________________
११४
व्यवहार - छेदसूत्रम् - १- १/१० प्रतिसेवनातः प्रायश्चित्तस्य वृद्धिहानी यथा केनापि तीव्ररागद्वेपाध्यवसायेन मासिकं स्थानं प्रतिसेवितं, तस्य मासः परिपूर्नो दीयते अपरेण मंदाध्यवसायेन द्वे मासिकस्थाने प्रतिसेविते तस्य एकैकस्य मासस्य पंचदश २ दिनानि गृहीत्वा मासो दीयते, शेषं त्यज्यते मंदाध्यवसायेन प्रतिसेवनात् अन्येन मंदतमाध्यवसायेन त्रीणि मासिकस्थानानि प्रतिसेवितानि, तस्यैकैकस्य मासस्य दश दश दिनानि गृहीत्वा मासोदीयते, शेषं सर्वं त्याज्यं, अपरेणातिमंदतमाध्यवसायेन चत्वारि मासिकस्थानानि प्रतिसेविनाति; तस्मै चैकैस्य मासस्य अर्धाष्टमानि २ दिनानि गृहीत्वा मासो दीयते इत्यादि ततो भवति मूल्यं रागद्वैपौ एवं सकलद्वैमासिकादिसूत्रेषु बहुशः सूत्रेषु च कारणायतनाप्रतिसेविनो रागद्वेषवृद्धिहानित उपयुज्य बहुविस्तारं वक्तव्यं, तदेव गदभत्ति व्याख्यातमधुना अद्धाणसेवियमीत्यादि व्याख्यायते गीतार्थेनाध्वनि उपलक्षणमेतदन्यस्मिन् कारणांतरे यदयतनया प्रतिसेवितं तत्र बहूनि मासिकस्थानान्यापन्नानि तानि चालोचनाकाले सर्वाण्यप्येकवेलयालोचितानि गुरुश्चालोचनाप्रदानविशेषतो जानाति यथैव गीतार्थः कारणेच प्रतिसेवना कृता परमयतनया ततोऽयतनाप्रसंगनिवारणार्थं सर्वेषामपि मासानां समविषमाणां समविषमतया दिवसान् गृहीत्वा मास एकस्तस्मै दत्तः अगीतार्थोपि यो मंदेनाध्यवसायेन बहूनि मासिकस्थानानि प्रतिसेव्य तीव्रेण वाध्यवसायेन प्रतिसेव्य हा मयादुष्टुकृतमित्येवमादिभिर्निदनैरालीचितवान् सोप्येकेन मासेन शुध्यति तथाप्यगीतार्थोऽपरिणमको वा चिंतयेत् द्वैमासिकाद्यापन्नोहं कथमेकेन मासेन शुद्धयामि ततः श्रुतव्यवहारी तस्य प्रत्ययकरणार्थमेकैकस्मात् मासात् कपिपयान् कतिपयान् दिवसान् गृहीत्वा मासमेकं प्रयच्छति ।
यथा द्वयोर्मासयोः प्रतिसेवितयोरेकैकस्यार्द्धमासमर्द्धमासं गृहीत्वा इति एवं सर्वेपि मासाः सफलीकृता इति तस्य महति धृतिरुपजायते, यस्त्वागमव्यवहारी सन व्यवहारी सद् द्वैमासिकं प्राप्तस्य द्वावपि मासी सफलीकरोति किंत्वेकं ददाति, द्वितीयं त्यजति स हि प्रत्यक्षज्ञानी ततो न तद्वचने कस्याप्यशुद्ध्याशंकेति यदा पुनः तीव्राध्यवसायो निष्कारणप्रतिसेवी, तस्य मासादिकमापन्नस्य परिपूर्नमासादिकमेव दीयते । [भा. ३३२] वीसुं दिन्ने पुच्छा, दिट्टंतो तत्थ दंडललिएणं,
दंडो रक्खो तेसिं भयजननं चेव सेसाणं ।
वृ- एवं गीतार्थानामगीतार्थानां च कारणे निष्कारणे वा विष्वक् पृथक् प्रायश्चित्ते दत्ते पुच्छति शिष्यः पृच्छति किंः कारणमगीतार्थानां निष्कारणे कारणे च विसदृशं प्रायश्चित्तं दत्तमिति । अत्र कोठागारत्तिए इत्यस्य व्याख्याया अवसरः दिट्टंतो तत्थ दंडललिएणा तत्र पुरुषभेदेन विसदृशप्रायश्चित्तदाने दृष्टांतो दंडलातिकेन दंडालातो गृहीतो येन स दंडलातः सुखादिदर्शनात् निष्टांतस्य परनिपातः । दंडलात एव दंडलातिकः प्राकृतत्वात् स्वार्थिक इकप्रत्ययो यथा पृथिवीकायिका इत्यत्र तेन दंडलातिकेन गृहीतदंडेन राज्ञा इत्यर्थः । यथा तेन दंडलातिकेन राज्ञा राजकार्ये प्रवृत्तानामपि तेषां दंडानां रक्षा भवति मा भूयो ग्रहीतुः कोष्ठागाराणीति निवारणार्थं, तथा शेषाणां भयजननं च भयोत्पादश्च स्यादित्येवमर्थं स्तोको दंड: कृतस्तथा गीतार्थस्यापि कारणे प्रवृत्तस्यायतनाप्रसंगनिवारणार्थमगीतार्थस्य मंदाध्यवसायप्रतिसेविनो दुष्टाध्यवसायप्रतिसेविनो वा, वा बहुभिर्निदनैर्दत्तालोचनस्य प्रमादनिवारणार्थ मासानां समविषमतया दिवसान् गृहीत्वा मासो दीयते, तथा वा स राजा शेषस्य राजकार्याप्रवृत्तस्य कोष्ठागारमूपकस्य सर्वात्मना दंड करोति, एवं यो निष्कारणप्रतिसेवितस्य मासमापन्नरय परिपूर्ण मासादिकं दीयते । अथ के ते दंडाः कथं च तेषां राजा दंडं कृतवानिति तत्कथानकसूचकमिदं गाथाद्वयमाह -
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org