SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-६, [भा. १५९६ ] ४०५ भवेत् । अथ वेलातिक्रमभयाद् देशकाल एव तेषु प्रविशति तत आत्मनोऽवमं भवेत्, उदरपूरणं न भवेदिति भावः । ततश्वावमाहारतया तस्यैवानागाढा -ऽऽगाढपरितापादयो दोषा ।। अथ क्षपक-क्रोधवतोर्दोषानाह [भा. १५९७] परिताविज्जइ खमओ, अह गिण्हइ अप्पणो इयरहानी । अविदिन्ने कोहिल्लो, रूसि किं वा तुमं देसि ॥ वृ- यदि क्षपको गुरूणां हेतोः प्रायोग्यं गृह्णाति नात्मनस्ततः स एव परिताप्यते, अथात्मनो गृह्णाति तत इतरेषां आचार्याणां हानि-परितापना । यस्तु क्रोधवान् सः 'अवितीर्णे' अदत्ते सति रुष्यति । रुष्टश्चागारिणं भणति-यदि भवान् न ददाति तर्हि मा दातू किं भवदीयं गृहं दृष्ट्वाऽस्माभिः प्रव्रज्या प्रतिपन्ना ? इति किं वा त्वं ददासि येन 'एवमहं ददामि' इति गर्वितो भवसि ? इत्यादिभिर्दुर्वचनैः श्राद्धं विपरिणमयति ।। मानि-मायिनोर्दोषानाहऊणामदिने, थद्धो न य गच्छए पुनो जं च । माई भद्दगभोई, पंतेन व अप्पणो छाए ॥ [भा. १५९८] वृ- यः स्तब्धः सः 'ऊने' तुच्छे दत्ते "अनुट्ठ''त्ति अभ्युत्थाने वा अकृते “अदिन्न” त्ति सर्वथैव वा अदत्ते सति 'पुनः' भूयस्तदीयं गृहं न गच्छति, भणति च श्रावकाणामितरेषां च को विशेषः ? यदि द्वितयेऽपि साधूनामभ्युत्थानादिविनयप्रक्रियामन्तरेण भिक्षां प्रयच्छन्ति ततो नाहममुष्य गृहं भूयः प्रविशामीति । ततः “जंच "त्ति तदृहे प्रवेशं विना प्रायोग्यस्यालाभे यत् किञ्चिदाचार्यादीनां परितापनादिकं भवति तन्निष्पन्नं प्रायश्चित्तम् । यस्तु मायी सः 'भद्रकभोजी' प्रायोग्यमुपाश्रयाद् बहिर्भुक्त्वा प्रान्तमानयतीति भावः, यद्वा 'प्रान्तेन' वल्ल चणकादिना आत्मनो योग्यं स्निग्धमधुरद्रव्यं छादयति, छादयित्वा च गुरूणां दर्शयति ॥ लुब्धस्य दोषानाहओभासइ खीराई, दिजंते वा न वारई लुद्धो । जेऽनेगविसणदोसा, एगस्स वि ते उ लुद्धस्स ॥ [भा. १५९९ ] वृ- यो लुब्धः स स्थापनाकुलेषु क्षीरादीन्यवभाषते । यद्वा श्रद्धातिरेकतस्तैर्दीयमानानि स्निग्धमधुराणि न वारयति । ततश्च येऽडनेकेषु सङ्घाटकेषु स्थापनाकुलं प्रविशत्सु चमढणादयो दोषा वर्णितास्ते सर्वेऽप्येकस्यापि लुब्धस्य प्रविशतो द्रष्टव्याः ।। कुतूहलिनः प्रतिबद्धस्य च दोषानाह[भा. १६०० ] नडमाई पिच्छंतो, ता अच्छइ जाव फिट्टई वेला । सुत्तत्थे पडिबद्धो, ओसक्क - ऽहिसक्क माईया ॥ वृ- यः कुतूहली स नटादीन् प्रेक्षमाणस्तावदास्ते यावद् वेला स्फिटति । यस्तु सूत्रेऽर्थे वा 'प्रतिबद्धः' आसक्तः स गुरूणां धर्मकथादिव्यग्रतया यतैवान्तरं लभते तदैवाप्राप्तकालेऽपि भिक्षार्थमवतरति, वेलातिक्रमं वा कृत्वा कालवेलादाववतरति, ततोऽवष्वष्कणा-ऽभिष्वष्कणादयो दोषाः । यतश्चैवमतः किं कर्त्तव्यम् ? इत्याह [भा. १६०१ ] एयद्दोसविमुक्कं, कडजोगिं नायसील मायारं । गुरुभत्तिमं विनीयं, वेयावच्चं तु कारिज्जा ।। वृ- एभिः अनन्तरोक्तैर्दोषैर्विमुक्तं वर्जितम्, किंविशिष्टम् ? इत्याह- ' कृतयोगिनं' गीतार्थं 'ज्ञातशीला - SSचारं' ज्ञातं सम्यगवतगतं शीलं प्रियध्मतादिरूपमाचारश्च चक्रवालसामाचारीरूपो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy