________________
बृहत्कल्प-छेदसूत्रम् - १-१/६
भगवद्भिरधीतं यस्मादसौ शिष्यो जिनकल्पिको भविष्यति स च जिनकाले वा भवेत् केवलिकाले वा ? ॥ अतः स आचार्य प्रतिब्रूयात्
[भा. ११७३] अंतरमनंतरे वा, इति उदिए धूलिनायमाहंसु । चिक्खल्लेण य नायं, तम्हा उ वयामि जिनमूलं ॥
वृ- अन्तरं - परम्परकेण मयाऽधीतम् अनन्तरं वा । तत्र यदि स आचार्यो गणधरशिष्यस्तस्याप्याराद्धा ततः ‘परम्परकेणाधीतम्' इत्यभिदध्यात् । अथासौ गणधर एव ततः 'अनन्तरं जिनसकाश एव मयाऽधीतम्' इति ब्रूयात् । 'इति' एवम् ‘उदिते' आचार्येणाऽभिहिते स शिष्यो धूलिज्ञातं चिक्खल्लज्ञातं चाख्यातवान्-यथा धूलिरेकत्र स्थापयित्वा तत उद्धृ त्यान्यत्र यत्रास्तीर्यते तत्रावश्यं किञ्चित् परिशटति, ततोऽप्यन्यत्र प्रस्तीर्यमाणा भूयस्तरा परिशटति; यथा वा प्रासादे लिप्यमाने मनुष्यपरम्परया चिक्खल्लः प्रत्यर्प्यमाणो बहुपरिशटितः स्तोकमात्रावशेष एव सर्वान्तिममनुष्यस्य हस्तं प्राप्नोति; एवमेतावपि सूत्रार्थी परम्परया गृह्यमाणी परिशटत-, तस्मात्तु 'जिनमूलं' तीर्थकरोपकण्ठमेव व्रजामि, तत्राविनष्टमेव सूत्रं भविष्यतीति ।। कैः पुनस्तत् परिशटति ? इत्याह
३१२
[भा. ११७४] पय-पाय-मक्खरेहिं, मत्ता - घोसेहिं वा वि परिहीनं । अवि य रवि-राय- हत्थी, पगास सेवा पया चेव ॥
वृ- पदैः पादैरक्षरैमत्रिया घोषैर्वा अपिशब्दाद् बिन्दुना वा परिहीणं भवति परम्परया अधीयमानं श्रुतमिति प्रक्रमः । 'अपिच' इत्यभ्युच्चये, भगवतः समीपे अधीयमानानां कारणान्तरमप्यस्तीति भावः । किं याद्दशो रवेः- आदित्यस्य प्रकाशः ईदृशः किं स्वद्योतादीनां सम्भवी ? याशं वा राज्ञः सेवा विधीयमाना फलमुपढौकयति ईदृशं किममात्यादीनां सेवा सम्पादयति ? याध्शानि वा महान्ति हस्तिनः पदानि ईध्शानि किं कुन्थूनां सम्भवन्ति ? एवं याद्दशानि महार्थानि भगवतस्तीर्थकृतो वचनानि ईशान्यपरेषां किं कदाचिद् भवन्ति ? इत्यतस्तीर्थकरोपकण्ठमेव व्रजामि ॥ इत्थं शिष्येणोक्ते सूरिराह
[ भा. ११७५ ] कोट्ठाइबुद्धिणो अस्थि संपयं एरिसाणि मा जंप । अवि य तहिं वाउलणा, विरयाण वि कोगाईहिं ॥
वृ- यथा कोष्ठके धान्यं प्रक्षिप्तं तदवस्थमेव चिरमप्यवतिष्ठते न किमपि कालान्तरेऽपि गलति, एवं येषु सूत्रा ऽर्थी निक्षिप्तौ दवस्थावेव चिरमप्यवतिष्ठेते ते कोष्ठबुद्धयः । आदिशब्दात् पदानुसारिबुद्धयो बीजबुद्धयश्च गृह्यन्ते । तत्र ये गुरुमुखादेकसूत्रपदमनुसृत्य शेषमश्रुतमपि भूयस्तरं पदनिकुरम्बमवगाहन्ते ते पदानुसारिबुद्धयः, ये त्वेकं बीजभूतमर्थपदमनुसृत्य शेषमवितथमेव प्रभूततरमर्थपदनिवहमवगाहन्ते ते बीजबुद्धयः, एवंविधाः कोष्ठादिबुद्धयः साम्प्रतमपि सन्ति येषु सूत्रार्थौ न परिशटत इति भावः । तद् ईध्शानि धूलिज्ञातादीनि 'मा जल्प' मा ब्रूहि । अपिच ‘तत्र' भगवतः समीपे अधीयमानानां 'विरतानामपि' साधूनामपि कौतुकादिभिः 'व्याकुलना' व्याकुलीकरणं भवति, सकलस्यापि लोकस्यकौतुकहेतुत्वात् । कौतुकं समवसरणम्, आदिग्रहणेन भगवतो धर्मदेशनाश्रवणादिपरिग्रहः ॥ अथ किमिदं समवसरणम् ? इति तद्वक्तव्यतां प्रतिपिपादयिषुर्द्वारगाथामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org