SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५८ बृहत्कल्प-छेदसूत्रम् - १-१/१ द्वयमपि 'एकैकस्य' आत्मनः परस्य च परस्परोपकारेण यथा भवति तथा गीतार्थः समाचरति । यच्च गीतार्थोऽरक्त-द्विष्टः प्रतिसेवते तत्र नियमादप्रायश्चित्ती भवति ॥ आह केन पुनः कारणेनाप्रायश्चित्ती ? उच्यते [भा. ९५८] खेत्तोयं कालोयं, करणमिणं साहओ उवाओऽयं । कत्त त्तिय जोगि त्तिय, इय कडजोगी वियाणाहि ॥ वृ-यो न रागे न द्वेषे किन्तु तुला-दण्डवद् द्वयोरप मध्ये प्रवर्त्तते स ओजा भण्यते । क्षेत्रेअध्वादी ओजाः क्षेत्रौजाः, काले- अवमौदर्यादौ ओजाः कालौजाः, क्षेत्रे काले च प्रतिसेवमानो न राग-द्वेषाभ्यां दूष्यते इत्यर्थः । कथम् ? इत्याह-यतः स गीतार्थ 'करणमिदं' 'सम्यक्कियेयम्, एवं क्रियमाणे महती कर्मनिर्जरा भवति' इति विमृशति । तथा ज्ञान-दर्शन- चारित्राणि साधनीयानि, तेषां च साधकोऽयमुपायः, यद् असंस्तरणे यतनया प्रलम्बसेवनम् । तथा 'कृतयोगी' गीतार्थ स कर्त्तेति च योगीति च भण्यते, "इय" एवं विजानीहि इति नियुक्तिगाथासमासार्थ ॥ अथैनामेव विवृणोति [भा. ९५९] ओयभूतो खित्ते, काले भावे य जं समायरइ । कत्ता उ सो अकोप्पो, जोगीव जहा महावे जो ॥ वृ- यः 'ओजोभूतः' राग-द्वेषविरहितो गीतार्थ 'क्षेत्रे' अध्वादी 'काले' दुर्भिक्षादी 'भावे च' ग्लानत्वादौ प्रलम्बादिप्रतिसेवारूपं यत् किमपि समाचरति सः 'सम्यक्कियेयम्, साधकोऽयमुपायः' इत्यालोच्यकारी कर्त्ता 'अकोप्यः' अकोपनीयः, अदूषणीय इत्युक्तं भवति । क इव ? इत्याह- 'योगीव यथा महावैद्यः' इति, 'यथा' इति ध्ष्टान्तोपन्यासे, 'योगी' धन्वन्तरि, तेन च विभङ्गज्ञानबलेनाऽऽगामिनि काले प्राचुर्येण रोगसम्भवं दृष्ट्वा अष्टाङ्गायुर्वेदरूपं वैद्यकशास्त्र चक्रे, तच्च यथाम्नायं येनाधीतं स महावैद्य उच्यते । स च आयुर्वेदप्रामाण्येन क्रियां कुर्वाणो 'योगीव' वन्तन्तरिरिव न दूषणभाग् भवति, यथोक्तक्रियाकारिणश्च तस्य तत् चिकित्साकर्म सिध्यतिः एवमत्रापि योगी तीर्थकरः, तदुपदेशानुसारेणोत्सर्गा ऽपवादाभ्यां यथोक्तां क्रियां कुर्वन् गीतार्थोऽपि न वाच्यतामर्हति ॥ अथ “कत्त त्ति य जोगि त्ति य" पदद्वयमेव प्रकारान्तरेण व्याख्याति [भा. ९६०] अहवण कत्ता सत्था, न तेण कोविज्जती कयं किंचि । कत्ता इव सो कत्ता, एवं जोगी वि नायव्वो । वृ- " अहवण'' त्ति अखण्डमव्ययं अथवार्थे वर्त्तते । कर्त्ता 'शास्ता' तीर्थकर उच्यते । यथा 'तेन' तीर्थकरेण कृतं कार्यं किञ्चिदपि नकोप्यते एवमसावपि गीतार्थो विधिना क्रियां कुर्वन् 'कर्त्ता इव' तीर्थकर इवाकोपनीयत्वात् कर्त्ता द्रष्टव्य । एवं योग्यपि ज्ञातव्यः । किमुक्तं भवति ? - यथा तीर्थकरः प्रशस्तमनोवाक्काययोगं प्रयुञ्जानो योगी भण्यते, एवं गीतार्थोऽप्युत्सर्गाऽपवादबलवेत्ता अपवादक्रियां कुर्वाणोऽपि प्रशस्तमनोवाक्ययोगं प्रयुञ्जानो योगीव ज्ञातव्यः ॥ एवमाचार्येणोक्ते शिष्यः प्राह [ भा. ९६१] किं गीयत्थो केवलि, चउव्विहे जानने य गहणे य । तुले राग-द्दोसे, अनंतकायस्स वज्रणया ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy