________________
४३१
उद्देशक : १, मूलं-६, [भा. १६९८] [भा.१६९८] सइमेव उ निग्गमणं, चउत्थभत्तिस्स दोन्नि वि अलद्धे ।
सव्वे गोयरकाला, विगिट्टछट्ठऽट्ठमे बि-तिहिं ।। वृ. 'सकृदेव' एकवारमेव नित्यभक्तिकस्य भक्ताय वा पानाय वा निर्गमनं कल्पते । चतुर्थभक्तिकस्याप्युत्सर्गतः सकृदेव भिक्षामटितुंकल्पते।अथ तदानीं पर्यटताऽपितेन परिपूर्णो भक्तार्थो न लब्धः ततोऽलब्धेसति तस्यद्वावपि गोचरकालावनुज्ञातौ । उक्तञ्च दशाश्रुतस्कन्धेकप्पइ चउत्थभत्तियस्स एगं गोयरकालं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तएवा। सेयनोसंथरिजा एवंसेकप्पइदुच्चंपिगाहावइकुलं इत्यादि। यस्तु विकृष्टभक्तिकः' दशम-द्वादशमादिक्षपकस्तस्य सर्वेऽपि गोचरकालाः कल्पन्ते । “छट्ठऽहमे ब-तिहिं"ति षष्ठभक्तिकस्य द्वयोर्गोचरकालयोरष्टमभक्तिकस्य तु त्रिषु गोचरकालेषु भिक्षामटितुंकल्पत इति ।। स्यान्मति किमर्थं षष्ठादिभक्तिकानां व्यादिगोचरकालानामनुज्ञा? उच्यते[भा.१६९९] संखुना जेणंता, दुगाइछट्ठादिनं तु तो कालो ।
भुत्तनुभुत्ते अबलं, जायइ न य सीयलं होइ।। वृ- ‘संक्षुन्नानि' सङ्कुचितानि ‘येन' कारणेन षष्ठादितपसा ‘अन्त्राणि' प्रतीतानि, ततः षष्ठादिभक्तिकानां द्विकादिकः' गोचरद्वयादिकः कालोऽनुज्ञातः।अपिचप्रथममेकवारंभुक्तस्ततो द्वितीयादि वारमनुभुक्तो भुक्तानुभुक्तस्तस्य व्यादीन् वारान् भुक्तवत् इत्यर्थः ‘बलं' भूयोऽपि षष्ठादिकरणे सामर्थ्यमुपजायते । न चेत्थं तद् भक्तं शीतलं भवति, सद्यो गृहीतत्वात् । यदि ह्येकमेव वारं पर्यटता यद् गृहीतं तन्मध्यात् किञ्चित् समुद्दिश्य द्वितीयादिवारसमुद्देशनार्थं शेषं स्थापयेत् तदा तद् भवत्येव शीतलम् । तच्च तस्य तपःक्षामदेहस्याकारकमिति कृत्वा द्व्यादयो गोचरकाला अनुज्ञाता इति ।।अत्रपरः प्राह-यद्यसौ षष्ठादिभक्तिको यावन्ति भक्तानि च्छिनत्ति तावन्त्येकेनैव दिवसेन पूरयति ततः को नाम गुणस्तस्य भक्तच्छेदनेन ? उच्यते[भा.१७००] बहुदेवसिया बत्ता, एगदिनेनं तु जइ विभुंजेज्जा ।
तह विय चाग-तितिक्खा-एग्ग-पभावणाईया॥ वृ-बहुदैवसिकानि भक्तानि यद्यप्यसावेकदिनेनैव तुशब्दस्यैवकारार्थत्वात् षष्ठादिभक्तिको भञ्जीत तथापिभक्तच्छेदने त्याग-तितिक्षैकाग्रय-प्रभावनादयोगुणा भवन्ति । त्यागोनाम-द्व्यादीन् दिवसान् यावत् सर्वथैव भक्तार्थपरिहारः, तितिक्षा-क्षुधापरीषहस्याधिसहनम्, एकण्यं तु सूत्रार्थपरावर्तनादौ चित्तस्यानन्योपयुक्तता, प्रभावना नाम-अहो ! अमीषां शासनं विजयते यत्रेदशास्तपस्विन इति, आदिशब्दादन्येषामपितपःकर्मणि श्रद्धाजननम्, गृहिणां वा तद्दर्शनात् प्रव्रज्याप्रतिपत्तिरिति । अतः षष्ठादिभक्तिकस्य द्व्यादिगोचरकालानुज्ञानम् । नित्यभक्तिकस्तु यदि द्वितीयं वारं भिक्षार्थमवतति मासलघु, तृतीयवारंमासगुरु, चतुर्थं चतुर्लघु, पञ्चमं चतुर्गुरु, षष्ठंषड्लघु, सप्तमंषड्गुरु, अष्टमंछेदः, नवममूलम्, दशममनवस्थाप्यम्, एकादशंवारंपाराञ्चिकम्।
चतुर्थभक्तिकादीनामतिदेशमाह[भा.१७०१] जह एस एत्थ वुड्डी, ओअरमाणस्स दसहि सपदं च ।
सेसेसु विजं जुज्जइ, तत्थ विवड्डी उ सोहीए। वृ- यथा द्वितीयादिवारं भिक्षामवतरतः ‘एषा' लघुमासादारभ्य प्रायश्चित्तस्य वृद्धिर्भणिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org