SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ९४ बृहत्कल्प-छेदसूत्रम् -१ सङ्गहतश्चतुर्व्वेतेषु प्रायश्चित्तं प्रत्येकं चतुर्गुरु । परिपूणकसदृशे मशकतुल्ये बिडालीसमाने आभीरीसद्दशऽप्रशस्तगौसमुपलक्षितधिग्जातीयतुल्ये कन्थाकारिमेरीपालकसद्दशे एतेषु सप्तसु सूत्राऽर्थी प्रयच्छतः प्रत्येकं प्रायश्चित्तम् 'एवमेव' चतुर्गुरुकमित्यर्थः ॥ [भा. ३६३] एमेव गोणि भेरी, हंसे मेसे य जाहग जलूगा । चउलहुगमदाणम्मी, पावति एएस आयरितो ।। -S वृ- एतेषां ये प्रतिपक्षा हंसादयो ये च प्रशस्तगो-मेरीद्दष्टान्तसूचितास्तेषां सूत्रा ऽर्थी प्रयच्छन् शुद्धः । यदि पुनर्न ददाति तदा प्रायश्चित्तं प्राप्नोति चतुर्लघु ॥ प्रकारान्तरेण पर्षन्निरूपणार्थमाह [भा. ३६४] जाणंतिया अजाणंतिया य तह दुव्वियाड्ढिया चेव । तिविहाय होइ परिसा, तीसे नाणत्तगं वोच्छं ॥ वृ- अथवा त्रिविध पर्षत्, तद्यथा- जानती अजानती दुर्विदग्धा च । 'तस्याः' त्रिविधाया अपि नानात्वं वक्ष्ये । प्रतिज्ञातमेव करोति [भा.३६५] गुण-दोसविसेसन्नू, अनभिग्गहिया य कुस्सुइमतेसु । सा खलु जाणगपरिसा, गुणतत्तिल्ला अगुणवज्जा ॥ - या गुण-दोषविशेषज्ञा 'कुश्रुतिमतैः' अपरकुतीर्थिकसिद्धान्तमतैरनभिगृहीता, गाथायां सप्तमी तृतीयार्थे, सा खलु “गुणतत्तिल्ला" गुणयत्नवती अगुणवर्जा जानती पर्षत् ॥ सम्प्रति येऽस्याध्ययनस्य योग्यास्तानाह [भा. ३६६ ] खीरमिव रायहंसा, जे घोट्टंति उ गुणे गुणसमिद्धा । दोसे वि य छडुंता, ते वसभा धीरपुरिस त्ति ।। वृ- ये 'गुणसमृद्धाः' विनयादिगुणसमन्विताः क्षीरमिव राजहंसा गुणान् 'घोटयन्ति' आस्वादयन्ति, येऽपि केचनानुपयोगप्रभवा दोषास्तानपि च 'छर्दयन्ति' परित्यजन्ति ते 'वृषभाः ' - निशीथेन गीतार्था धीरपुरुषा अधिकृतस्याध्ययनस्य योग्याः ॥ अजानतीं पर्षदमाह[भा. ३६७] जे होंति पगयमुद्धा, मिगछावग-सीह-कुक्कुरगभूया । रयणमिव असंठविया, सुहसण्णप्पा गुणसमिद्धा ॥ - प्रकृत्या स्वभावेन मुग्धा मृग-सिंह- कुक्कुरशावभूता, गाथायां शावशब्दस्यान्यत्रोपनिपातः प्राकृतत्वात्, भूतशब्द औपम्ये, ततोऽयमर्थ यथा मृगादिशावा अरण्यादानीय यदि रोचते तर्हि भद्रकाः क्रि यन्ते अथवा क्रूराः, एवं ये प्रकृत्या मुग्धाः परतीर्थिकैश्चाभावितास्ते यथा भण्यन्ते तथा कुर्वन्ति । तथा रत्नमिव असंस्थापिताः, यथा रत्नमसंस्थापितं याशोऽभिप्रायस्तादृशं घटित्वा क्रि यते एवमेतेऽपि यथा रोचते तथा क्रि यन्ते । तथा चाह- सुखप्रज्ञापनीयाः 'गुणसमृद्धाः’ विनयादिगुणनिधयः॥ [भा. ३६८] जे खलु अभाविया कुस्सुतीहि न य ससमए गहियसारा । अकिलेसकरा सा खलु, वयरं छक्कोडिसुद्धं वा ॥ वृ- ये खलु 'कुश्रुतिभिः' कुसिद्धान्तैः अभाविता न च स्वसमये गृहीतसारा सा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy