________________
३९९
उद्देशक : १, मूलं-६, [भा. १५७३] [भा.१५७३] मज्जाया-ठवणाणं, पवत्तगा तत्थ होति आयरिया।
जो उ अमज्जाइल्लो, आवजइ मासियं लहुयं ॥ वृ-मर्यादाच-सामाचारी स्थापनाचदानादिकुलानांतयोः प्रवर्तकास्तत्र क्षेत्रे आचार्या भवन्ति। यश्च साधुः 'अमर्यादावान्' मर्यादामाचार्यै स्थापितांन पालयतिसआपद्यतेमासिकं लघुकम्।। मर्यादामेवाह[भा.१५७४] पडिलेहण संथारग, आयरिए तिनि सेस एक्केक्कं ।
विंटियउक्खेवणया, पविसइ ताहे य धम्मकही। [भा.१५७५] उच्चारे पासवणे, लाउअनिल्लेवणे अअच्छणए।
करणंतु अनुनाए, अननुनाए भवे लहुओ॥ वृ-संस्तारकभूमीनां 'प्रत्युपेक्षणाम्' अवलोकनां कुर्वते । तत्राचार्यस्य तिः संस्तारकभूमयो निरूपणीयाः, तद्यथा-एका निवाताअपरा प्रवाता तृतीया निवातप्रवाता।शेषाणांसाधूनामेकैकां संस्तारकभूमिं यथारनाधिकतया अर्पयन्ति न यथाकथञ्चिदिति । तैश्च तदानीमात्मीयात्मीय विण्टिकानामुत्क्षेपणं कर्तव्यम्, येन तासूक्षिप्तासुभूमिभागः प्रतिनियतपरिमाणच्छेदेनावगम्यते। तदा च धर्मकथी संस्तारकग्रहणार्थं धर्मकथामुपसंहृत्य प्रतिश्रयाभ्यन्तरे प्रविशति । तथा क्षेत्रप्रत्युपेक्षकाः शय्यातरानुज्ञातां भुवं ग्लानाद्यर्थं दर्शयन्ति । तथा-इयति प्रदेश उच्चारपरिष्ठापनमनुज्ञातम्नेत ऊवम्, एवं “पासवणे"त्तिप्रश्रवणभूमिं “लाउए"त्तिअलाबूनितुम्बकानि तेषां कल्पकरणप्रायोग्यं प्रदेशं 'निर्लेपनं' पुतप्रक्षालनं तस्य स्थानं “अच्छणए"त्ति यत्र स्वाध्यायं कुर्वद्भिरास्यते, एतानि तथैव दर्शयन्ति । ततो य एव शय्यातरेणानुज्ञातोऽवकाशस्तत्रैवोच्चारादीनां करणंभगवद्विरादिष्टम्।अननुज्ञाते त्ववकाशे कुर्वतोमासलघु, तध्व्याऽन्यद्रव्यव्यवच्छेदादयश्च दोषाः ।।उक्ता मर्यादा । अथ स्थापनामभिधित्सुः प्रस्तावनामाह[भा.१५७६] भत्तट्ठिया व खमगा, अमंगलं चोयणा जिनाहरणं।
जइ खमगा वंदंता, दाइंतियरे विहिं वोच्छं। वृ-ते हि साधवः क्षेत्रं प्रविशन्तो भक्तार्थिनो वा भवेयुः क्षपका वा । यदि क्षपकाः ततो नोदकस्य 'नोदना' प्रेरा, यथा-प्रथममेवतावदमङ्गलमिदंयदुपवासंप्रत्याख्यायप्रविश्यते।सूरिराह'जिनाहरणं' जिनानामुदाहरणमत्र मन्तव्यम् । ते हि भगवन्तो निष्कमणसमये प्रायश्चतुर्थादि तपः कृत्वा निष्कामन्ति, नचतत्तेषाममङ्गलम्, एवमत्रापि भावनीयम् । ततश्चयदितेक्षपकास्तदा चैत्यानि वन्दमाना एव दर्शयन्ति स्थापनाकुलानि क्षेत्रप्रत्युपेक्षकाः । अथ भक्तार्थिनस्ते ततः "इयरे"तति इतरेषु भक्तार्थिषु यो विधिस्तं वक्ष्ये । तमेवाह[भा.१५७७] सव्वे दटुं उग्गाहिएण ओयरिय भय समुप्पजे ।
तम्हेक्क दोहि तिहि वा, उग्गाहिय चेइएवंदे ॥ वृ-चैत्यवन्दनार्थं गन्तुकामा यदि सर्वेऽपि पात्रकमुद्ग्राहयेयुः ततः सर्वान् साधून उद्राहितेन पात्रकेण दृष्ट्वा 'अहो! औदरिका एते' इति श्रावकश्चिन्तयति । भयं च तस्य समुत्पद्यते, यथाकथमेतावतां मयैकेन दास्यते ? इति। तस्मादेकेन द्वाभ्यां त्रिभिर्वा साधुभिरुद्रगाहितपात्रकैः शेषैः पुनरनुद्राहितपात्रैः सहाः सूरयश्चैत्यानिवन्दन्ति॥अथयोकोऽपिसाधुः पात्रकंनोद्ग्राहयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org