________________
उद्देशक : १, मूलं-२, [भा. १०१६]
२७३ पुनः' अपरिणतःकर्णीस्थगितवान् ‘नश्रणुमः एनांवार्तामपि' इति कृत्वामृतः। तृतीयोऽप्यपरिणतत्वात् चिन्तयति-'एतद् एतस्यामप्यवस्थायामकृत्यम्,परं किं क्रियते? दुःखं मत्तुम्' इति तत्' शुनकभक्षणं कर्तु समारब्धः । चतुर्थस्त्वतिपरिणामकः किमियतः कालात् 'शिष्टं' कथितम् ? इत्युक्त्वा ‘अधिकं करोति' गो-गर्दभादिमांसान्यपि भक्षयतीति। शाखापारगेणचतेभाणिताःअटव्या उत्तीर्णा प्रायश्चित्तं बहध्वम् । तत्र यः प्रथमः परिणामकः स यथालघुकप्रायश्चित्तेन शुद्धः। द्वितीयस्तुमृत एव । तृतीयो निर्घाटितश्चातुर्विद्यैः, पङ्केहिकृत इत्यर्थः । चतुर्थश्चातिप्रसङ्गात् 'नास्ति किञ्चिदभक्ष्यमपेयं च' इति श्वपाकरूपश्चण्डालो जात इति ॥अथोपनययोजनामाह[भा.१०१७]जह पारगो तह गणी, जह मरुगा एव गच्छवासीओ।
सुणगसरिसा पलंबा, पलंबा, मडतोयसमंदगमफासुं॥ वृ-यथाशाखापारगस्तथा 'गणी' आचार्यः। यथा चत्वारोमरुकाः एवम्' अमुनाप्रकारेण 'गच्छवासिनः' साधवः । शुकनसहशानि अत्र प्रलम्बानि, विकृष्टाध्वादिकारणं विना साधूनामभक्षणीयत्वात् । ‘मृतकडेवराकुलोदकतुल्यमप्राशुकोदकं ज्ञातव्यम्, अपेयत्वात् ॥
अथ यदुक्तं “एवमिहं अद्धाणे, गेलने तहेव ओमन्नि।" तत्राध्वद्वारं विवृणोति[भा.१०१८] उद्दद्दरे सुभिक्खे, अद्धाणपवञ्जणं तु दप्पेण ।
लहुगा पुन सुद्धपदे, जंवा आवज्जती तत्थ ॥ वृ-ऊर्ध्वंदराः पूर्यन्ते यत्र काले तद्वं दरम्, प्राकृतशैल्याउद्दद्दरम्।तेचदरा द्विविधाःधान्यदरा उददरदराश्च । धान्यानामाधारभूता दरा धान्यदराः कट-पल्यादयः, उदराण्येव दरा उदरदराः; ते उभयेऽपि यत्र पूर्यन्ते तद् ऊर्द्धदरम् । तथा सुभिक्षं-भिक्षाचरैः सुलभभिक्षम् । अत्र चतुर्भङ्गी-ऊर्ध्वदरंसुभिक्षंच १ ऊर्ध्वदरंन सुभिक्षं २ सुभिक्षं नोर्ध्वदरं ३ नोवंदरं नसुभिक्षम् ।। तत्रप्रथमभङ्गे तृतीयभङ्गे वायद्यध्वानं दर्पण प्रतिपद्यते तदा यद्यपि न मूलोत्तरगुणविराधनादिकं किमप्यापद्यते तदाऽपिशुद्धपदे चत्वारो लघुकाः प्रायश्चित्तम्, कस्मात् ? दर्पणाध्वानं प्रतिपद्यते इति हेतोः । यद् वा' आत्मविराधनादिकं यत्रापद्यते तत्र तन्निष्पन्नं प्रायश्चित्तम् । अर्थादापन्नम्शेषभङ्गद्वये दुर्भिक्षत्वादध्वगमनं प्रतिपत्तव्यमिति । प्रथम-तृतीययोरपि भङ्गयोः कारणतो भवेदध्वगमनम् ॥आह किं तत् कारणम् ? उच्यते[भा.१०१९] असिवे ओमोयरिए, रायडुढे भए व आगाढे ।
गेलन्न उत्तिमढे, नाणे तहदसण चरित्ते॥ वृ-विवक्षितदेशे आगाढमशिवमवमौदर्यं राजद्विष्टं भयं वा प्रत्यनीकादिसमुत्थम्, आगाढशब्दः प्रत्येकमभिसम्बध्यते, तथा तत्र वसतां ग्लानत्वं भूयोभूय उत्पद्यते, यद्वा देशान्तरे ग्लानत्वं कस्यापि समुत्पन्नं तस्य प्रतिजागरणं कर्त्तव्यम्, उत्तमार्थं वा कोऽपि प्रतिपन्नस्तसय निर्यापन कार्यम् । तथा विवक्षिते देशे ज्ञानं वा दर्शनं वा चारित्रं वा नोत्सर्पति॥ [भा.१०२०] एएहि कारणेहिं, आगाढेहिं तु गम्ममाणेहिं ।
उवगरणपुव्वपडिलेहिएण सत्येण गंतव्वं ।। वृ- ‘एतैः' अनन्तरोक्तैः कारणैरागाद्वैरुत्पन्नैः सद्भिर्गम्यते । गच्छद्भिश्चाध्वप्रायोग्य[18|18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org