________________
पीठिका - [भा. १४१ ]
३९
अथवा गतिपरिणतं द्रव्यं भूत्वा स्थानपरिणतं भवति, स्थानपरिणतं भूतवा गतिपरिणतम् । यदि वा "ठाण' त्ति एकप्रदेशावगाढं भूत्वा द्विप्रदेशावगाढं भवति, द्विप्रदेशावगाढं भूत्वा एकप्रदेशावगाढम्, एवं विस्तरेण सर्वाऽवगाहना द्रष्टव्या । तथा पुद्गलस्कन्धानां तेन तेन प्रकारेण भेदो भवति । तेषामेव च द्विपर्देशादीनां सङ्घातः । तथा "वण्ण"त्ति परमाणुः कालवर्णपरिणतो भूत्वा नीलवर्णपरिणतो भवति, नीलवर्णपरिणतो भूत्वा कालवर्णपरिणतः, एवं विस्तरेण वर्णपरिणामो वक्तव्यः । आदिशब्दाद् गन्ध-रस-स्पर्श-संस्थानानां परिग्रहः, तेऽप्येवं वक्तव्याः सुरभिगन्धपरिणतो भूत्वा दुरभिगन्धपरिणतो भवति इत्यादि विस्तरेणोपयुज्य वक्तव्यम् । इत्थं च प्रज्ञापनीयभावानां प्रज्ञापने श्रुतज्ञानमपि तथा तथा परिणमत इति सादि सपर्यवसितं द्रष्टव्यम् ॥ चतुष्कमधिकृत्यानाद्यपर्यवसितत्वमाह
।
[ भा. १४२] दव्वे नानापुरिसे, खेत्ते विदेहाइँ कालो जो तेसु । खयउवसम भावम्मिय, सुयनाणं वट्टए सययं ॥
वृ- 'द्रव्ये' द्रव्यतो नानापुरुषान् प्रतीत्य, क्षेत्रतः पञ्च विदेहान्, 'तेष्वेव च' पञ्चसु विदेहेषु यः कालस्तं कालमधिकृत्य, भावे क्षयोपशमरूपे श्रुतज्ञानं 'सततं ' सर्वकालं वर्त्तत इत्यनाद्यपर्यवसितता ॥ सम्प्रति गमिकमगमिकं चाह
[ भा. १४३ ] भंग-गणियादि गमियं, जं सरिसगमं च कारणवसेणं । गाहादि अगमियं खलु, कालिय तह दिट्टिवाए य ।।
वृ- 'दृष्टिवादो गमिकम्, कालिकश्रुतमगमिकम् एतद् बाहुल्येनोच्यते अतोऽपवदति “भंगगणिये” त्यादि पूर्वार्धम्। कालिकश्रुते दृष्टिवादे वा यत्र भङ्गाः - चतुर्भङ्गादयः गणितं सङ्कलनादि, आदिग्रहणेन क्रियाविशाले पूर्वेयत् छन्दः प्रकृतं तत्सध्शगममिति तस्य परिग्रहः; यच्च 'कारणवशेन' अर्थवशेन सध्शगमम्, यथा निशीथस्य विंसतितम उद्देशकः, एतद् गमिकम् । शेषं गाथादि आदिशब्दात् श्लोकादिपरिग्रहः अगमिकम् ।। सम्प्रत्यङ्गगतमनङ्गगतं च प्रतिपादयति
[भा. १४४] गणहर-थेरकयं वा, आदेसा मुक्कवागरणतो वा । ध्रुव-चलविसेसतो वा, अंगा-ऽनंगेसु नाणत्तं ॥
वृ- यद् गणधरैः कृतं तदङ्गप्रविष्टम् । यत्पुनर्गणधरकृतादेव स्थविरैर्निर्यूढम्; ये चादेशाः, यथा-आर्यमङ्गुराचार्यस्त्रिविधं शङ्खमिच्छति-एकमविकं बद्धायुष्कमभिमुखनामगोत्रंच, आर्यसमुद्रो द्विविधम्-बद्धायुष्कमभिमुनामगोत्रं च, आर्यसुहस्ती एकम्-अभिमुखनामगोत्र मिति; यानि च मुक्तकानि व्याकरणानि, यथा- "वर्ष देव ! कुलाणायाम् ०" इत्यादि, तथा "मरुदेवा भगवती अनादिवनस्पतिकायिका तद्भवेन सिद्धा" इत्यादि; एतत्स्थविरकृतम् आदेशा मुक्तकव्याकरणतश्च अनङ्गप्रविष्टम् । अथवा ध्रुव-चलविशेषतोऽङ्गाऽनङ्गेषु नानात्वम् । तद्यथा ध्रुवं अङ्गप्रविष्टम्, तच्च द्वादशाङ्गम्, तस्य नियमतो निर्यूहणात् चलानि प्रकीर्णकानि तानि हि कदाचिन्निर्यूह्यन्ते कदाचिन्न, तान्यनङ्गप्रविष्टमिति । आह द्दष्टिवादे सर्वमेव वचगतमवतरति, ततः किमर्थमङ्गगतानां निर्यूहणम् ? इति, तत आह
[भा. १४५] जइ वि य भूयावादे, सव्वस्स वयोगयस्स ओयारो । निज्जूहणा तहा विय, दुम्मेहे पप्प इत्थी य ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org