________________
२५०
व्यवहार - छेदसूत्रम्-१-१/२१ पुष्टालम्बनत्वात् ।।
मू. (२२) परिहारकप्पठिए भिक्खुबहिया थेगणं वेयावडियाएं गच्छेजा थेराय से सरिजा वा नो सरिजा वा नोकप्पइत्ति ।।से निव्विसमाणस्स०
वृ- एतदपि सूत्रं तथैव, नवरमेतावान् विशेषः । थेराय से सरिजा वा नो सरिजा नो कप्पइ से निव्विसमाणस्सेति । अस्थायमर्थः-स्थविरा से तस्य परिहारकल्पं स्मरेयुर्यदि वा व्याक्षेपान्न स्मरेयुः । वाशब्दादुभावपि न स्मरेयातां तथापि यदि निर्विशमानको गच्छति ततः से तस्य निर्विशमानकस्य एकरत्रिक्या प्रतिमया एकरात्रिकेण वा साभिग्रहेण कचिदपि प्रतिबन्धमन्तरेण गच्छत इत्यादि । तथा चाह
सरमाणेजो उगमो अस्सरमाणेवि होइएमेव ।
एमेव मीसगम्मिवि देसंसव्वं च आसज्जा ।। वृ- इह त्रीणि सूत्राणि, तद्यथा-प्रथमं स्मरणसूत्रं, द्वितीयमस्मरणसूत्रं, तृतीयं मिश्रकसूत्रं स्मरणास्मरणसूत्रमित्यर्थः । तत्र य एव गमः स्मरणे स्मरणसूत्रे उक्तः एमेव अनेनैव प्रकारेण प्रथमसूत्रप्रकारेणेत्यर्थः । अस्मरणेअस्मरणसूत्रेभवतिगमः । एवमेव अनेनैवप्रकारेण मिश्रकसूत्रेऽपि तत्र सूत्रत्रयेऽपिवहनं निक्षेपणं झोषो वा देशं सर्वं वा आसाद्य प्रतीत्य द्रष्टव्यः । तत्र द्वयोरपि विस्मरणं सूचितं । तत्रकारणमाह- . भा.७५३] विजानिमित्त उत्तर कहणेअप्पाहणाय कहियाओ।
अतिसंभम तुरिय विणिग्गयाण दोण्हंपि विस्सरियं ।। वृ-विद्यानांप्रतिविद्याप्रतिपक्षभूतानां निमित्तानामनेकप्रकाराणामुत्तराणांप्रतिवादिविषयाणांयथा यदिसवादीएवंब्रूयात्ततोभवानित्थंवदेदित्येवमादिरूपाणांकथनेतथा अप्पाहणायसंदेशकाः बहुका कथिताः । तत आचार्यस्यातिसंभ्रमेण इतरस्यापिचातिसंभ्रमादेव त्वरितविनिर्गतस्य द्वयोरपि विस्मृतं, यथा परिहारतपोनिक्षेपणीयमिति । तत्र यदिआचार्याः स्मरेयुः सवा स्मारयतितदा निक्षिप्य गच्छति । अथद्वयोरपि विस्मृतंपरिहारतपोनिक्षेपणीयमिति । अथद्वयोरपिविस्मृतंतदा निर्विशमानकएवयाति । यदातुपूर्वंस स्मृतवान्न पश्चात्तदा का वार्तेत्यत आह[भा.७५४] पुव्वंसोसरिऊणसंपत्थिए विजमादि कज्जेहिं ।
जस्स पुनो विस्सरियं निव्विसमाणे तहिंपिवए ।। वृ- पूर्वं स परिहारिकः स्मृत्वा परिहारतपो निक्षिप्य मया गन्तव्यमिति विचित्य संप्रस्थिते सम्प्रस्थानकालेविद्यादिकार्यैर्विद्याग्रहणादिकावैर्व्याकुलीभूततयायस्यपूनर्विस्मृतंयो विस्मृतंगतवान् तत्रापि पूर्वं स्मरणे पश्चाद स्मरणे निर्विशमानो व्रजेत् । सम्प्रति यदुक्तंदेशं वा सर्वं वा आसाद्येति तद्वयाख्यानयति[भा.७५५] देसंवा विवहेजा देसंच ठवेज अहवझोसिज्जा ।
सव्वंवा विवहेजा सव्वं ठविज सव्वं व झोसिज्जा ।। वृ-त्रिष्वपिसूत्रेषुपरस्परसमुच्चयार्थाः । तथा त्रिष्वपिसूत्रेषुदेशंवा वाहयेदपि, देशवास्थापयेदपि, अथवा देशंझोषयेदपि,-सर्वं वाहयेदपि सर्वं वा स्थापयेदपि सर्वं वा झोषयेदपि । अत्र वाशब्दाद्देशं वेत्याद्यपेक्षया विकल्पार्थाः । अपिशब्दाः पूर्ववत् । अथ कथं देशस्य वहनादि ? उच्यते परिहारतपः
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org