SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -१-१/१ पदार्थःइत्यर्थः।माकारो वर्त्तमाना-ऽनागतकालप्रतिषेधको यथा-मा घटं भिन्द्धि, माघटं भेत्स्यसि, चकारौ समुच्चयार्थी । नोकारो देशप्रतिषेधकस्तदन्यभावसूचको वा यथा-नोघटइत्युक्ते घटैकदेशः कपालदिकोऽवयवः, तद्विपरीतं वा अन्यद् द्रव्यं पटादिकम् ॥ अथ संयोगादिविषयं नकारप्रतिषेधं भावयति[भा. ८१८] २२२ संजोगे समवाए, सामने खलु तहा विसेसे अ कालतिए पडिसेहो, जत्थुवओगो नकारस्स ॥ वृ-संयोगे मवाये सामान्ये विशेषे चेति चतुर्धा प्रतिषेधो नकारस्य भवति । स च प्रत्येकमतीताऽनागत- वर्त्तमानलक्षणकालत्रिकविषयत्वादेकैकस्त्रिविध इति सर्वसङ्ख्यया द्वादशविधो नकारप्रतिषेधः । यत्रच कापि नकारस्योपयोगो भवति तत्रामीषां द्वादशानां भेदानामन्यतमः प्रतिषेधः प्रतिपत्तव्य इति ।। अथ संयोगादिषु यथाक्रमं प्रतिषेधमुदाहरति [भा.८१९] नत्थि घरे जिनदत्तो, पुव्वपसिद्धाण तेसि दोन्हं पि । संजोगो पडिसिज्झइ, न सव्वसो तेसि अत्थित्तं ॥ कृ' नास्ति गृहे जिनदत्तः' इत्यत्र प्रयोगे पूर्वप्रसिद्धयोस्तयोर्गृह- जिनदत्तयोर्द्वयोरपि 'संयोगः' सम्बन्धमात्रं प्रतिषिध्यते न पुनः सर्वथैव तयोरस्तित्वमिति संयोगप्रतिषेधः ॥ समवाए खरसिंगं, सामन्ने नत्थि चंदिमा अन्नो । [भा. ८२०] नत्थि य घडप्पमाणा, विसेसओ होंति मुत्ताओ ॥ वृ- समवायप्रतिषेधे तु खरश्रङ्गमुदाहरणम्-खरोऽप्यस्ति श्रङ्गमप्यस्ति परं खरशिरसि श्रङ्गं नास्तीति 'समवायः' एकत्र संश्लेष उभयोरपि प्रतिषिध्यते इति समवायप्रतिषेधः । सामान्यप्रतिषेधोयथा-नास्त्यस्मिन् स्थानेऽन्य ईद्दशश्चन्द्रमा इति । विशेषमाश्रित्य पुनरयं प्रतिषेधःन सन्ति घटप्रमाणाः 'मुक्ताः' मुक्ताफलानीत्यर्थः, सन्ति मुक्ताफलानि परं न घटप्रमाणानीति घटप्रमाणत्वलक्षणस्य विशेषस्य प्रतिषिध्यमानत्वाद् विशेषप्रतिषेधः ।। भावितः संयोगादिचतुष्टयविषयः प्रतिषेधः । सम्प्रति कालत्रयविषयं तमेव भावयति [भा. ८२१] नेवाssसी न भविस्सइ, नेव घडो अत्थि इति तिहा काले । पडसेइ नकारो, सज्जं तु अकार - नोकारा ॥ वृ- नैवासीत् न भविष्यति नैवास्ति घट इति यथाक्रममतीता-ऽनागत-वर्त्तमानभेदात् त्रिधा कालविषयं वस्तु नकारः प्रतिषेधयति । अकार - नोकारौ तु 'सद्यः' वर्त्तमानकालमेव प्रायः प्रतिषेधयतः, यथा - अकरोषि त्वम्, नो कल्पते तालप्रलम्बं प्रतिग्रहीतुमित्यादि । माकारस्य तु द्विविधकालप्रतिषेधकत्वं पूर्वमुक्तमेवेति न पुनरुच्यते ॥ इत्थं सप्रपञ्चं प्रतिषेधमुपवर्ण्य प्रस्तुतार्थयोजनामाह [भा. ८२२] जम्हा खलु पडिसेहं, नोकारेणं करेंति णऽन्नेणं । तम्हा उ होज गहणं, कयाइ अववायमासज्ज ।। वृ-यस्मात् खलु प्रतिषेधं नोकारेणैव कुर्वन्ति भगवन्तः सूत्रकृतो नान्येन नकारादिना तत एव ज्ञायते भवेद् ग्रहणं कदाचित् तलप्रलम्बस्यापवादपदमासाद्येति ।। व्याख्यातमादिनकारपदम्। अथ ग्रन्थपदम्-तस्य च नामादिभेदाच्चतुर्धा नक्षेपः । तत्र नाम-स्थापने गतार्थे द्रव्यग्रन्थस्त्रिधा - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy