________________
२३४
बृहत्कल्प-छेदसूत्रम् -१-१/१ कृप्रथम-द्वितीययोर्द्वयोर्भङ्गयोश्चत्वारोलघुकाः, भावतोऽभिन्नतयासचेतनत्वात्। 'द्वयोस्तु' तृतीय-चतुर्थयोसिलघु। तथा प्रथमे भङ्गे ये चत्वारो लघुकास्ते द्वाभ्यामपि गुरवः तपसा कालेन च। द्वितीये भङ्गे ये चत्वारो लघवस्ते तपसा गुरवः कालेन लघवः । तृतीयभङ्गे यमासलघु तत् कालेन गुरु तपसा लघु । चतुर्थस्तु भङ्गो द्वाभ्यामपि लघुकः तपसा कालेन च । लघुकंतत्र (त्वत्र) मासलघु द्रष्टव्यमित्यर्थः॥ [भा.८६२] उग्घाइया परित्ते, होति अनुग्घाइया अनंतम्मि।
आणाऽणवत्थ मिच्छा, विराधना कस्स गीयत्थे ॥ वृ- एतानि प्रायश्चित्तानि 'उद्घातिकानि' लघुकानि 'परीत्ते' प्रत्येकप्रलम्बे भणितानि । 'अनन्ते' अनन्तकायेपुनरेतान्येव 'अनुद्धातिकानि' गुरुकाणिज्ञातव्यानि,प्रथम-द्वितीययोश्चत्वारो गुरुकाः तृतीय-चतुर्थयोस्तु भङ्गयोर्मासगुरु प्रायश्चित्तं तपःकालविशेषितं पूर्ववद् वक्तव्यमिति भावः । तथा प्रलम्बं गृह्णता तीर्थकृतामाज्ञाभङ्गः कृतो भवति, अनवस्था मिथ्यात्वं विराधना च संयमाऽऽत्मविषया कृता भवति । शिष्यः पृच्छति-कस्यैतत् प्रायश्चित्तमाज्ञादयश्च दोषाः? । गुरुराह-अगीतार्थस्य भिक्षोरिति। एतच्च सप्रपञ्चमुपरिष्टाद्भावयिष्यते॥अथप्रलम्बग्रहणेविस्तरेण प्रायश्चित्तं वर्णयितुकाम इमां द्वारगाथामाह[भा.८६३] अन्नत्थ-तत्थगहणे, पडिते अच्चित्तमेव सच्चित्ते।
छुभणाऽऽरुहणा पडणे, उवही तत्तो य उड्डाहो ।। वृ-प्रलम्बग्रहणं द्विधा-अन्यत्रग्रहणं तत्रग्रहणं च । वृक्षादन्यत्र-अन्यस्मिन् प्रदेशे ग्रहणम् अन्यत्रग्रहणम्, तत्रैव-वृक्षप्रदेशे ग्रहणंतत्रग्रहणम् । तथापतितं वृक्षस्याधस्ताद्यद् गृह्णाति तद् द्विधा-अचित्तंसचित्तंच।तस्य पतितस्याप्राप्तौ वृक्षोपरिस्थितप्रलम्बपातनाय "छुभण"त्ति काष्ठादेः प्रक्षेपणम्।तथाऽप्यप्राप्ती “आरुहण"त्ति तस्मिन् वृक्षेआरोहणं करोति।आरूढस्य चकदाचित् पतनं भवेत् । प्रलम्बं गृह्णन्तं दृष्ट्वा च प्रान्तेन केनचिदुपधिरपहियेत । ततश्चोड्डाहः सञआयेतेति द्वारगाथासमासार्थः ।। विस्तरार्थं प्रतिद्वारं बिभणिषुः प्रथमतोऽन्यत्रग्रहणं विवृणोति[भा.८६४] अन्नगहणं तु दुविहं, वसमाणेऽडवि वसंति अंतो बहिं ।
अंताऽऽवण तव्वज्जे, रच्छा गिह अंतो पासे वा॥ वृ-अन्यत्रग्रहणं द्विविधम्, तद्यथा-वसति अटव्यां च । तत्र य वसति प्रदेशे तद् द्विधाग्रामादीनामन्तो बहिश्च । यद् ग्रामादीनामन्तस्तत् पुनर्द्विविधम्-आपणे तद्वर्जे च । आपणःहट्टः, तत्र स्थितस्य प्रलम्बस्य यद् ग्रहणं तद् आपणविषयम् । यत् पुनरापणवर्जे गृहे वा रथ्यायां वा गृह्णाति तत्तद्वर्जविषयम्। तत्र यद् आपणविषयं तद् आपणस्यान्तर्वा भवेत् पार्श्वतोवा । यत् तद्वर्जविषयं तदपि रथ्याया गृहस्य वा अन्तर्वा भवेत् पार्श्वतो वेति । एतच्च सर्वमपि द्विधाअपरिग्रहंसपरिग्रहंच। तत्रापणेतद्वर्जेवाअपरिग्रहेगृह्णानस्य द्रव्य-क्षेत्र-काल-भावभेदात् चतुर्विधं प्रायश्चित्तम् । तत्र द्रव्यतस्तावदाह[भा.८६५] कब्बट्ठदिढे लहुओ, अटुप्पत्तीय लहुग ते चेव ।
परिवड्डमाणदोसे, दिट्ठाई अन्नगहणम्मि॥ वृ-कल्पस्थः समयपरिभाषया बालक उच्यते, तेन प्रलम्बमचित्तं गृह्णानो यदि दृष्टस्तदा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org