________________
उद्देशक : १, मूलं : २०, [भा. ७४८ ]
२४९
द्यौषधोपयोगतो वाक्पाटवं, शरीरजाड्यापहार्यौषधाभ्यवहारतः शरीरलघुता, दुग्धप्रणीताहाराऽभ्यवहारतो मेधाविशिष्टं च धारणावलं, सर्पिः सन्मिश्रभोजन भुक्तित उर्जा घृतेन पाटवमिति वचनात् देशतः सर्वतो वा स्नानेन वस्त्रादिभूषायां च तेजस्विता प्रतिपक्षविद्याग्रहणतो महान्मानसिकोऽवष्टम्भः । एतत्सर्वं वादवेलायामुपयोगि । तथा चाह
[ भा. ७४९ ]
वायापुग्गललहुया मेहाउज्जाय धारणाबलंच । तेजस्सिया सत्तं, वायाय इयंमि संगामे ।।
बृ- वाग् व्यक्ताक्षरा, पुद्गललघुता शरीरपुद्गलानां जाड्यापगमः, मेघा अपूर्वापूर्वऊहणोहात्मको ज्ञानविशेषः । ऊर्जा बलं प्रभूततरभाषणेऽपि प्रवर्धमानस्वबलः आन्तरं उत्साहविशेष इत्यर्थः । धारणाबलं प्रतिवादिनः शब्दतदर्थावधारणं बलं, तेजस्विता प्रतिवादिक्षोभापादिका शरीरस्य स्फूर्तिमती दीप्यमानता, सत्वं प्राणव्यपरोपणसमर्थविद्याप्रयोगेऽप्यचलितस्तन्मानोपमर्दहेतुवष्टम्भः । एतत्सर्वं वाङ्मये संग्रामे उपयुज्यते ।
मू. (२१) परिहारकप्पठिते भिक्खू वहिया थेराणं वेयावडियागच्छेज्जा । थेराय से नो सरेजा कप्पइ से निव्विसमाणस्स एगराइयाए पडिमाए" ०
वृ- अत्रनोसरेज्जा इतिविशेषः, शेषं समस्तमपिपूर्ववत् । नो सरेज्जा इत्यस्यायमर्थः एष परिहारतपो वहन् तष्ठितीति स्थविरा आचार्या न स्मरेयुः । कस्मान्न स्मरेयुरिति चेत् ? उच्यते-व्याक्षेपात् । तथा चाहन सरइ इत्यादि पूर्वगाथाश्चार्धं विद्यानां निमित्तानां प्रत्युत्तराणां च कथनतो बहुविधसन्देशकथनतो वा आचार्यो न स्मरति । ततस्तस्मिन्न स्मरणे सति निर्विशमानक एव गच्छेत् । गत्वा च यत्र गन्तव्यं तत्र यत्करोति तदाह[ भा. ७५० ]
तत्थ गतोविय संतो पुरिसं थामं च नाउतो ठवणं । साहीणमसाहीणे गुरुम्मि ठवणा असहणेउ ।।
वृ- गतोऽपि च सन्पुरुषं प्रतिवादिलक्षणं प्रचण्डं वा स्थामप्राणमात्मनी ज्ञात्वा तदनन्तरं यदि समर्थमात्मानं संभाव्यादितदान निक्षिपति, अथाशक्तिः संभाव्यते ततः स्थापनानिक्षेपणं परिहारतपसः कर्त्तव्यम् । किमुक्तं भवति ? दुर्जयः खलु प्रतिवादी न यथाकथञ्चन जेतुं शक्यते अहं च क्षामतया बहुविधमुत्तरं दातुमशक्तो मतिमोहोवा तदानीं मम क्षामस्वा भवेत् इति यदि संभावयति, तर्हि निक्षिपति, । अथ कथं स निक्षिपतीत्यत आह-साहीणेत्यादि स्वाधीने सन्निट्टंते, अस्वाधिने असन्निहिते गुराव सहस्य स्थापना परिहारतपसो निक्षेपणं भवति । इयमत्र भावना-यद्याचार्यः सन्निट्ठितो भवति ततः स एव तं निक्षेपयति । अथ नास्ति सन्निहितः ततो न शक्तः क्षामत्वेन परिवादिनं जेतुमित्यालम्बनतः स्वयं निक्षिपति । अत्र पर आह-‘“ननु यदि स्वयं निक्षिपति ततः स आत्मच्छंदसा निक्षिपन् यदि उद्घातितं वहति ततो अनुद्घातितं प्राप्नोति । अथानुद्घातितं ततः परतरं स्थानमाप्नोति' इति । सूरिराह[ भा. ७५१] काम अप्पच्छंदो निक्खियमाणो उ दोसवं होइ ।
तं पुन जुज्जइ असढे तीरियकज्जे पुन वहेज्जा ।।
वृ- कामशब्दो मकरध्वजे अवधृतौ च । इहावधृते काममवधृते काममवधृतमेतत् आत्मच्छंदसा निक्षिपन् दोषवान् भवति परं निष्कारणे, यदि पुनरशठः सन् एवं चिन्तयतिन शक्तः क्षामतया परवादिनं जेतुमिदानीं तीरितः कार्यः समाप्तकार्यः । पुनर्भूयो वहेयमिति ततस्तस्मिन् निक्षेपणं युज्यते एव अदुष्टमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org