________________
उद्देशक : १, मूलं-१, [भा. ८१४]
२२१
वितहं पि तहामुत्तिं, जो तहा भासए नरो।
सो वि ता पुट्ठो पावेमं, किं पुणं जो मुसं वए। द्रव्यप्रतिषेधो ज्ञशरीरे-भव्यशरीरव्यतिरिक्तः पुनरयम्-नो कप्पइ निग्गंथाण वा निग्गंथीणवा आमे तालपलंबे अभिन्ने पडिगाहित्तएत्ति।क्षेत्रप्रतिषेधोयथा-नोकप्पइनिग्गंथाणवा निग्गंथीण वा रातो वा वियाले वा अद्धाणगमणं एत्तए कालप्रतिषेधो यथा
अत्थंगयम्मि आइच्चे, पुरत्था य अनुग्गए।
आहारइयं सव्वं, मणसा विन पत्थए । -- भावप्रतिषेध औदयिकभावनिवारणरूपो यथा -
कोहं मानं च मायंच, लोभं च पाववडणं ।
वमे चत्तारि दोसे उ, इच्छंतो हियमप्पणो ॥ इत्यादि । अत्र च सूत्रे द्रव्यप्रतिषेधेनाधिकारः । तथा ‘स इति' प्रतिषेधोऽमङ्गलमिति 'ते' तव बुद्धिर्भवेत् सा चायुक्ता, यतः पापानां यदकरणं तदेव खलु परमं मङ्गलं ज्ञातव्यमिति पूर्वमेव भावितम्।।तदेवमुक्तः सङ्क्षपतःसूत्रार्थः । सम्प्रति विस्तरार्थसूत्रस्पर्शिकनियुक्त्याप्रतिपादयितुमाह[भा.८१५] आइनकारे गंथे, आमे ताले तहा पलंबे य।
भिन्नस्स वि निक्खेवो, चउक्कओ होइ एक्कक्के । वृ-आदौ नकार आदिनकारः स विचारणीयः । तथा ग्रन्थपदस्य आमपदस्य तालपदस्य प्रलम्बपदस्य भिन्नपदस्यापि च निक्षेपः 'चतुष्कः' नाम-स्थापना-द्रव्य-भावरूपः कर्तव्यो भवति 'एकैकस्मिन् एकैकपदविषयः ।। तत्राऽऽदिनकारपदं विव्रियते। शिष्यः प्रश्नयति-योऽयमादौ प्रतिषेधः स नकारेण भवत मा नोकारेण, तद्यथा- “न कप्पइ निग्गंथाण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए" । एवं च क्रियमाणे सूत्रं लघु भवति, "मात्रयाऽपि च सूत्रस्य लाघवं महानुत्सवः" इति विद्वत्प्रवादः, नोशब्देन पुनः प्रतिषेधेविधीयमाने सूत्रगौरवं भवति।अत्राचार्य प्रतिवक्ति-भद्र ! कारणमत्रास्ति यतो नोकारेण प्रतिषेधः क्रियते। आह-किं पुनस्तत् कारणम् ? उच्यते[भा.८१६] पडिसेहो उ अकारो, माकारो नो अतह नकारो अ।
तब्भाव दुविहकाले, देसे संजोगमाईसु ॥ कृप्रतिषिध्यतेऽनेनेति प्रतिषेधः' प्रतिषेधको वर्ण, सचतुर्धा-अकारोमाकारोनोकारस्तथा नकारश्च । तत्राऽकारस्तद्भावप्रतिषेधं करोति । माकारः पुनर्द्विविधकालविषयं प्रतिषेधम्, तद्यथा-प्रत्युत्पन्नविषयम् अनागतविषयं च । नोकारो देशप्रतिषेधम् । नकारःपुनः संयोगादिषु' संयोग-समवाय-सामान्य-विशेषचतुष्टयप्रतिषेधं करोति । तत्राकार-माकार-नोकाराणामुदाहरणान्याह[भा.८१७]निदरिसणं अघडोऽयं, मा य घडं भिंद मा य भिंदिहिसि ।
नो उ घडोघडदेसो, तविवरीयं च जं दव्वं ॥ वृ-निर्दर्शनमिति जातावेकवचनम्, ततोऽमीषांप्रतिषेधकवर्णानां यथाक्रमंनिदर्शनानि। अकारस्य तद्भावप्रतिषेधे निदर्शनंयथा-अघटोऽयमिति, नघटोअघटः, घटव्यतिरिक्तःपटादिकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org