________________
पीठिका - [भा. १९४] इति चेद् उच्यते-सूत्रस्यार्थेन । आधिक्येन योगस्य किं फलम् ? इति चेद् अत आह-अर्थेन सममाधिक्येन नियुक्तंसूत्रं चरणं' चारित्रप्रसूते, यतःसंसारादुमोक्षः॥अत्रैवप्रसवने दृष्टान्तमाह[भा.१९५] वच्छनियोगे खीरं, अत्थनियोगेण चरणमेवं तु ।
पत्तग दंडियमुभयं, दंडियसरिसो तहिं अत्थो॥ वृ-यथा गौर्वत्सेन नियुक्ता सती क्षीरं प्रसूते, एवमर्थेन समं नियुक्तं सूत्रंचरणं प्रसूते । यदि पुनरेकं केवलं सूत्रं स्यात् नार्थस्तेन सङ्गहीतो भवेत् ततश्चरणप्रसवस्याभावः, यथा वत्सनियोगाभावे गोः क्षीरप्रसवस्याभावः । अर्थोऽपि केवलः सूत्रविहीनो न कार्यसाधकः, यथा केवलोवत्सः ।अत्रैव दृष्टान्तान्तरमाह-“पत्तगदंडियउभयं"ति पत्रकं लेखः दण्डिका' लेखस्योपरि मुद्रानियोगः 'उभयं' पत्रकं दण्डिका च । इयमत्र भावना
तिन्नि पुरिसा रायाणमोलग्गति । राया तुट्ठो । कम्मिइ नगरे पसाओ कओ । तत्थ एगेण पुरिसेन जे तम्मिनयरे रायपुरिसा तेसिंजोगंपत्तयमाणीयं परं मुद्दारहियं । बिइएण दंडिया चेव केवला । तइएणोभयं । तत्थ जेण मुद्दारहियं पत्तयमाणीयं सो रायपुरिसेहिं भणिओ-नत्थि पत्तगस्सोपरि मुद्दाविणिओग त्ति न मन्नेमो । बिइओ भणिओ-अस्थि इयं मुद्दा, परं को रन्ना पसाओ कओ? को वा न कउ ? त्ति न जाणामो त्ति, तम्हा न देमो त्ति । तइएणोभयं दरिसियं । सव्वं जहत्थियं लद्धं । एव दृष्टान्तः ।। अयमर्थोपनयः-पत्रसद्दशं सूत्रम्, दण्डिकासशोऽर्थः । यथा पत्रकं केवलं दण्डिका वान कार्यस्य प्रसाधिका, उभयं तुप्रसाधकम्, एवं सूत्रमर्थश्च पृथग् न चरणप्रसाधकः, उभयं तुप्रसाधकम् ।। सम्प्रति प्रतिश्रुतदृष्टान्तोपेतं भाषाद्वारमाह[भा.१९६] पडिसद्दगस्स सरिसं, जो भासइ अस्थमेगु सुत्तस्स ।
सामइय बाल पंडिय, साहु जईमाइया भासा ।। वृ-यथा गिरिकुहर-कन्दरादिषुयाशःशब्दः क्रियते तादृशः प्रतिशब्द उत्तिष्ठति, एवं यो याशं सूत्रं तस्य ताशमर्थमेकं भाषते तस्य तद् भाषणं भाषा । यथा समभावः सामायिकम्, द्वाभ्यां-बुभुक्षया तृषा वाऽऽगलितो बालः, साधयति मोक्षमार्गमिति साधुः, यतते सर्वात्मना संयमानुष्ठानेष्विति यति, आदिशब्दात् तपतीति तपन इत्यादिपरिग्रहः ॥
साम्प्रतमभ्रपटलदृष्टान्तसमन्वितं विभाषाद्वारमाह[भा.१९७] एक्केणं एक्कदलं, तहिं कयं बिईएण बहुतरगा।
तइएण छाइयं तं, तिल्लं-ऽबिलमादुवाएहिं ।। वृ- एकेन च्छत्रकारेण त्रयाणामात्मीयशिष्याणां चत्राच्छादनार्थमभ्रपटलानि दत्तानि 'छत्राण्याच्छादयत' । तत्रैकेन शिष्येण एकमभ्रपटलदलंतत्रच्छत्रेकृतम्, द्वितीयेनाऽऽत्मीयच्छत्रे बहुतराणि द्वि-त्रि-चतुःप्रभृतीनि अभ्रपटलानि लापितानि, तृतीयेन च बहून्यभ्रपटलानि दत्त्वा तैला-ऽम्लादिभिरुपायैस्तच्छत्रंसर्वात्मनाऽऽच्छादितम्। किमुक्तं भवति ?-तान्यभ्रपटलदलानि लापितानि तैला-ऽम्लादिभिस्तीमित्वा सर्वथा निर्भेदं कृतम् । एष दृष्टान्तः, अयमर्थोपनयःप्रथमशिष्यसशो भाषकः, द्वितीयशिष्यसदृशो विभाषकः ।। [भा.१९८] एगपए उ दुगाई, जो अत्थे भणइ सा विभासा उ ।
असइ य आसु य धावइ, न य सम्मइ तेन आसो उ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
w