________________
४०६
बृहत्कल्प-छेदसूत्रम् - १-१/६.
यस्य स तथा तम्, तथा गुरवः आचार्यास्तेषु भक्तिमन्तम्- आन्तरप्रतिबन्धोपेतम्, 'विनीतम्' अभ्युत्थनादिबाह्यविनयवन्तम्, एवंविधं शिष्यं वैयावृत्त्यमाचार्य कारयेत् ॥ आह किमर्थं वैयावृत्यकरस्येयन्तो गुणा मृग्यन्ते ? उच्यते
[ भा. १६०२ ] साहंति य पियधम्मा, एसणदोसे अभिग्गहविसेसे ।
एवं तु विहिगहणे, दव्वं वडृति गीयत्था ॥
वृ-प्रियधर्माणउपलक्षणत्वादपरैरप्यनन्तरोक्तगुणैर्युक्ता वैयावृत्यकराः “साहंति "त्ति कथयन्ति 'एषणादोषान्' प्रक्षित - निक्षिप्तादीन् । यथा-इत्थं प्रक्षितदोषो भवति, इत्थं तु निक्षिप्त इत्यादि । एतैश्च दोषैर्दुष्टं साधूनां न दीयते । 'अभिग्रहविशेषाँश्च' जिनकल्पिक स्थविरकल्पिकसम्बन्धिनः कथयन्ति । 'एवम्' उक्तेन विधिना स्थापनाकुलेषु ग्रहणे श्रद्धां वर्धयन्तो गीतार्था 'द्रव्यमपि' घृतादिकं वर्धयन्ति || इदमेव भावयति
[भा. १६०३ ] एसणदोसे व कए, अकए वा जइगुणे विकत्थिता । कहयंति असढभावा, एसणदोसे गुणे चेव ॥
वृ- 'एषणादोषे ' म्रक्षितादौ कृते वा अकृते वा 'यतिगुणान्' क्षान्ति- मार्दवादीन् 'विकत्थमानाः ' विविधंश्लाघमानाः ‘अशठभावाः' कैतववर्जिताः न भक्षणोपायनिमित्तमिति भावः एषणा दोषान् कथयन्ति । तथा गुणाः साधूनां प्राशुकैषणीयभक्त पानप्रदानप्रभवाः पापकर्मनिर्जरादयस्ताँश्च गीतार्थाः कथयन्ति । यथा- समणोवासगस्स नं भंते! तहारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असन-पान-खाइम साइमेणं पडिलाभेमाणस्स किं कजइ ? गोयमा ! एगंतसो निजरा कज्जइ, नत्थि य से केइ पावकम्मे कज्जइ त्ति । अथेत्थं न कथयेयुः ततः के दोषाः ? इत्याह[भा. १६०४] बालाई परिचत्ता, अकहिंतेऽनेसणाइगहणं वा । नय कहपबंधदोसा, अह य गुणा साहिया होति ॥
वृ- तेषु श्राद्धकुलेषु जिनकल्पिका भिक्षार्थमायाताः, तेषां परमान्नादिकं लेपकृतमुपनीतम्, तैश्च भगवद्भिः प्रतिषिदधम्, ततस्तानि श्राद्धकानि चिन्तयेयुः- एत एव प्रधानाः साधवः, इतरे तु स्निग्ध-मधुरद्रव्यग्राहिणः सर्वेऽपि नामधारकमात्राः साध्वाभासा एवेति । ततः श्रद्धाभङ्गभाजि तानि भूयः प्रायोग्यद्रव्यं नोपढौकयेयुः । एवमभिग्रहविशेषान् अकथयद्भिर्गीतार्थैर्बालादयः परित्यक्ता भवन्ति । अथैषणादोषान् शुद्धभक्त पानानस्य च गुणान् न कथयेयुः ततस्तानि श्राद्धकान्येषणां कुर्यु । तत्र यदि प्रतिषिध्यते तदाऽपि बालादयः परित्यक्ताः, तेषां प्रायोग्याभावे संस्तरणाभावात् । अथ न प्रतिषिध्यते ततोऽनेषणादिग्रहणं भवेत्, आदिशब्द एषणादोषाणामेव स्वगतानेकभेदसूचकः । आह गोचरप्रविष्टानां साधूनां कथाप्रबन्धः कर्त्तु न कल्पते, अमी च साधव इत्थमेषणादोषादीनां कथां प्रबध्नन्तः कथं न दोषभाजो भवन्ति ? इत्युच्यते- 'न च' नैवात्र कथाप्रबन्धदोषा भवन्ति, यदि हि भक्त-पानलोलुपतया कथां प्रबघ्नीयुस्ततो भवेयुर्दोषाः, तच्च नास्ति, एषणाशुद्धिहेतोरेव तेषामित्थं कथनात् । अथ च प्रत्युतेत्थं कथयद्भिस्तैर्गीतार्थैः 'गुणाः' बाल-वृद्धाद्युपष्टम्भ-गुरुभक्तिप्रभृतयः साधिता भवन्ति ।। कतं पुनस्ते कथयन्ति ?
इत्याह
[भा. १६०५ ] ठाणं गमनाSS गमनं, वावारं पिंडसोहिमुल्लोगं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org