SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २१६ बृहत्कल्प-छेदसूत्रम् -१ यः ससुनिश्चितस्तस्य दीयते। "इच्छागएपच्छि"त्तिअपरिणामका-ऽतिपरिणामकयोः पुनर्यदा सा आत्मीया यथाक्रमं केवलोत्सर्ग-केवलापवादरुचिलक्षणा इच्छा गता-नष्टा भवति तदा पश्चात् तयोः छेदश्रुतानि दातव्यानीति ॥ उक्तं परिणमकद्वारम् । तदुक्तौ च व्याख्यातं सप्रपञ्चं “बहुस्सुए चिरव्वइए' इत्यादिकं द्वारश्लोकयुगलम् । तद्याख्याने च समर्थितं “निक्खेवेगट्ठ निरुत्ति" इत्यादिमूलद्वारगाथा सूचितं पर्षदिति द्वारम् । अत्र च लक्षण-तदर्ह-पर्षदाराणि निक्षेपनामकस्यानुयोगद्वारद्वितीयभेदस्य प्रासङ्गिकतया तदन्तःपातीन्येवावसातव्यानीति । गतं निक्षेपद्वारमिति ।। चारित्रभूपालनिवासहेतुप्रासादकल्पे किल कल्पशास्त्रे। सुवर्णबद्धा सुरसावगाढा, समर्थिता सम्प्रति पीठिकेयम्॥ बृहतकल्पे पीठिका समाप्ताः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता बृहत्कल्पसूत्रे पीठिकायाः संघदास गणि विरचितंभाष्यं एवं क्षेमकीर्तिआचार्येण विरचिता टीका परिसमाप्ता। (उद्देशक:-१) वृ-अथानुगमद्वारम् । स चानुगमो द्विधा-निर्युक्त्यनुगमः सूत्रानुगमश्च ।निर्युक्त्यनुगमः। सूत्रानुगमश्च । नियुक्त्यनुगमस्त्रिविधः-निक्षेपनियुक्त्यनुगम उपोद्धातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्च।तत्र निक्षेपनियुक्त्यनुगमोभिहितः,ओघनिष्पन्नेनिक्षेपेऽध्ययनपदस्य नामनिष्पन्नेच कल्पपदस्य निक्षिप्तत्वाद्वक्ष्यते च सूत्रालापकनिष्पन्ने सूत्रपदानां निक्षेप्यमानत्वात् १। उपोद्घातनिर्युक्त्यनुगमः पुनराभ्यां द्वारगाथाभ्यामनुगन्तव्यः । तद्यथा उद्देसे निद्देसे, य निग्गमे खेत्त काल पुरिसे य। कारण पच्चय लक्खण, नए समोयारणाऽनुमए॥ किं कइविहं कस्स कहि, केसुकहं केच्चिरं हवइ कालं । कइ संतरमविरहियं, भवाऽऽगरिस फासणनिरुत्ती॥ - अनयोरर्थो मूलावश्यकादिटीकातोऽवसातव्यः २ । सूत्रस्पर्शिकनिर्युक्त्यनुगमः सूत्रपदव्याख्यानरूपः, स चावसरप्राप्तोऽपि नाभिधीयते; कुतः ? इति चेत्, उच्यते-सूत्रमेव तावदद्यापिन प्राप्यते, अतः सूत्राभावात् कस्य स्पर्शनं करोत्वसौ? इति, अतः क्रमप्राप्ते सूत्रानुगमे यदा सूत्रं वक्ष्यते ततः कस्मादत्रावसरे पठ्यते? उच्यते- नियुक्तिमात्रसाम्यादसावत्राभिधीयत इत्यदोषः३।अथ सूत्रानुगमः, सचेदानीमवसरप्राप्त एवेत्यत्र सूत्रानुगमे सूत्रमुच्चारणीयम्, ततः सूत्रालापकनिक्षेपेण निक्षेपणीयम्, ततोऽपिसूत्रस्पर्शिकनियुक्त्या तदेव विस्तारणीयम् । अत्रच सूत्रानुगमादीनामित्थं विषयविभागव्यवस्था द्रष्टव्या-पदच्छेदसहितया संहितया सूत्रमुच्चार्य सूत्रानुगमः कृतार्थो भवति, नामादनिक्षेपविनियोगं विधाय सूत्रालापकनिष्पन्ननिक्षेपः, पदार्थपदविग्रह-चालना-प्रत्वस्थानलक्षणव्याख्याचतुष्टये कृते सूत्रस्पर्शिकनियुक्ति । नैगमादयो नया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy