________________
उद्देशक : १, मूलं-१, [भा. ९५४]
२५७
वृ-गीतार्थः कारण एव प्रतिसेवते नाकारणे । आह किमिदं कारणम् ? किंवा अकारणम् ? इत्याह- 'ज्ञानादित्रयस्य' ज्ञान-दर्शन- चारित्ररूपस्याऽर्थाय यत प्रतिसेवते तत् कारणम्, 'तद्वर्जं' ज्ञानादित्रयवर्जं सेवमानस्य निष्कारणमुच्यते। तथा गीतार्थो याध्शमागाढे प्रतिसेव्यं ताध्शमागाढ एव याध्शं पुनरनागाढे ताद्दशमनागाढ एव प्रतिसेवते । अथ किमिमागाढम् ? किंवा अनागाढम् ? उच्यते-अहिना-सर्पेण दष्टः कश्चित् साधुः, विषं वा केनचिद् भक्तादिमिश्रितं दत्तम्, विसूचिका वाकस्यापि जाता, सद्य-क्षयकारि वा कस्यापि सूलमुत्पन्नम्, एवमादिकमाशुधाति सर्वमप्यागाढम्ः एतद्विपरीतं तु चिरघाति कुष्ठादिरोगात्मकमनागाढम् ।। अथ वस्तु-युक्तद्वारे व्याचष्टे
[भा. ९५५ ] आयरियाई वत्युं, तेसिं चिय जुत्त होइ जं जोग्गं । गीय परिणामगा वा, वत्युं इयरे पुन अवत्युं ॥
वृ- आचार्यादि प्रधानपुरुषो यद्वा गीतार्थ सामान्यतो वस्तु भण्यते, परिणामका वा साधवो वस्तु । एताशमात्मानं परं वा वस्तुभूतं ज्ञात्वा प्रतिसेवते प्रतिसेवाप्यते वा । 'इतरे' प्रतिपक्षभूताः पुनरनाचार्यादिरगीतार्थो वा अपरिणामका ऽतिपरिणामका वा सर्वेऽप्यवस्तु भण्यन्ते । एतेषामेवाचार्यादीनां यद् योग्यं भक्त - पानौषधादिकं तद् युक्तम्, तद्विपरीतं पुनरयुक्तम् । एतद् युक्तायुक्तस्वरूपं गीतार्थ एव जानाति नेतर इति ।।
अथ सशक्तिक- यतनाद्वारद्वयमाह
[भा. ९५६ ] धिइ सारीरा सत्ती, आय- परगता उ तं न हावेति । जयणा खलु तिपरिरया, अलंभे पच्छा पनगहानी ॥
वृ- शक्तिद्वेधा, धृति - संहननभेदात् । तत्र धृतिरूपां शारीरां च संहननरूपामात्मगतां परगतां च शक्ति ज्ञात्वा आचार्योऽन्यो वा गीतार्थस्तां न हापयतीत्यत्र चतुर्भङ्गी सूचिता सा चेयम् - आत्मगता शक्तिर्विद्यते न परगता १ परगता नात्मगता २ आत्मगताऽपि परगताऽपि ३ नात्मगता न परगता ४ । तत्रप्रथमभङ्गे आचार्य आत्मनः शक्ति न हापयति, परस्य पुनरशक्तत्वाद् यथायोगं प्रतिसेवनामनुजानीते । द्वितीयभङ्गे अशक्तत्वादात्मना प्रतिसेवते, परस्य तु समर्थत्वाद् नानुजानाति । तृतीयभङ्गे उभयोरपि शक्तिसद्भावादात्मनाऽपि न प्रतिसेवते परस्यापि न वितरति । चतुर्थभङ्गे पुनरुभयोरप्यशक्तत्वादात्मनाऽपि प्रतिसेवते परेणापि प्रतिसेवापयति । तथा यतना खलु त्रिपरिरया द्रष्टव्या, “रींश् गतौ" परि-समन्ताद् रयणं परिरयः- परिभ्रमणमित्यर्थः, त्रयः परिरया यस्यां सा त्रिपरिरया । किमुक्तं भवति ? - एषणीयाहारान्वेषणार्थं स्वग्रामादौ तिस्रो वाराः सर्वतः पर्यट्य यद्येषणीयं न लभते ततः पश्चाद् 'अलाभे' अप्राप्तौ पञ्चकपरिहाण्या यतते ।। अथ फलद्वारम् - गीतार्थ प्रथममेव कार्यं प्रारभमाणः परिभावयति - एवमनुतिष्ठतो ममान्यस्य वा फलं भविष्यति ? न वा ? । तच्च फलं द्विविधम् । तदेवाह
[भा. ९५७] इह-परलोगे य फलं, इह आहाराइ इक्क मेक्कस्स । सिद्धी सग्ग सुकुलता, फलं तु परलोइयं एयं ॥
वृ- इहलोकफलं परलोकफलं चेति फलं द्विधा । तत्रेहलोकफलमाहारादि; आदिशब्दाद् वस्त्रपात्रादि । तथा सिद्धिगमनं स्वर्गगमनं सुकुलोत्पत्तिश्च एतत् पारलौकिकं फलम् । 'एतद्’
18 17
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org