________________
पीठिका - [भा. २]
वृ-मलयगिरिप्रभृतिव्याकरणप्रणीतेन लक्षणेन संस्कारमापादितं वचनं संस्कृतम्, प्रकृतौ भवं प्राकृतं स्वभावसिद्धमित्यर्थः, तेषां संस्कृत-प्राकृतवचनानां विभाषा' वैविक्त्येन भाषणं कर्तव्यम् । तच्चैवम्
ए-ओकारपराई, अंकारपरं च पायए नत्थि।
व-सगारमज्झिमाणि य, क-चवग्ग-तवग्गनिहणाई।। अस्या इयमक्षरगमनिका-एकारपर ऐकारः, ओकारपर औकारः, अंकारपर अः इति विसर्जनीयाख्यमक्षरम्, तथा वकार-सकारयोर्मध्यगेयेअक्षरेश-षाविति, यानिचकवर्ग-चवर्गतवर्गनिधनानि ङ-अ-ना इति, एतान्यक्षराणि प्राकृते न सन्ति ।। तत एतैरक्षरैर्विहीनं यद् वचनं तत् प्राकृतमवसातव्यम् । एभिरेव ऐ औ अः श ष ङञ न इत्येवंरूपपैरुपेतं संस्कृतम् । एषां संस्कृत-प्राकृतवचनानां विभाषा “जत्थ जुज्जते जंतु" 'यत्र' प्राकृते संस्कृते वा 'यद्' वचनम्एकवचन-द्विवचनादि 'युज्यते' घटामटति तद् वक्तव्यम्। तत्र संस्कृते एकवचन द्विवचनं बहुवचनं च भवति, यथा-वृक्षः वृक्षाः; प्राकृते त्वेकवचनं बहुवचनं वा, न तु द्विवचनम्, तस्य बहुवचननाभिधानात्, “बहुवयणेण दुवयण"मिति वचनात्। ततः 'कप्पव्ववहाराण' मित्यदोषः।
अथः ल्पशब्दस्य व्यवहारशब्दस्य च कोऽर्थः? को वा तयोः कल्प-व्यवहाराध्ययनयोः प्रतिविशेषः? तत आह-'अध्ययननिरुक्तानिच वक्तव्यानि, निश्चितमुक्तं निरुक्तम्, अक्षरार्थ इत्यर्थः, अध्ययनयोः निरुक्तानि अध्ययननिरुक्तानि, तानि च वक्तव्यानि । तद्यथाकल्पशब्दोऽनेकार्थाभिधायी-क्वचित् सामर्थ्य, यथा-वर्षाष्टप्रमाणश्चरणपरिपालने कल्पः, समर्थ इत्यर्थः। क्वचिवर्णनायाम्, यथा-अध्ययनभिदमनेन कल्पितम्, वर्णितमित्यर्थः । क्वचिच्छेदने, यथा-केशान कर्तर्या कल्पयति, छिनत्तीत्यर्थः । क्वचित् करणे क्रियायाम, यथाकल्पिता मयाऽस्याऽऽजीविका, कृता इत्यर्थः । क्वचिदौपम्ये, यथा-सौम्येन तेजसा च यथाक्रममिन्दुसूर्यकल्पाः साधवः । क्वचिदधिवासे, यथा-सौधर्मकल्पवासी शक्रः सुरेश्वरः । सक्तंच
सामर्थ्य वर्णनायां च, छेदने करणे तथा।।
__ औपम्ये चाऽधिवासे च, कल्पशब्दं विदुर्बुधाः ॥ इह सर्वेष्वष्यर्थेषु गृह्यते, सर्वत्रापि घटमानत्वात् । तथाहि-सामर्थ्य तावदेवम्-कल्पाध्ययनमधीस्यातीचारमलिनस्य साधोः समर्थ प्रायश्चित्तेन विशोधोमापादयितुम् । वर्णनेऽपियावन्तः प्रायश्चित्तप्रकारास्तान् वर्णयतीदमध्ययनम्; अथवा मूलगुणान् उत्तरगुणांश्च कल्पयति वर्णयतीति कल्पः । उक्तंच
कप्पम्मि कप्पिया खलु, मूलगुणा चेव उत्तरगुणा य।
ववहारे ववहरिया, पायच्छित्ता-ऽऽभवंते य ।। छेदनेऽपि-तपःशोधिमतिक्रान्तस्य पञ्चाकादिच्छेदनेन पर्यायं छिनत्ति । करणेऽपि-यद् दत्तं प्रायश्चित्तं तत्र तथा प्रयत्नं करोति कल्पाध्ययवेत्ता यथा तत् पारं नयति; अथवा कल्पयति जनयत्याचार्यकमिति कस्मः, तथाहि-करोत्याचार्यकं कल्पाध्ययनवेत्ता सम्यगिति । औपम्येऽपिकल्पाध्ययनवेदनाद् भवति पूर्वधराणां कल्पः सदृश इति कल्पः, तथाहिकल्पाध्ययनेऽधीतेभवतिपूर्वधरसध्शः प्रायश्चित्तविधावाचार्य । अधिवासेऽपि-कल्पाध्ययनवेत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org