________________
उद्देशक : १, मूलं-६, [भा. १८९६ ]
४७९
कूजनं-सशब्दाक्रन्दनम्, आदिग्रहणाद् 'अनाथोऽहम्, न किमप्यमी मह्यं प्रयच्छन्ति' इत्येवमुड्डाहं कुर्यात् ततश्चतुर्गुरुकम् ॥
अथपरितापनादिपदं व्याख्यानयति
[भा. १८९७] अंतो बहिं न लब्भइ, परितावण महय मुच्छ किच्छ कालगए । चत्तारि छच्च लहु-गुरु, छेदो मूलं तह दुग च ॥
वृ- क्षेत्रस्यान्तर्बहिर्वा न लभ्यते इति कृत्वा ग्लानस्यानागाढा परितापना भवति चतुर्लघु । आगाढपरितापनायां चतुर्गुरु । दुःखादुः खे षड्लघु । मूर्च्छामूर्च्छ षड्गुरु । कृच्छ्रप्राणे च्छेदः । कृच्छ्रोच्छ्वासे मूलम् । समवहते अनवस्थाप्यम् । कालगते पाराञ्चिकम् ।। एवंतावदाहारविषयमुक्तम् । अथोपधिविषयमभिधीयते
[भा. १८९८ ] अंतो बहिं न लब्भइ, संथारग महय मुच्छ किच्छ कालगए। चत्तारि छच लहु-गुरु, छेदो मूलं तह दुगं च ॥
वृ- अतिचमढिते क्षेत्रेऽन्तर्वा बहिर्वा संस्तारको न लभ्यते ततो ग्लानस्यानागाढपरितापनादिषु चतुर्लघुकादिकं तथैव प्रायश्चित्तं द्रष्टव्यम् । अत्रपरितापनापदं समुद्धातपदं च गाथायां साक्षान्नोक्तम्, अतो मा भूद् मुग्धमतिविनेयवर्गस्य व्यामोह इति कृत्वा साक्षात् तदभिधानार्थमिमां गाथामाह[भा. १८९९ ] परिताव महादुक्खे, मुच्छामुच्छे य किच्छपानगते । किच्छुरसासे य तहा, समुघाए चेव कालगते ॥ लुब्धद्वारम् । अथानुवर्त्तनाद्वारमाह
अनुयत्तमा गिलाणे, दव्वट्ठा खलु तहेव विज्जट्ठा ।
असतीइ अन्नओ वा, आनेउं दोहि वी कुज्जा ।।
वृ- ग्लानप्रायोग्यं यद् भक्त पानादिकं द्रव्यं स एवार्थ प्रयोजनं द्रव्यार्थस्तमुत्पादयद्भिर्लानस्यानुवर्त्तना कर्त्तव्या । "तहेव विज्जट्टे "ति तथैव वैद्यस्यार्थमुत्पादयद्भिर्लानस्यानुवर्त्तना विधेया । यदि स्वग्रामे द्रव्य-वैद्ययोरभावस्ततोऽन्यग्रामादपि द्रव्य - वैद्यावानीय द्वाभ्यामप्यनुवर्त्तनां कुर्यात् ॥
अथैनामेव गाथां व्याचिरव्यासुराह
[भा. १९०१] जायंते उ अपत्यं, भांति जायामो तं न लब्भइ णे । विनियट्टणा अकाले, जा वेल न बेंति उ न देमो ॥
वृ- ग्लानो यद्यपथ्यं द्रव्यंयाचते ततः साधवो भणन्ति-यवं याचामः परं किं कुर्महे ? तद् भवतामभिप्रेतं भूयोभूयः पर्यटद्भिरि न लभ्यते "ने” अस्माभि; इत्थं भणद्भिर्लानोऽनुवर्त्तितो भवति । यद्वा ग्लानस्याग्रतः पात्रकाण्युद्रा प्रतिश्रयान्निर्गत्यापान्तरालपथाद् 'विनिवर्त्तनां' प्रत्यागमनं कुर्वन्ति, तस्य पुरतश्चेत्थं ब्रुवते वयं गता अभूम परं न लब्धम्; अकाले वा गत्वा याचन्ते येन न लभ्यते । अकाले च याचमानं ग्लानं ब्रुवते यावद् वेला भवति तावत् प्रतीक्षस्व, ततो वयमानीय् दास्याम इति, न पुनर्बुवते दद्मो वयमिति ॥
अथ क्षेत्रतो ग्लानस्यानुवर्त्तनामाह
[भा. १९०२ ] तत्थेव अन्नगामे, वुत्यंतरऽसंथरंत जयणाए ।
Jain Education International
For Private & Personal Use Only
वृ- गतार्था ।। उक्तं [भा. १९०० ]
www.jainelibrary.org