________________
उद्देशक : १, मूलं-६, [भा. १३६८]
३५७
-
इत्याह[भा.१३६९] आनंदअंसुपायं, कुणमाणा ते विभूमिगयसीसा।
खामिति जहरिहं खलु, जहारिं खामिता तेनं ।। कृतेऽपि साधव आनन्दाश्रुपातं कुर्वाणाः भूमिगतशीर्षा' क्षितिनिहितशिरसः सन्तः क्षमयन्ति 'यथार्ह' यो यो रत्नाधिकः स स प्रथममित्यर्थः, तेनाचार्येण 'यथार्ह' यथापर्यायज्येष्ठं क्षामिताः सन्त इति । अथेत्थं क्षामणायां के गुणाः? इत्याह[भा.१३७०] खामिंतस्स गुणा खलु, निस्सल्लय विनय दीवणा मग्गे।
लाधवियं एगत्तं, अप्पडिबंधो अ जिनकप्पे॥ वृ- जिनकल्पे प्रतिपद्यमाने साधून् क्षमयतः खल्वेते गुणाः । तद्यथा-'निशल्यता' मायादिशल्याभावो भवति । विनयश्च प्रयुक्तो भवति ।मार्गस्य दीपना कृता भवति, इत्थमन्यैरपि क्षाममकपुरस्सरं सर्वंकर्तव्यमिति । 'लाघवम्' अपराधभारापगमतोलधुभाव उपजायते। “एकत्वं' 'क्षामितामयाऽमी साधवः, इतऊर्द्धमेक एवास्मि' इत्यनुध्यानं भवति। अप्रतिबन्धश्च' ममत्वस्य च्छिन्नत्वाद् भूयः शिष्येषु प्रतिबन्धो न भवति ॥अथ निजपदस्थापितस्य सूरेरनुशिष्टिमाह[भा.१३७१] अह ते सबाल-वुड्डो, गच्छो साइज नं अपरितंतो।
एसो हुपरंपरतो, तुमं पिअंते कुणसु एवं ॥ वृ-अऐषः 'ते' तव सबाल-वृद्धो गच्छो निसृष्ट इति शेषः, अतः 'अपरितान्तः' अनिर्विनः "णं" एनं गच्छं 'सातयेः' सङ्गोपायेः, स्मारणा-वारणादिना सम्यक् पालयेरित्यर्थः । न च 'परित्यक्तोऽहममीभि' इत्यादि परिभाव्यम्, यत एष एव परम्परकः' शिष्या-ऽऽचार्यक्रमो यद् अव्यवच्छित्तिकारकं शिष्यं निष्पाद्य शक्तौ सत्यामभ्युद्यतविहारः प्रतिपत्तव्यः । त्वमपि 'अन्ते' शिष्यनिष्पादनादिकार्यपर्यवसाने एवमेव कुर्याः ।। [भा.१३७२] पुव्वपवित्तं विनयं, मा हुपमाएहि विनयजोगेसु।
जो जेन पगारेणं, उववज्जइ तं च जाणाहिं। __ वृ-ये च तव बहुश्रुत-पर्यायज्येष्ठादयो विनययोग्याः-गौरवास्तेिषु पूर्वप्रवृत्तं' यथोचितं विनयं ‘मा प्रमादयेः' मा प्रमादेन परिहापयेः । यश्च साधुर्येन तपःस्वाध्याय-वैयावृत्त्यादिना प्रकारेण 'उपयुज्यते' निर्जराप्रत्युपयोगमुपयाति तं च जानीहि' तं तथैव प्रवर्तयेत्यर्थः, ।।
अथ साधूनामनुशिष्टिं प्रयच्छति[भा.१३७३] ओमो समराइणिओ, अप्पतरसुओ अ मा य नं तुब्भे ।
परिभवह तुम्ह एसो, विसेसओ संपयं पुजो ।। वृ- 'अवमोऽयं समरान्तिकोऽयं अल्पतरश्रुतो वाऽयमस्मदपेक्षया, अतः किमर्थमस्य आज्ञानिर्देशं वयं कुर्महे ?' इति मा यूयममुंपरिभवत। यत एष युष्माकंसाम्प्रतमस्मत्स्थानीयत्वाद् गुरुतरगुणाधिकत्वाच्च विशेषतः पूज्यः, न पुनरवज्ञातुमुचित इति भावः॥
इत्थमुभयेषामप्यनुशिष्टिं प्रदाय किं करोति? इत्याह[भा.१३७४] पक्खीव पत्तसहिओ, सभंडगो वच्चए निरवयक्खो।
एगंतं जा तइया, तीए विहारो से नऽन्नासु॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org