________________
६३
पीठिका - [भा. २३३] प्रवर्तते ? इति । सा च प्रवृत्तिर्द्विधा-द्रव्यतो भावतश्च। तत्र द्रव्यतः प्रवृत्तिमाह[भा.२३४] अनिउत्तो अनिउत्ता, अनिउत्तो चेव होइ उ निउत्ता।
नि(ने]उत्तो अनिउत्ता, उनिउत्तो चेव उनिउत्ता॥ [भा.२३५] निउत्ता अनिउत्ताणं, पवत्तई अहव ते वि उ निउत्ता।
दव्वम्मि होइ गोणी, भावम्मि जिनादयो हुँति ।। वृ- द्रव्यतः प्रसवे गौदृष्टान्तो भवति, भावे जिनादयः । तत्र गवि दोहकेन सह चत्वारो भङ्गाः, तद्यथा-दोहकोऽनियुक्तो गौरपयनियुक्ता १ दोहकोऽनियुक्तो गौनियुक्ता २ दोहको नियुक्तोगौरनियुक्ता३दोहको गौरपि नियुक्ता४। एवमाचार्य-शिष्येष्वपि भङ्गचतुष्टयंयोजनीयम्, तच्चाने योक्ष्यते । तत्र तृतीये भङ्गे नियुक्त आचार्यों बलादप्यनियुक्तानां शिष्याणामनुयोगं प्रवर्तयति। यदि वा द्वितीये भङ्गे तेऽपिशिष्या नियुक्ता अनियुक्तमाचार्यमनुयोगे प्रवर्तयन्ति । एवं तृतीये द्वितीये च भङ्गेऽनुयोगस्य प्रवृत्ति । प्रथमे तु सर्वथा न भवति । चतुर्थे प्रवृतिनिः प्रतिपक्षा ॥ तत्र गोदृष्टान्तविषयं भङ्गचतुष्टयं व्याख्यानयति[भा.२३६] अप्पण्हुया य गोणी, नेव यदुद्धा समुज्जओ दुर्द्ध ।
खीरस्स कओ पसवो, जइ विय सा खीरदा धेनू ॥ वृ-गौरप्रस्नुता, नैवच दोग्घा तांदोग्घुसमुद्यतः, ततो यद्यपिसा क्षीरदाधेनुस्तथाप्यस्मिन् प्रथमभङ्गे कुतः क्षीरस्य प्रसवः ? नैव कुतश्चित् ॥ [भा.२३७] बीए वि नस्थि खीरं, थेवं व हविज एव तइए वि।
अस्थि चउत्थे खीरं, एसुवमा आयरिय-सीसे ॥ वृ- द्वितीयेऽपि भने 'दोहकोऽनियुक्तो गौर्नियुक्ता इत्येवंरूपे नासित क्षीरम्, दोहकस्यानियुक्तत्वात् । अथवा गौः प्रस्नुतेति स्तनेषु गलत्सु स्तोकं क्षीरं भवेत् । एवं तृतीयेऽपि भने 'दोहको नियुक्तो गौरनियुक्ता' इत्येवंलक्षणे नास्ति क्षीरप्रसवः, स्तोकं वा स्याद्दोहकगुणेन। चतुर्थे पुनर्भङ्गे गौरपि प्रस्नुता दोहकोऽपि नियुक्त इत्यस्ति क्षीरप्रसवः । एषा उपमा' भङ्गचतुष्टयात्मिकाआचार्य-शिष्ययोरप्यनुयोगस्य प्रसवेवेदितव्या। तथाहि-आचार्योऽप्यनियुक्तः शिष्या अपि अनियुक्ता इति प्रथमभङ्गे नास्त्यनुयोगस्य प्रवृत्ति । अनियुक्त आचार्य शिष्या नियुक्ता इति द्वितीयेऽपि भङ्गे नानुयोगः, आचाय्यार्नियुक्तत्वात्॥ [भा.२३८] अहवा अनिच्छमाणमवि किंचि उज्जोगिणो पवत्तंति।
तइए सारिते वा, होज्ज पवित्ती गुणिते वा॥ कृ-अथवाअनियुक्तमाचार्यमनिच्छन्तमपिउद्योगिनः शिष्याः किञ्चित्प्रतिपृच्छादिभिरनुयोगं कर्तुप्रवर्त्तयन्ति, ततो भवति द्वितीयेऽपि भङ्गेऽनुयोगस्य प्रवृत्ति । 'तृतीये' 'आचार्यो नियुक्तः शिष्याअनियुक्ताः' इत्येवंरूपे नास्त्यनुयोगस्य सम्भवः, अथवा पुनः पुनः सारयत्याचार्ये अथवा श्रोतुमनिच्छन्तमपि शैलसमानं कञ्चिच्छोतारंपुरो विन्यस्य ‘मा नश्यत्वनुयोगः' इति 'गुणयति' गुणननिमित्तमनुयोगं कुर्वति भवेदनुयोगः ।। अत्र दृष्टान्तः कालकाचार्य। तमेवाह[भा.२३९] सागारियमप्पाहण, सुवन्न सुयसिस्स खंतलक्खेण ।
कहणा सिस्सागमणं, धूलीपुंजोवमाणं च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org