________________
३८
बृहत्कल्प-छेदसूत्रम् -१
दात् । चतुर्थ केवलभावे ॥ पञ्चमो मिथ्यात्वगमने ॥ तत्र प्रथमं प्रतिपातं देवभावमासाद्य भावयति[भा.१३८] चउदसपुव्वी मनुओ, देवत्ते तं न संमरइ सव्वं । देसम्म होइ भयणा, सद्वाणभवे विभयणा उ ॥
वृ- चतुर्दशपूर्वी मनुजो देवत्वे प्राप्ते सति 'तत्' श्रुतं सर्वं न संस्मरति, विषयप्रमादतस्तथाविधोपयोगाभावात्; देशे भवति ‘भजना' विकल्पना, सा त्वेवम्-कश्चिद्देशं स्मरति, कश्चिद्देशस्यापि देशम्, कश्चित्पुनरेकादशस्वप्यङ्गेषु सर्वं स्मरति, कश्चित्तेषामपि देशमिति । तदेवं भावितो देवभावमासाद्य प्रथमः प्रतिपातः । सम्प्रति शेषान् भावयति- “सट्ठाणभवे वि भयणा उ” स्वस्थानं-मनुष्यत्वं तस्मिन्नपि भवे रोगादिभि 'भजना' विकल्पना । तथाहि -रोगे समुत्पन्ने तथाविधपीडावशतः स्मृतेरुपहननान्न स्मरति, प्रमादतो वा गुणनाभावातोऽपगच्छति श्रुतमधीतम्, केवलज्ञानभावे वा श्रुतज्ञानस्य क्षयः, “नट्ठम्मि उछाउमत्थिए नाणे" इति वचनात्, मिथ्यादर्शनगमने वा सर्वश्रुताभावः, अज्ञानीभवनादिति । आह श्रुतज्ञानं जीवादन्यत् ? अन्यत् ? उच्यतेअनन्यत् । यत आह
[भा. १३९ ] नियमा सुयं तु जीवो, जीवे भयणा उ तीसु ठाणेसु । सुयनाणि सुयअनाणी, केवलनाणी व सो होज्जा ।
वृ-श्रुतं नियमाज्जीवः, तत्परिणामत्वात् । जीवे पुनः 'त्रिषु स्थानेषु' त्रीणि स्थानान्यधिकृत्य ‘भजना’ विकल्पना। तथाहि स जीवः कदाचित् श्रुतज्ञानी कदाचित्केवलज्ञानीति ।। सम्प्रति क्षेत्रतः कालतो भावतश्च सादि - सपर्यवसिततामाह
[भा. १४०] खित्ते भरहेवए, काले उ समातो दोन्नि तत्थेव । भावे पुण पन्नवगं, पन्नवणिज्जे य आसज्जा ।।
वृ-क्षेत्रतः पञ्च भरतानि पञ्चैरावतान्यधिकृत्य, काले 'तत्रैव' पञ्चसु भरतेषु पञ्चस्वैरावतेषु 'द्वेसमे' अवसर्पिणीमुत्सर्पिणीं चाधिकृत्य सादि-सपर्यवसितम्, यावत् तीर्थकृतां तीर्थानुवृत्तिस्तावद् भवति शेषकालं नेति कृत्वा । भावे पुनः प्रज्ञापकं प्रज्ञापनीयांश्च भावानासाद्य सादि पर्यवसितम् ॥ कथम् ? इत्याह
[भा. १४१] उवयोग-सर- पयत्ता, ठाणविसेसा य हुंति पन्नवगे । गति-ठाण-भेय-संघाय वन्नमादी य भावम्मि ॥
वृ- प्रज्ञापकस्यकदाचिदुपयोगः शुभो भवति कदाचिदुदात्तः कदाचिदनुदात्त कदाचिदनुदात्तः कदाचित्स्वरितः प्रयत्नो नाम-आदरः स क्षणे क्षणेऽन्यादृशः । 'स्थानविशेषाः ' स्थानप्रकाराः वीरासनाद्याः । एषामुत्पादे प्रज्ञापकस्याप तेन तेन भावेनोत्पादो विनाशेच विनाशः । प्रज्ञापकस्योत्पादे विनाशे च श्रुतज्ञानस्यापि तदात्मकत्वादुत्पादो विनाशश्च । तत एवं प्रज्ञापकमधिकृत्य सादिसपर्यवसितम् अधुना प्रज्ञापनीयान् भावानधिकृत्य तद् भावयति 'गति' इत्यादि । पदैकदेशे पदसमुदायोपचाराद् ‘गति' इति गतिलक्षणो धर्मास्तिकायः परिगृह्यते । स जीवस्य पुद्गलस्य वा गतिपरिणामपरिणतस्योपग्रहे वर्त्तित्वात् तस्यैव स्थानपरिणामपरिणतस्योपग्रहेन वर्त्तते इत्यसौ सादि-पर्यवसितः । एवमधर्मास्तिकायोऽपि स्थानलक्षणो जीवस्य पुद्गलस्य वा स्थानपरिणतस्योपग्रहे वर्त्तित्वात् तस्यैव गतिपरिणामपरिणतस्योपग्रहे न वर्त्तते इति सादि-सपर्यवसितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org