________________
१५२
व्यवहार - छेदसूत्रम्-१-१/१४ लब्धा मासास्तेष्वेकभागः, तेष्विति वाक्यशेषः समं दिवसग्रहणं भवति, अथ द्वयादिभागस्थास्ततः प्रत्येकं भागेषु ग्रहणं द्रष्टव्यं तद्यथा आद्यभागगतेषु मासेषु प्रत्येकं पंचदशदिवसग्रहणं, शेषभागगतेषु पुनः सर्वत्र पंचदिवसग्रहणमिति ।। अकृत्स्नायामारोपणायां पुनर्नियमतो विषमं दिवसग्रहणं, तच्चावश्यंभावि विषमंदिवसग्रहणंझोषवशाद्भवतितथाचाह, झोषः यथा शुध्यति,तथा दिवसग्रहणं भवति, ततो विषममिति दिवसग्रहणविषयं च करणमिदं - [भा.४३१] जइइच्छसिनाऊणंठवणारोवणजहाहिमासेहिं ।
गहियं तद्दिवसेहितम्मासेहिं हरेभागं ।। वृ-अस्यायमर्थः यदि दिवसग्रहणंज्ञातुंइच्छसि, ततःस्थापनारोपणाः स्थापनारोपणामासान्मासेभ्यः संचयमासेभ्यो जहाहि परित्यज च, परित्यज्य च कुतो मासात् किंगृहीतमिति जिज्ञासायांतदिवसेभ्यः स्थापनारोपणाशुद्धशेषसंचयमासदिवसेभ्यः, किमुक्तंभवति, षण्मासदिवसेभ्यःस्थापनारोपणादिवसरहितेभ्यः तन्मासैः स्थापनारोपणादिवसरहितशेषषएमासदिवसमासैः स्थापनारोपणामासशुद्धशेषसंचयमासैर्भाग हरेत्, तत्र यल्लब्धं तान् दिवसान् जानीहि, शेषं पुनर्जानीयात् दिवसभागान् स्थापना रोपणादिवसानांतुस्थापनारोपणामासैरेवभागोहर्त्तव्यः तथापियल्लब्धं ते दिवसा यच्छेषं ते दिवसभागा इति, यथा प्रथम स्थाने विंशिकायां स्थापनायां पंचदशदिनायां चारोपणायां पूर्वप्रकारेण त्रयोदशसंचयमासालब्धास्तेभ्यःस्थापनामासौद्वावेकआरोपणामासउभयमीलनेत्रयःशोध्यंतेजाता: पश्चाद्दश ततः स्थापनारोपणादिवसाःपंचत्रिंशतरहितायेषण्मासदिवसाः,पंचचत्वारिंशतं । तेकिल तदिवसास्तेभ्यः तन्मासैस्तैःशेषीभूतैर्दशभिर्मासर्दशकेनेत्यर्थःभागो ह्रियते, हृतेचभागेलब्धाश्चतुर्दश शेषास्तिठंति पंच, आगतमेकैकस्मात् चतुर्दश चतुर्दश दिवसा गृहीताः पंचपंचदिवसस्वदश भागाः, यदिवा एकस्मात्मासाच्चतुरः सार्धादिवसान्गृहीत्वाशेषेसुमासेष्वर्धमधुप्रक्षिपेत्,तत आगतं नवभ्यो मासेभ्यः प्रत्येकंपंचदशदिवसागृहीताएकस्माश, एततप्रागुक्तमनुस्मारितं,स्थापनादिवसानां विंशतेः स्थापनामासाभ्यांभागो हियते, लब्धा एकैकस्मिन्मासेदश दश दिवसाआरोपणामासस्त्वेकएव, तत्र पंचदश दिवसा लब्धा, आगतंस्थापनामासाभ्यां दश दश दिवसा गृहीता आरोपणामासात्पंचदश एवं विषमदिवसग्रहणंसर्वत्रानेतव्यं, यत्र पुनः स्थापनारोपणा च नास्ति, अकृतत्वात् अथ च सेवितमासा ज्ञायंते, तत्राशीतस्य शतस्य सेवितमासैर्भागे हृते यल्लभ्यते, तदिवसग्रहणं प्रत्येकमासेभ्योऽवगंतव्यं, उक्तं च .
जहिंनस्थिठवण आरोवणाय नजंति सेविया मासा ।
संवियमासेहिभए अस्सीयं लद्धमागहियं ।। [भा.४३२] एवंतुसमासेणंभणियं सामन्नलक्खणंबीयं ।
एएणलक्खणेणं झोसेयव्वाउसव्वाओ ।। वृ- एवमुक्तेन प्रकारेणसामान्येनैव तु शब्द एवकारार्थो भिन्नक्रमत्वादेवं संबंध्यते, सामान्यलक्षणे बीजमिव बीजं सकलमाससामान्यलक्षणावगमप्ररोहसमर्थं किंचिद् भणित्, एतेनानंतरोदितेन बीजकल्पेन लक्षणेन सर्वा अपिकृत्स्ना अकृत्स्ना चारोपणा झोषयितव्याः, स्वबुद्धौ शिष्यबुद्धौ च यथावस्थिततया प्रक्षेपणीयाः, तदेवं कियंतः सिद्धाइति द्वारमुक्तम्; अधुना दिट्ठा निसीहमाने इति द्वार व्याचिख्यासुराह -
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org