________________
बृहत्कल्प-छेदसूत्रम् - १-१/६ दर्शनप्रभावकशास्त्रार्थिनश्चेत्यर्थः 'दुर्बलसंहननस्य च' असमर्थशरीरस्यानुग्रहार्थं गच्छे 'प्रकीर्णा' अप्रतिनियता एषणा भणिता भगवद्भिरिति ॥ अथैतान्येव पदानि गाथाद्वयेन भावयति[भा. १६९४ ] तिक्खछुहाए पीडा, उड्डाह निवारणम्मि निक्किवया । इय जुवल-सिक्खगेसुं, पओस भेओ य एक्कतरे ॥
1
वृ- अभिगृहीतयैवैषणया भक्त पानग्रहणे प्रतिज्ञाते तया चालब्धे स्तोके वा लब्धे सति बालवृद्धशैक्षकाणां तीक्ष्णया-दुरधिसहया क्षुधा उपलक्षणत्वात् तृषा चम हती पीडा भवति । उड्डाहो वा भवेत्, स हिबालादिरित्थं लोकपुरतो ब्रूयात्-एते साधवो मां क्षुधा तृषा वा मारयन्तीति । तथा 'निवारणे' विवक्षितामेकामेषणां विमुच्य अन्यासां प्रतिषेधे विधीयमाने सति बालादयश्चिन्तयेयुःअहो ! निष्कृपताऽमीषाम्; ततः प्रद्वेषं गच्छेयुः । 'भेदो वा एकतरे' जीवितस्य चारित्रस्य वा विनाशोऽमीषां भवेदित बाल-वृद्धयुगले शैक्षके वा नियन्त्रयमाणे दोषा मन्तव्याः ॥
४३०
[भा. १६९५] सुचिरेण वि गीयत्थो, न होहिई न वि सुयस्स आभागी । पग्गहिएसणचारी, किमहीउ धरेउ वा अबलो ||
वृ- तथा अगीतार्थ सुचिरेणापि कालेन गीतार्थो न भविष्यति, नापि 'श्रुतस्य' आचारादेः उपलक्षणत्वाद् दर्शनप्रभावकशास्त्राणां वा आभागी । कीदृश: ? इत्याह-‘'प्रगृहीतैषणाचारी' प्रगृहीता- अभिग्रहवती या एषणा तच्चारी- तत्पर्यटनशीलः, तथाविधभक्त - पानोपष्टम्भाभावादिति भावः । यो वा ‘अबलः' दुर्बलसंहननः स प्रणीताहाराद्युपष्टम्भाभावे किं सूत्रमर्थं वा अधीतां धारयतां वा ? । अत एतेषामनुग्रहार्थं गच्छे प्रकीर्णैषणा दृष्टा ॥
अथास्या एव विधिमभिधित्सुर्द्वारगाथामाह
[भा. १६९६ ] पमाणे काले आवस्सए य संघाडगे य उवगरणे । मत्त काउस्सग्गो, जस्स य जोगो सपडिवक्खो ||
वृ-प्रमाणं नाम-कति वारान् पिण्डपातार्थं गृहपतिकुलेषु प्रवेषटव्यम् ? इति । "कालि "त्ति कस्यां वेलायां भिक्षार्थं निर्गन्तव्यम् ? । “आवस्सग"त्ति 'आवश्यकं' संज्ञा-कायिकीलक्षणं तस्य सोधनं कृत्वा निर्गन्तव्यम् । "संघाडगे "त्ति सङ्घाटकेन साधुयुग्मेन निर्गन्तव्यं नैकाकिना । “उवगरणि”त्ति सर्वोपकरणमादाय भिक्षायामवतरणीयम् । “मत्तगि"त्ति मात्रकं ग्रहीतव्यम् । 'काउस्सग्गो"त्ति उपयोगनिमित्तं कायोत्सर्ग कर्त्तव्यः । “जस्स य जोगो' त्ति 'यस्य च ' सचित्तस्याचित्तस्य वा 'योगः' सम्बन्धो भविष्यति लाभ इत्यर्थः तदप्यहं ग्रहीष्यामीति भणित्वा निर्गन्तव्यम्। “सपडिवक्खो "त्ति एष प्रमाणादिको द्वारकलापः 'सप्रतिपक्षः' सापवादो वक्तव्य इति द्वारगाथासमासार्थ ॥ अथ विस्तरार्थमभिधित्सुः प्रमाणद्वारं भावयति
[भा. १६९७] दोन्नि अणुन्नायाओ, थइय आवज मासियं लहुयं । गुरुगो उचउत्थी, चाउम्मासो पुरेकम्मे ॥
वृ-चतुर्थभक्तिकस्य द्वौ वारौ गोचरचर्यामटितुमनुज्ञातौ । अथ तृतीयं वारमटति तत आपद्यते मासिकं लघुकम् । अथ चतुर्थं वारं पर्यटति तदा गुरुको मासः । स्त्रीत्वं सर्वत्र प्राकृतत्वात् । अथ तृतीयादीन् रान् भिक्षार्थं प्रविशति ततो गृहिणः पुरः कर्म कुर्वन्ति तत्र चत्वारो मासा लघव इति । एषा निर्युक्तिगाथा ।। अथैनामेव भाष्यकृद् विवृणोति -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org