________________
उद्देशक : १, मूलं-१, [भा. ८६५]
२३५ मासलघु।अथसंयतं प्रलम्बंगृह्णन्तं दृष्ट्वा कल्पस्कस्यार्थ-प्रयोजनंतस्योत्पत्ति- अहमपिगृह्णामि' इत्येवंलक्षणा भवति ततश्चतुर्लघवः । अथ न कगल्पस्थेन किन्तु महता पुरुषेण प्रलम्बं गृह्णानो दृष्टस्तदा “ते चेव" त् त एव चत्वारो लघवः । अथ तस्याप्यर्थोत्पत्ति-'अहमपि गृह्णामि' इति लक्षणा जायते ततोऽपि चत्वारो लघवः । अत्र च ये दृष्टादयः परिवर्द्धमाना दोषा अन्यत्रग्रहणे भवन्ति ताननन्तरगाथया वक्ष्यमाणान् शृणुत ।। तानेवाह[भा.८६६] दिढे संका भोइय-निआ-ऽऽरक्खि-सेट्टिराईणं ।
चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुगंच ।। वृ-युवादिना महता पुरुषेण प्रलम्बानि गृह्णन् दृष्टः चतुर्लघु । ततस्तस्य शङ्का जायते 'किं सुवर्णादिकं गृहीतम् ? उत प्रलम्बम् ?' तदाऽपि चतुर्लघु । निशङ्किते चत्वारो गुरवः । अथासौ "भोइय"त्तिभोजयतिभरिमिति भोजिका-भार्यातस्याः कथयति-प्रिये! मयासंयतः फलानि गृह्णानो दृष्टः' इत्युक्ते यदि तया प्रतिहतः “मैवं वादीः, न सम्भवत्येवेशं महात्मनि साधौ' इति ततश्चतुर्गुरुकमेव । अथ तया न प्रतिहस्तस्ततः षड् लघवः । आसन्नतरः सम्बन्ध इति कृत्वा प्रथमं भोजिकायाअग्रेकथयतीति, एवं मित्रादिष्वपिमन्तव्यम् । ततः “घाडि"त्ति घाटः सङ्घाटः सौहृदमित्येकोऽर्थ, सविद्यतेऽस्येति घाटी' सहजातकादिवयस्य इत्यर्थः, तस्याओतथैवकथयति, तेनापि यदि प्रतिहतस्तदा षड् लघव एव । अथ न प्रतिहतस्ततः षड्गुरवः । ततो निजाः-मातापित्रादयस्तेषां कथयति, तैः प्रतिहतः षड् गुरव एव । अप्रतिहते पुनश्छेदः । तत आरक्षिकेण आरक्षिकपुरुषैर्वा तस्य सकाशादन्यतो वा प्रलम्बग्रहणवृत्तान्ते श्रुते ततः प्रतिहते छेद एव । अप्रतिहते पुनर्मूलम् । ततः श्रेष्ठिनः श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गस्य ततोऽन्यतो वा वृत्तान्तश्रवणेतेन च प्रतिहतेऽनवस्थाप्यम्।अप्रतिहते पाराञ्चिकम् ।पश्चाः यथाक्रमममषीमेव प्रायश्चित्तान्यभिहितानि, तानि च भावितान्येव । नवरं "दुर्ग" ति अनवस्थाप्यपाराञ्चिकद्वयम्।। [भा.८६७] एवं ता अदुगुछिए, दुगुंछिए लसुणमाइ एमेव ।
नवरिं पुण चउलहुगा, परिग्गहे गिण्हणादीया॥ वृ-एवं तावद् ‘अजुगुप्सिते' आम्रादौ प्रलम्बे गृह्यमाणे प्रायश्चित्तं द्रष्टव्यम् । जुगुप्सिते पुनरिदं नानात्वम् । जुगुप्सितं द्विधा-जातिजुगुप्सितं स्थानजुगुप्सितं च । तत्र जातिजुगुप्सितं लशुनादि, आदिग्रहणेन पलाण्डुप्रभृतिपरिग्रहः । स्थानजुगुप्सितंपुनरशुचिस्थानेकर्दमादौपतितम्। द्विविधेऽपि जुगुप्सिते ‘एवमेव' अजुगुप्सितवत् प्रायश्चित्तं वक्तव्यम् । 'नवरं' केवलं पुनः कल्पस्थकदृष्टंजुगुप्सितंगृह्णानस्य चतुर्लघवोऽत्रज्ञातव्याः ।अजुगुप्सितेपुनः “कब्बठ्ठदिढे लहुओ" त्ति लघुमासएवोक्त इति विशेषः । एतच्च सर्वमप्यपरिग्रहमधिकृत्योक्तम्। “परिग्गहे गिण्हणादीय" त्ति यत् पुनः प्रलम्बं कस्यापि परिग्रहे वर्तते तस्मिन् जुगुप्सिते वाअजुगुप्सिते वा प्रायश्चित्तं तथैव वक्तव्यम्, परंयस्य श्रेष्ठयादेः परिग्रहेतानि प्रलम्बानिवर्तन्तेतत्कृताग्रहणा-ऽऽकर्षण-व्यवहारादयो दोषा अत्राधिका भवन्तीति ॥
गतं द्रव्यतः प्रायश्चित्तम् । अथ क्षेत्रतः कालतश्च प्ररूपयति[भा.८६८] खेत्ते निवेसणाई, जा सीमा लहुगमाइ जा चरिमं ।
___केसिंची विवरीयं, काले दिन अट्ठमे सपदं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org