________________
२४१
उद्देशक ः १, मूलं-१, [भा. ८८७] एवमेव दातव्या इति भावः ।। [भा.८८८] पासंडिणिस्थिपंडे, इत्थीवेसेसु दिवसतो छेदो।
तेहिं चिय निसि मूलं, दिय-रत्ति दुगंतु समणीहिं ।। वृ-तापसी-परिव्राजिकादिभिः पाषण्डिनीभिः “इत्यि"त्तिगृहस्थस्त्रीभिः स्त्रीवेषधारिभिश्च पण्डकैरशौचवादिभिः सह दिवसतो गच्छतो लघुकश्छेदः शौचवादिभि सह गुरुकश्छेदः । तैरेव सह 'निशि' रात्रौ गच्छतो गच्छतो लघुकश्छेदः शौचवादिभिसह गुरुकश्छेदः । तैरेव सह 'निशि' रात्रौ गच्छतो मूलम् । श्रमणीभिः समं दिवा गच्छतोऽनवस्थाप्यम् । रात्रौ श्रमणीभिः सह गच्छति पाराञ्चिकम् ।। प्रकारान्तरेणात्रैव प्रायश्चित्तमाह[भा.८८९] अहवा समणा-ऽसंजय-अस्संजइ-संजईहि दियराओ।
चत्तारि छच्च लहु गुरु, छेओ मूलं तह दगंच॥ वृ-'अथवा' इति प्रकारान्तरद्योतने । श्रमणाः' संयतास्तैः सार्धं दिवा गच्छति चतुर्लघु, रात्रौ गच्छति चतुर्गुरु । असंयतैः । सार्द्ध दिवा गच्छतिषड्लघु, रात्रौ गच्छतिषड्गुरु।असंयतीभिः समं दिवा व्रजति च्छेदः, रात्रौ गच्छति मूलम् । संयतीभि सह दिवसतो गच्छति अनवस्थाप्यम्, रात्रौ गच्छति पाराञ्चिकम् ॥तदेवमुक्तमटवीविषयं ग्रहणम् । तदुक्तौ चावसितमन्यत्रग्रहणम्। अथ तत्रग्रहणं बिभावयिषुरुक्तार्थसशं विधिमतिदिशन्नाह[भा.८९०] जह चेव अन्नगहणेऽरन्नो गमणाइ वन्नियं एयं ।
तत्थगहणे वि एवं, पडियंजं होइ अचित्तं॥ वृ- यथैवान्यत्रग्रहणेऽरण्यविषयं षोडशभङ्गरचनया गमनम् आदिशब्दात् संयमाऽऽत्मविराधनासमुत्थं दोषजालं प्रायश्चित्तं च ‘एतद्' अनन्तरमेव वर्णितं तत्रग्रहणेऽपि' विवक्षितप्रलम्बाधारभूतवृक्षस्याधःपतितंयदचित्तंप्रलम्बंतद् गृह्णानस्याप्येवमेवनिरवशेषवर्णनीयं यावत् श्रमणीभिः सह गमनमिति ॥ यस्तु विशेषस्तमुपदिदर्शयिषुराह[भा.८९१] तत्थग्गहणं दुविहं, परिग्गहमपरिग्गहं दुविहभेयं ।
दिट्ठादपरिग्गहिए, परिगहिए अनुग्गह कोइ॥ वृ-तत्रग्रहणं द्विविधम्, तद्यथा-सपरिग्रहमपरिग्रहं च । यद्देवतादिभिपरिगृहीतं वृक्षादि तद्विषयं सपरिग्रहम्, तद्विपरीतमपरिग्रहम् । तदुभयमपि "द्विविधभेदं' द्विविधेन-सचित्ताऽचित्तभेदद्वयेन भेदः-पार्थक्यं यस्य तद् द्विविधभेदम्, सचित्ता-ऽचित्तभेदभिन्नमिति भावः । तत्र यदपरिगृहीतमचित्तंतद् गृह्णानस्य “दिट्ठाइ"त्ति “दिढे संका भोइय" इत्यादिका आरोपणा सर्वाऽपि प्राग्वद् द्रष्टव्या । यत् पुनः परिगृहीतमचित्तं तद् गृह्णतः कश्चिद् भद्रकः परिग्रहीता अनुग्रहं मन्येत । एतदग्रतो भावयिष्यते ॥अथ सपरिग्रहस्यैव स्वरूपं निरूपयति[भा.८९२] तिविह परिग्गह दिव्वे, चउलहु चउगुरुग छल्लहुक्कोसे।
अहवा छल्लहुग चिय, अंत गुरू तिविह दिव्वम्मि । वृ-सपरिग्रहं त्रिविधम्, तद्यथा-देवपरिगृहीतं मनुष्यपरिगृहीतं तिर्यक्परिगृहीतं च । तत्र यद् दिव्यं - देवपरिगृहहीतं तद् त्रिविधम्-जघन्यं मध्यममुत्कृष्टं च । व्यन्तर परिगृहीतं जघन्यम्, [1816
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org