________________
-
२१८
बृहत्कल्प-छेदसूत्रम् -१-१/१ कल्पते'नोसमर्थीभवति, नयुज्यते इत्यर्थः। एवं सर्वत्र प्रकृति-प्रत्ययविभागः शब्दशास्त्रानुसारेण स्वधिया योजनीयः । तथा ग्रन्थः-परिग्रहः, स च बाह्याऽऽभ्यन्तरभेदाद् द्विधा, बाह्यः क्षेत्रवास्त्वादि, आभ्यन्तरः क्रोधादि, ततो निर्गताग्रन्थादिति निर्ग्रन्थाः-साधवस्तेषाम्।एवं निर्ग्रन्थीनां' साध्वीनाम् । वाशब्दावुभयस्यापि वर्गस्य प्रलम्बकल्प्यताप्रतिषेधमधिकृत्य तुल्यकक्षतासूचकौ। 'आमम्' अपक्वम् । तलः-वृक्षविशेषस्तत्र भवं ताल-तालफलम्, प्रकर्षेण लम्बते इति प्रलम्बंमूलम्, तालं च प्रलम्बं च तालप्रलम्बं समाहारद्वन्द्वः । 'अभिन्नं' द्रव्यतो अविदारितं भावतोऽव्यपगतजीवम् । किम् ? इत्याह-'प्रतिग्रहीतुम्' आदातुमिति पदार्थ ३।
पदविग्रहस्तु यानि समासभाञि पदानि तेषु पदार्थमध्य एव वर्णित इति ४ । चालनाप्रत्यवस्थानेतुभाष्यगाथाभिरेव सविस्तरंभावयिष्येतेइति सूत्रसमासार्थ॥भाष्यकारः प्रतिपदमेव सूत्रं व्याचिख्यासुः प्रथमतो नोकारपदं निर्ग्रन्थपदं च व्याख्यानयति[भा.८०६] अकार-नकार-मकारा, पडिसेहा होंति एवमाईया।
सहिरनगो सगंथो, अहिरन्न-सुवन्नगा समणा ॥ वृ-अकार-नकार-मकारा एवमादयः शब्दाः, अत्राऽऽदिग्रहणाद् नोकारो गृह्यते, एते प्रतिषेधवाचकाद्रष्टव्याः, अकरणीयंन करोषि,माकार्षी, नोकुरुषे' इत्यादिष्वमीषांप्रतिषेधवाचिनां प्रयोगदर्शनात् । तथा सहिरण्यकः सग्रन्थ उच्यते, अत्र हिरण्यग्रहणं बाह्या-ऽऽभ्यन्तरपरिग्रहोपलक्षणम्, ततो यः सपरिग्रहः स सग्रन्थः । श्रमणाः पुनरहिरण्य-सुवर्णका अतो निर्ग्रन्थाः। हिरण्य-रूप्यं सुवर्ण-कनकम् । अत्रच “कल्पते" इति पदं सुगमत्वाद् भाष्यकृतान व्याख्यातम्, निर्ग्रन्थीशब्दव्युत्पत्तिरपि निर्ग्रन्थशब्दवद् द्रष्टव्या, लिङ्गमात्रकृतभेदत्वादनयोरिति ॥ अथ नोकारशब्दस्यैव भावनां करोति[भा.८०७] नोकारो खलु देसं, पडिसेहयई कयाइ कपिज्जा ।
आमंच अणन्नत्ते, तलो य खलु उस्सए होइ ।। वृ-नोशब्दः प्रायो देशप्रतिषेधे वर्त्तते, यथा “नोघटः" इत्युक्ते घटैकदेशः कपालादिकः प्रतीयते, एवमत्रापिनोकारो देशंप्रतिषेधयति।ततश्चेदमुक्तंभवति-कदाचित् कल्पेत तालप्रलम्बम्, उत्सर्गपदरूपे देशे तावन्न कल्पते आत्यन्तिके पुनरपवादपदे कल्पतेऽपीति भावः । 'आमंच' आमशब्दश्च अनन्यत्वे' अनन्यभावेवर्तते।किमुक्तं भवति? -पूर्वकालभाविनीमपक्वावस्थामपेक्ष्य तदुत्तरकालभाविनीपक्वावस्थाअन्या-अपराऽभिधीयते, तदभावरूपेऽनन्यत्वेअपक्कावस्थायामामशब्दो वर्तते।तलशब्दश्चोच्छ्रये भवति, द्राधीयःस्कन्धरूपेणोच्छ्रयेणोच्छ्रितोयो वृक्षविशेषः सतलः-तालवृक्ष इति भावः; तत्र भवंतालं-तालवृक्षफलम् ॥अथ प्रलम्बादिपदानि व्याचष्टे[भा.८०८] पडिलंबना पलंबं, अविदारिय मो वयंति उ अभिन्नं ।
अहवा वि दव्व भावे, तंपइगहणं निवारेइ॥ वृ-'प्रतिलम्बनात्' प्रति-प्रकर्षेण लम्बत इति ‘प्रलम्बम् तस्यैव तलवृक्षस्य मूलम् । तथा यद् अविदारितं 'मो' इति पादपूरणे तद् वदन्ति श्रुतवेदिनो अभिन्नम् । अथवा अभिन्नं द्विधाद्रव्यतो भावतश्च । तत्र द्रव्यतो यद् अविदारितम्, भावतः पुनरव्यपगतजीवम् । 'तप्रतिग्रहणं' तस्य-आमतालप्रलम्बस्याभिन्नस्यादानं निवारयति नोकार इति एष सूत्रपदार्थः। अथ चालना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org