________________
३१०
बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-अनधीतश्रुतःसन्आत्मनोहितम्-इह-परलोकपथ्यमजानन्मुह्यति, हितेऽप्यहितबुद्धिम् अहितेऽपि हितबुद्धिं करोतीति भावः । मूढश्च 'कर्म' ज्ञानावरणीयादिकं निबिडतरं समादत्ते। तेन च कर्मणा जन्तुः ‘पर्येति' परिभ्रमत भवसागरमनन्तम् ॥
अथात्महिते परिज्ञाते को गुणः? इत्याह[भा.११६४]आयहियं जाणंतो, अहियनिवित्तीए हियपवित्तीए।
हवइ जतो सो तम्हा, आयहियं आगमेयव्॥ वृ- आत्महितं जानानः अहिताद्-आत्म-संयम-प्रवचनोपघातकाद् निवृत्तौ हितेसंयमाद्युपकारिणि प्रवृत्तौ यतः प्रयत्नवानसौ भवति, तस्माद् आत्महितम् ‘आगमयितव्यम्' आगमनंआगमः-परिज्ञानंतद्गोचरमानेतव्यमिति ।।गतमात्महितद्वारम्।अथ परिज्ञाद्वारमाह[भा.११६५] सज्झायं जाणंतो, पंचिंदियसंवुडो तिगुत्तोय।
होइय एक्कग्गमणो, विनएण समाहिओ साहू ॥ वृ-'स्वाध्यायं श्रुतं जानानः साधुः पञ्चस्विन्द्रियेषु इष्टा-ऽनिष्टविषयराग-द्वेषपरिहारेण संवृतः पञ्चेन्द्रियसंवृतः, त्रिषु-मनोवाक्काययोगेषु गुप्तस्त्रिगुप्तः, भवति च “एकाग्रमनाः' शुभध्यानैकमानसः 'विनयेन' गुर्वादिषु शिरोनमना-ऽअलिबन्धादिलक्षणेन ‘समाहितः' सम्यगुपयुक्तइति ।अत्रच “सज्झायंजाणंतो" इत्यनेन ज्ञपरिज्ञा “पंचिंदियसंवुडो" इत्यादिना तु प्रत्याख्यानपरिज्ञाऽभिहितेति द्रष्टव्यम् ॥गतंपरिज्ञाद्वारम् । अथ भावसंवरमाह[भा.११६६] नाणेण स्वभावा, नज्जंते जे जहिं जिनक्खाया।
नाणी चरित्तगुत्तो, भावेण उ संवरो होइ॥ वृ-ज्ञाने सर्वेऽपि-अशेषा हिता-हितरूपा भावा ज्ञायन्तेये यत्रोपयोगिनो जिनैराख्याताः। अत एव ज्ञानी चारित्रगुप्तः “भावेन' तत्त्ववृत्या संवरो भवति । गुण-गुणिनोरभेदविवक्षणादेवं निर्देशः ।।अ“नवनवो य संवेगो" इति व्याख्यानयन्नाह[भा.११६७]जह जह सुयभोगाहइ, अइसयरसपसरसंजुयमपुव्वं ।
तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाओ। वृ-यथायथा 'श्रुतम्' आगममपूर्वमवगाहते, कथम्भूतम् ? ‘अतिशयरसप्रसरसंयुतम्' अतिशयाः-अर्थविशेषास्तेषु यो रसः-श्रोतृणाक्षेपकारी गुणविशेषस्तस्य यः प्रसरःअतिरेकस्तेन संयुतं-युक्तम् । यद्वा श्रवणं श्रुतम्, तत् कथम्भूतम्? अतिशयस्य-अर्थस्य रसः-आस्वादनं तत्र यः प्रसरः-गमनं तेन संयुतम् । अपूर्वं यथा यथाऽवगाहते तथा तथा मुनि ‘प्रह्लादते' शुभभावसुखासिकया मोदते । कथम्भूतः? इत्याह-नवनवः-अपूर्वापूर्वोयःसंवेगः-वैराग्यंतद्गर्भा श्रद्धा-मुक्तिमार्गाभिलाषलक्षणा यस्य स नवनसंवेगश्रद्धाक इति॥
गतं नवनवसंवेगद्वारम् । अथ निष्कम्पताद्वारमाह[भा.११६८] नाणाणत्तीए पुणो, दंसणतवनियमसंजमे ठिचा ।
विहरइ विसुज्झमाणो, जावजीवं पि निक्कंपो॥ वृ-ज्ञानस्य याआज्ञप्ति-आदेशः “जाएसद्धाएनिक्खंतो तमेवमणुपालए" इत्यादिकस्तया दर्शनप्रधाने तपोनियमरूपे संयमे स्थित्वा कर्ममलेन विशुध्यमानः सन्यावज्जीवमपि 'निष्कम्पः'
For Private & Personal use only
Jain Education International
www.jainelibrary.org