________________
बृहत्कल्प-छेदसूत्रम् -१
संडाणि आरोवियाणि । अन्नया रन्ना निग्गएणं दिट्टं, पुच्छियं -कस्सेयं तडागं ? । अमच्चेण भणियंतुब्भं । कहं ? । तओ अमचेण सव्वं सिद्धं । राया तुट्ठो अमञ्चस्स ॥ उक्तोऽप्रशस्तो भावोपक्रमः । प्रशस्तमाह- आचार्यस्य यद् भावमुपक्रामति एष प्रशस्तो भावोपक्रमः ॥ आचार्यस्य भावमुपक्रम्य किं कर्त्तव्यम् ? अत आह
[भा. २६३] जो जेन पगारेणं, तूसइ कार- विनयानुवत्तीहिं । आराहणाइ मग्गो, सु च्चिय अव्वाहओ तस्स ।।
७०
वृ- 'यः' आचार्यो येन प्रकारेण 'कार- विनयानुवृत्तिभिः' कारेणवैयावृत्त्यादिकरणेन यथापादौ प्रक्षालनीयौ, विश्रामणा कर्त्तव्या, ग्लानादीनां नित्यं वैयावृत्त्यं कर्त्तव्यमित्यादि; तथा विनयस्य यावन्तो भेदास्तेषां मध्ये या येन विनयेनानुवृत्ति- सर्वेष्वर्थेष्वप्रतिकूलता तथा तुष्यति तस्य तमवश्यं कुर्यात् । किं कारणं येन येन कृतेन तुष्यति तत् कर्त्तव्यम् ? अत आह-'तस्य' आचार्यस्याराधनाया एषोऽव्याहतः 'मार्ग' पन्थाः ॥ किञ्च -
[भा.२६४] आगारिंगियकुसलं, जइ सेयंवायसं वए पुज्जा । तह विय सिं न विकूड, विरहम्मि य कारणं पुच्छे ॥
वृ- आकारः - दिगवलोकनादिस्तेन इङ्गितं परिज्ञानं यदन्तर्गतस्य भावस्य तत्र कुशल आकारेङ्गितकुशलः, अथवाऽऽकारः- दिगवलोकनादिरिङ्गितं सूक्ष्मचेष्टाविशेषस्ताभ्यामन्तर्गताभिप्रायलक्षणे कुशल आकारेङ्गितकुशलस्तं शिष्यं 'पूज्याः' आचार्या वदेयुः । किं वदेयुः ? इत्याह'श्वेतं वायसं' यथा परतः श्वेतो वायसस्तिष्ठतीति, तथापि “सिं" तेषां पूज्यानां तद् वचनं स शिष्यः 'न विकुट्टयेत्' न प्रतिषेधयेत्, यथा- न भवत्ययं श्वेतः, वायसः कृष्ण इति केवलं 'विरहे' जनापगमे एकान्ते कारणं पृच्छेत्-कथं तदा गुरुपादैरुपदिष्टं 'श्वेतो वायसः' ? इति । तत्राऽऽचार्येण वक्तव्यम्-सत्यम्, न भवति श्वेतो वायसः किन्तु मया त्वत्परिज्ञानार्थमुक्तम्, यथा-किमेष मद्वचनं कोपयति न वा ? इति । उक्तो भावोपक्रमःष थधभिधानाच्च लौकिकः । सम्प्रति शास्त्रयो वक्तव्यः, सच भावेऽन्तर्भवतीति भावोपक्रमतया तमेवाह
[ भा. २६५ ] भावे उवक्कमं वा, छव्विहमनुपुव्विमाइ वन्नेउं । त्थ समोर इमं अज्झयणं तत्थ ओयारे ॥
वृ- वाशब्दः प्रकारान्तरसूचने । अथवा भावोपक्रमं 'षड्विधं' आनुपूर्वी - नाम-प्रमाणवक्तव्यता-ऽर्थाधिकार-समवतारलक्षणं वर्णयित्वा यत्रेदमध्ययनं समवतरति तत्रावतारयितव्यम् । तद्यथा-आनुपूर्वी त्रिधा, पूर्वानुपूर्वी पश्चादानुपूर्वी अनानुपूर्वी च ॥ तत्र[भा. २६६] दुण्हं अनानुपुव्वी, न हवइ पुव्वानुपुव्विओ पढमं । पच्छानुपुव्वि बिइयं, जइ उ दसा तेन बारसमं ।।
वृ-द्वे एवाध्ययने कल्पो व्यवहारश्च न च द्वयोरनानुपूर्वी भवति, ततोऽत्र पूर्वानुपूर्वी वा प्रतिपत्तव्या पश्चानुपूर्वी वा । तत्र पूर्वानुपूर्व्या प्रथमं पश्चादानुपूर्व्या द्वितीयम् । केचिदाचार्या प्राहुः-कल्प-व्यवहार-दशा एकश्रुतस्कन्धः, तन्मतेन यदि दशा अपि गण्यन्ते तदा पूर्वानुपूर्व्या प्रथमं पश्चानुपूर्व्या द्वादशमम् अनानुपूर्व्या एकादिकाया एकोत्तरिकाया द्वादशगच्छगतायाः श्रेणेरन्योऽन्याभ्यासे यावन्तो भङ्गकाः प्रथमान्तिमवर्जास्तावन्तो भदा द्रष्टव्याः ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org