________________
बृहत्कल्प-छेदसूत्रम् -१च सम्प्रत्येकग्रन्थत्वेन जातत्वात् । अथ कः सूत्रमकार्षीत् ? को वा नियुक्तिम् ? को वा भाष्यम् ? इति, उच्यते
इह पूर्वेषु यद् नवमं प्रत्याख्याननामकं पूर्वं तस्य यत् तृतीयमाचाराख्यं वस्तु तस्मिन् विंशतितमे प्राभृते मूलगणेषूत्तरगुणेषु चापराधेषु दशविधमालोचनादिकंप्रायश्चित्तमुपवर्णितम्, कालक्रमेण च दुःषमानभावतो धृति-बल-वीर्य-बुद्धया-ऽऽयुःप्रभृतिषु परिहीयमानेषु पूर्वाणि दुरवगाहानिजातानि, ततो मा भूत् प्रायश्चित्तव्यवच्छेदः' इति साधूनामनुग्रहाय चतुर्दशपूर्वधरेण भगवता भद्रबाहुस्वामिना कल्पसूत्रं व्यवहारसूत्रं चाकारि, उभयोरपि च सूत्रस्पर्शिकनियुक्ति । इमे अपि च कल्प-व्यवहारसूत्रे सनियुक्तिके अल्पग्रन्थतया महार्थत्वेन च दुःषमानुभावतो हीयमानमेधा-ऽऽयुरादिगुणानामिदानीन्तनजन्तूनामल्पशक्तीनां दुहे दुरवधारे जाते, ततः सुखग्रहण-धारणाय भाष्यकारो भाष्यं कृतवान्, तच्च सूत्रस्पर्शिकनियुक्त्यनुगतमिति सूत्रस्पर्शिकनियुक्तिर्भाष्यंचैको ग्रन्थोजातः । एष शास्त्रस्योपोद्धातः । अनेन चोपोद्धातेनाभिहितेन सूत्रादयोऽर्था अतिव्यक्ता भवन्ति, यथा दीपेनाऽपवरके तमसि । उक्तं च
वत्तीभवंति दव्वा, दीवेण अप्पगासे उव्वरए।
वत्तीभवंति अत्था, उवधाएणं तहा सत्थे ।। उपोद्धाताभिधानमन्तरेण पुनः शास्त्र स्वतोऽतिविशिष्टमपि न तथाविधमुपादेयतया विराजते, यथा नभसि मेघच्छन्नश्चन्द्रमाः । उक्तंच
मेघच्छन्नो यथा चन्द्रो, न राजति नभस्तले ।
उपोद्धातं विना शास्त्र, न राजति तथाविधम् ।। तत्र सूत्रभणितं “नो कप्पति निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे" इत्यादि । सूत्रस्पर्शिकनियुक्तिभणितमिदम्[भा.१] काऊण नमोक्कारं, तित्थयराणं तिलोगमहियाणं ।
कप्पव्यवहाराणं, वक्खाणविहिं पवक्खामि॥ चू- ‘कृत्वा' विधाय 'नमस्कार' प्रणामम्, केभ्यः ? इत्याह-'तीर्थकरेभ्यः' तीर्यते संसारसमुद्रोऽनेनेति तीर्थ-द्वादशाङ्गप्रवचनंतदाधारः सङ्गोवा, तत्करणशीलास्तीर्थकरास्तेभ्यः ।गाथायां षष्ठी चतुर्थ्यर्थे प्राकृतत्वात् । उक्तंच-छडिविभत्तीए भन्नइ चउत्थी इति।
किंविशिष्टेभ्यः ? इत्याह-'त्रिलोकमहितेभ्यः' त्रयो लोकाः समाहृताः, समवसरणे त्रयाणामपि सम्भवात् । तथाहि-समागच्छन्ति भगवतां तीर्थकृतां समवरणेष्वधोलोकवासिनो भवनपतयः, तिर्यग्लोकवासिनो वानमन्तर-तिर्यक्पञ्चेन्द्रिय मनुष्य ज्योतिष्काः, ऊर्ध्वलोकवासिनः कल्पोपपन्नका देवाः । त्रिलोकेन महिताः-पूजिताः त्रिभिर्वा लोकैर्महितास्त्रलोकमहितास्तेभ्यः । नमस्कारं कृत्वा किम् ? इत्याह-कल्पश्च व्यवहारश्च कल्प-व्यवहारौ तयोः ‘व्याख्यानविधिम्' अनुयोगविधिं प्रकर्षेण भृशं वा वक्ष्यामि प्रवक्ष्यामि ननु कल्पो व्यवहारश्चेति द्वौ ग्रन्थौ, ततः 'कल्प-व्यवहारयोः' इति प्राप्तम्, कथमुच्यते 'कल्प-व्यवहाराणाम् ? इति, अत आह भाष्यकृत्[भा.२] सक्कयपाययवयणाण विभासा जत्थ जुज्जते जंतु ।
अज्झयणनिरुत्ताणि य, वक्खाणविही य अनुओगो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org