः स्थानानि गुणाकराः पञ्च न सन्ति के ते इत्याह- आचार्य उपाध्यायः प्रवृत्तिः स्थविरो गीतार्थश्च । तत्र कीदृशः आचार्यस्तत्स्वरूपमाह [ भा. ९५४ ] सुत्तत्थ तदुभएहिं उवउत्ता नाणदंसणचरिते । गणतत्ति विप्पमुक्का एरिसया होंति आयरिया ।। वृ-ये सूत्रार्थतदुभरुपेता इति गम्यते । तथा सततंज्ञानदर्शनचारित्रेसमाहारो द्वन्द्वः ज्ञानदर्शनचारित्रेषु उपयुक्ताः कृतोपयोगास्तथा गणस्य गच्छस्य या तप्तिः सारा तया विप्रमुक्ता गणावच्छेदप्रभृतीनां तत्तप्तेःसमर्पितत्वात्,उपलक्षणमेतत्, शुभलक्षणोपेताश्चय एतादृशा भवन्त्याचार्याः । तेचार्थमेव केवलं भाषन्ते न तु सूत्रमपि वाचयन्ति तथा चोक्तम् सुत्तत्थविऊ लक्खणजुत्तो गच्छरस मेटि [ ढि] भूतोय | गणतत्ति विप्पमुक्को अत्थं भासेइ आयरिओ ।। अथ किं कारणमाचार्याः स्वयं सूत्रं न वाचयन्ति । तत आह[भा. ९५५] Jain Education International एग गया यज्झाणे बुड्डी तित्थयर अनुग्गई गरुया । For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy