________________
उद्देशक : १, मूलं -६, [भा. ११५९]
भयं ते नत्थि मंमूला, दीहपट्ठाओ ते भयं ॥
जाति- एस अमचो ममं चेव मारेउकामो, कओ ममं पिता राता होउं संते भोए परिच्चइत्ता पुनो ते चेव पत्थेति ?, एस अमच्चो मं मारेउकामो एवं जत्तं करेइ । ताहे राया अमञ्चस्स सीसं छेत्तुं साहुस्स उवगंतुं सव्वं कहेइ खामेइ य ।। अथ श्लोकत्रयस्याक्षरार्थ-आ- ईषद् आभिमुख्येन वाधावसि आधावसि, प्रकर्षेण पृष्ठतो वा धावसि प्रधावसि, मामपि न निरीक्षसे, लक्षितस्ते मया 'भावः' अभिप्रायो यथा 'यवं' यवधान्यं चरितुं प्रार्थयसि भो गईभ ! । द्वितीयपक्षे यवनामानं राजानं मारयितुं भो गर्दभनृपते ! प्रार्थयसीति प्रथम श्लोकः ॥
३०९
तो गता इतो गता, मृग्यमाणा न दृश्यते, अहमेतद् विजानामि 'अगडे' भूमिगृहे गर्त्तायां वा क्षिप्ता 'अडोलिका' उन्दोयिका नृपतिदुहिता वा । द्वितीयश्लोकः ॥
मूषकस्य राज्ञश्च शरीरसौकुमार्यभावात् सुकुमारक ! इत्यामन्त्रणम्, “भद्दलग” त्ति भद्राकृते !, रात्रौ हिण्डनशील ! मूषकस्य दिवा मानुषावलोकनचकिततया राज्ञस्तु वीरचर्यया रात्री पर्यटनशीलत्वात्, भयं ‘ते’ तव नास्ति 'मन्मूलात्' मन्निमित्तात् किन्तु 'दीर्घपृष्ठात्' एकत्र सर्पात् अपरत्र तु अमात्यात् 'ते' तव भयमिति तृतीयश्लोकः ॥ ततः स राजर्षिश्चिन्तयतिसिक्खियव्वं मनूसेणं, अवि जारिसतारिसं । पेच्छ मुद्धसिलोगेहिं जीवियं परिरक्खियं ॥
[ भा. ११६०]
वृ- शिक्षितव्यं मनुष्येण अपि याद्दशताद्दशम्, पश्य मुग्धैरपि श्लोकैर्जीवितं परिरक्षितम्।।
तथा
[भा.११६१]पुव्वविराहियसचिवे, सामच्छण रत्ति आगमो गुणणा ।
नाओ मि सचिवघायण, खामण गमणं गुरुसगासे ॥
वृ- पूर्वं विराधितो यः सचिवस्तस्य राज्ञा सह 'सामच्छणं' पर्यालोचनम् । ततस्तयो रात्रौ तत्रागमः । तस्य च राजर्षेस्तदानीं पूर्वपठितश्लोकत्रयस्य गुणना । ततः 'ज्ञानोऽस्म्यहम्, नूनमतिशयज्ञानी मदीयः पिता, कुतो वा एष महात्मा पटप्रान्तलग्नतृणवद् लीलयैव राज्यं परित्यज्य भूयस्तदङ्गीकारं कुरुते ? तदेष सर्वोऽप्यस्यैवाऽमात्यस्य कूटरचनाप्रपञ्चः' इति परिभाव्य सचिवघातनं कृत्वा स्वपितुः क्षामणं कृतवान् । ततस्तस्य राजर्षे 'अहो ! ते भगवन्तो मामनेकशो भणन्ति स्म - आर्य! अधीष्वाधीष्व सूत्रम्, परमहमात्मवैरिकतया नापाठिषम्, यदि नाम ईशानामपि मुग्धश्लोकानां पठितानामीदृशं फलमाविरभूत् किं पुनः सर्वज्ञोपज्ञश्रुतस्य भविष्यति ?' इति विचिन्त्य गुरुसकाशे गमनम् । ततो मिथ्यादुष्कृतं दत्त्वा सम्यक् पठितुं लग्न इति ।। किञ्च श्रुताध्ययनेऽभी अभ्यधिका गुणाः
[भा. ११६२] आयहिय परिण्णा भावसंवरो नवनवो अ संवेगो ।
निक्कं पया तवो निजरा य परदेसियत्तं च ।।
वृ- आत्महितं १ परिज्ञा २ भावसंवरः ३ नवनवश्च संवेगः ४ निष्कम्पता ५ तपः ६ निर्जरा च परदेशिकत्वं च ८ इति द्वारगाथासमासार्थ ॥ अथ विस्तरार्थमाह
[भा. ११६३] आयहियमजाणतो, मुज्झति मूढो समादिअति कम्मं । कम्मेण तेन जंतू, परीति भवसागरमनंतं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org