SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ उद्देशक : 5:9, मूलं : १४, [भा. ४३३] [ भा. ४३३] कसिणा कसिणा एया सिद्धातो भवे पकप्पनामंमि । चउरो अतिक्कमादि सिद्धा तत्थेव अज्झयणे ।। वृ- कृत्स्ना अकृत्स्नाश्चारोपणा एते अनंतरोदितसामान्यलक्षणाः प्रकल्पनाम्नि निशीथे अध्ययने सिद्धाः प्रतीताः एतेन दिठ्ठा निसीहनामे इति व्याख्यातमधुना तत्थेव तहा अतीयारा इति व्याख्यानयति, चउरी इत्यादि अतीचारा ये चत्वारोऽतिक्रमादयस्तेपि प्रायश्चित्तभेदास्तत्रैव प्रकल्पनाम्न्यध्ययने सिद्धाः, संप्रति तानेवातिक्रमादीन् दर्शयति । [ भा. ४३४ ] १५३ अतिक्कमे वइक्कमे चेव अतियारे तहा अनायारे । गुरुतोय अतीवारो गुरुयतरगो अनायारो ।। वृ- अतिक्रमणं प्रतिश्रवणती मर्यादाया उल्लंघनमतिक्रमः विशेषेण पदभेदनतोऽतिक्रमणो व्यतिक्रमः, तथा अतिचरणं ग्रहणतो व्रतस्यातिक्रमणमतीचारः, आचारस्य साध्वाचारस्याभावः परिभोगती ध्वंसोऽनाचारः, ऐत चातिक्रमादय आधाकर्माधिकृत्यैवं व्याख्याताः, आधाकर्मणा निमंत्रितः सन् यः प्रतिशृणोति, सोऽतिक्रमे वर्त्तते, तद्ग्रहणनिमित्तं पदभेदं कुर्वन् व्यतिक्रमे गृह्णातो अतीचारे, भुंजानी अनाचारे, एवमन्यदपि परिहारस्थानमधिकृत्यातिक्रमादयोयोजनीयाः, एतेपुच प्रायश्चित्तमिदम्, अतिक्रमे मासगुरु व्यतिक्रमे पि मासगुरु काललघु अतिचारे मासगुरु द्वाभ्यां विशेषितं, तद्यथा तपोगुरु कालगुरु च अनाचारे मासगुरु व्यतिक्रमे पि मासगुरु काललघु अतिचारे मासगुरु द्वाभ्यां विशेषितं, तद्यथा तपोगुरु कालगुरु च अनाचारे चतुर्गुरु, यस्मात् गुरुको अतीचारश्च शब्दोऽनुक्तसमुच्चायाथः, स चैतत् समुच्चिनोति, अतिक्रमात् व्यतिक्रमो गुरुकस्तस्मादपि गुरुकोऽतीचार इति, ततोप्यतीचारात् गुरुतरकोऽनाचारः, तत इत्थं प्रायश्चित्तविशेषः । भा. ४३५ ] तत्थभवे न उ सुत्ते अतिक्कमादीउ वन्निया केई । चोयगत्ते सुत्ते अतिक्कमादीउ जीएजा ।। वृ- तत्र एवमुक्ते भवेन् मतिश्चोदकस्य यथा नतु नैव सूत्रे निशीथाध्ययनलक्षणे केचिदतिक्रमादय उपवर्णिताः संति, ततः कथं चत्वारो अतिक्रमादयस्तत्रैवाध्ययने सिद्धा इति सूरिराह । । चोदकसर्वोप्येष प्रायश्चित्तगणो अतिक्रमादिषु भवति, ततः साक्षादनुक्ता अपि सूत्रे तानतिक्रमादीन् योजयेत्; अर्थतः सूचितत्वात् कथमर्थतः सूचिता इत्याह [भा. ४३६ ] - सव्वेवि य पच्छित्ता, जे सुत्ते ते पडुच्चऽनायारं । थेराण भवे कप्पे जिनकप्पे चउसु विपएसु ।। वृ यानि कानिचित् सूत्रेऽभिहितानि प्रायश्चित्तानि सर्वाण्यपि स्थविराणां कल्पे स्थविरकल्पिकानामनाचारं प्रतीत्य भवंति, यतः स्थविरकल्पिकानां त्रिष्वतिक्रमादिषु पदेषु प्रायश्चित्तं भवति, तथाहि प्रतिश्रुतेपि यदिस्वतः परतो वा प्रतिबांधतः पदमेदं न कुरुते, कृतेपि वा पदभेदे न गृह्णाति, गृहीतेपि यदि न भुक्तं किंतु परिठापयति तदा स मिथ्यादुष्कृतमात्रप्रदानेनापि शुध्यति, इति न सूत्राभिहितप्रायश्चित्तविषयः, भुंजानसत्त्वनाचारेवर्त्तते, इतितस्य सूत्रोक्तंप्रायश्चित्तविषयता, जिनकल्पे जिनकल्पिकानां पुनः चतुर्ष्वप्यतिक्रमादिषु पदेषु प्रायश्चित्तं भवति, किंत्विदं प्रावस्ते न कुर्वति, तदेवं सर्वमपि सूत्राभिहितं प्रायश्चित्तं यतोऽनाचारमधिकृत्य प्रवृत्तमनाचारश्चातिक्रमाद्यविनाभावी, ततोऽर्थतः सूचितत्वात् प्रतिसूत्रमतिक्रमादयो योजनीयाः इति स्थितं, ननु यद्येतत् सर्वं निशीथसिद्धांते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy