________________
२०४
बृहत्कल्प-छेदसूत्रम् -१
भावा येन स आद्यद्दष्टभावः, तथा अकृतसामाचारीकः तरुणधर्मा च गर्वितः "पइन्न" त्ति प्रकीर्णप्रश्नः प्रकीर्णविद्यश्च " निण्हइ"त्ति गुरुनिह्नवी एतेषां छेदश्रुतविषयमर्थं वर्जयेत्, न दद्यादित्यर्थः इति द्वारगाथाद्वयसमासार्थः ।।
व्यासार्थं प्रतिद्वारमभिधित्सुः प्रथमतस्तिन्तिणिकद्वारं व्याचष्टे
[भा. ७६४ ] डज्झतं तिंबुरुदारुयं व दिवसं पि जो तिडितिडेइ । अह दव्वतिंतिणो भावओ उ आहारुवहि- सेज्जा ।।
वृ- 'तिम्बुरुकदारुकं' तिम्बुरुकवृक्षकाष्ठमग्नौ प्रक्षिप्तं दह्यमानं सद्यथा त्रटत्रटिति कुर्वदास्ते, एवं यो गुर्वादिभिः खरण्टितः सम्पूर्णमपि दिवसं ''तिडितिडेइ"त्ति अनुकरणशब्दत्वात् 'त्रटत्रटायते' मम सम्मुखमिदमिदं च जल्पितमेभिरिति ऋषन्नास्ते इति भावः । अथैष द्रव्यतिन्तिणिकः । भावतस्तु तिन्तिणिकः त्रिविधः, तद्यथा-आहारे उपधौ शय्यायां चेति । पुनरेकैको द्विविधः - अन्तः संयोजनया हिसंयोजनया च ॥ तत्रोभयथाऽप्याहारतिन्तिणिकं तावदाह
[भा. ७६५ ] अंतो- बहिसंजोअण, आहारे बाहि खीर - दधिमाई । अंतो उ होइ तिविहा, भायण हत्थे मुहे चेव ॥
वृ- आहारविषया संयोजना द्विविधा - अन्तर्बहिश्च । तत्र बहिस्तावद् भाव्यते कश्चित् साधुर्भिक्षामटन् क्षीरं वा दधि वा लब्ध्वा रसगृध्नुतया कलमशालिप्रभृतिकमोदनं चिरगोचरचर्याकरणेनाप्युत्पाद्य यत् तेनैव क्षीरादिना सार्धमुपाश्रयाद् बहि संयोजयति, आदिशब्दात् परमान्नादिकं वा लब्ध्वा घृत-खण्डादिना बहिरेव स्थितः सन् यद् योजयति एषा बहिसंयोजना । अन्तस्तु प्रतिश्रयाभ्यन्तरे पुनः संयोजना त्रिविधा भवति, तद्यथा - भाजने हस्ते मुखे चैव । तत्र भाजनविषया यत्र भाजने कलमशाल्योदनस्तत्र दुग्ध-दध्यादि प्रक्षिपति । हस्तविषया मण्डकपूपलिकादिना गुड-शर्करादि हस्तस्थितं वेष्टयित्वा मुख् प्रक्षिपति । मुखविषया पूर्व मण्डकादि मुखे प्रक्षिप्य ततः शक्रका-खण्डादि प्रक्षिपति । एवंविधां द्विविधामप्याहारसंयोजनां लोभाभिभूततया कुर्वन् यदा यदा संयोजनीयवस्तुयोगं न लभते तदा तदा तिन्तिणिकत्वं करोतीत्याहारतिन्तिणिक उच्यते ।। गत आहारतिन्तिणिकः । साम्प्रतमुपधि-शय्यातिन्तिणिकावतिदिशति
[भा. ७६६ ] एमेव उवहि सेज्जा, गुणोवमारी उ जस्स जं होइ । सोते जोयतो, तदभावे तिंतिणो होइ ॥
वृ- एवमेवोपधि-शय्ययोरपि संयोजनाया भावना कार्या । सा चेयम् उपधिसंयोजना द्विविधा-बहिरन्तश्च । तत्र बहिसंयोजना उत्कृष्टं कल्पं लब्ध्वा चोलपट्टकमपि उत्कृष्टमुत्पादयति, और्णिकं वा कल्पं सुन्दरं लब्ध्वा तदनुरूपमेव सौत्रिकमुत्पादयति, उत्पाय च तदुभयपरिभोगेन संयोजयति । अन्तः संयोजना पुनर्विभूषार्थं श्वेतकम्बल्यां कृष्णदवरकसीवनिकां ददाति इत्यादि । शय्या-प्रतिश्रयस्तस्य संयोजनाऽपि द्विविधा बहिरन्तश्च । तत्र बहि-संयोजना अकपाटमुपाश्रयं लब्ध्वा कपाटाभ्यां संयोजयति । अन्तः संयोजना शोभार्थं प्रतिश्रयं गोमय- मृदादिना लिम्पति सेटिकया वा धवलयति । अथवा शय्याशब्देन संस्तारक उच्यते, ततश्च सुन्दरतरं संस्तारकं लब्ध्वा यद् उत्तरपट्टमपि तदनुरूपमुत्पाद्य परिभुङ्क्ते सा बहिसंयोजना । यत् पुनः सुकुमारस्पर्शार्थं विभूषार्थं वा सुन्दरया भङ्गया संस्तारकं प्रस्तृणाति सा अन्तः संयोजना । तदेवं यद् उपध्यादिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org