________________
२०२
बृहत्कल्प-छेदसूत्रम् -१
[भा.७५७] दुविहो लिंग विहारे, एक्केक्को चेव होइ दुविहो उ ।
चउरोय अनुग्घाया, तत्थ विआणाइणो दोसा॥ वृ-अनवस्थितो द्विविधः, तद्यथालिङ्गानवस्थितो विहारानवस्थितश्च । एकैकः पुनरपि द्विविदो भवति। तद् उभयमपि द्वैविध्यमनन्तरगाथायां वक्ष्यते । चत्वारश्च मासाः अनुद्धाताः' गुरवः, उपलक्षणत्वाद् लघुमासादिकंचात्र प्रायश्चित्तं भवति । तच्च यथास्थानमेव भावयिष्यते। तत्रापि लिङ्गानवस्थित-विहारानवस्थितयोरुभयोरप्याज्ञादयो दोषा द्रष्टव्याः॥
अथैनामेव गाथां व्याख्यानयति[भा.७५८] गिहिलिंग अन्नलिंगं, जो उ करेई स लिंगओ दुविहो ।
चरणे गणे अअथिरो, विहारअणवढिओ एस। वृ-'गृहिलिङ्ग गृहस्थानांवेषम् ‘अन्यलिङ्गम्' अन्यतीथिकानां नेपथ्यं यः' साधुः, तुशब्दो विशेषणे, किं विशिनष्टि ? दर्पण यो लिङ्गद्वयं करोति स एष लिङ्गतो द्विविधोऽनवस्थितः । अस्य च द्विविधस्यापि मूलम् । तथा चोलपट्टकं बध्नतः १ एकत उभयतो वा स्कन्धोपरि कल्पाञ्चलानामारोपणरूपंगरुडपाक्षिकं प्रावृण्वतः२ उत्तरासङ्गरूपमसिन्यासं कुर्वतः ३प्रत्येकं चत्वारो गुरुमासाः। द्वावपिबाहूछादयित्वा संयतीप्रावरणमातन्वानस्य चत्वारो लघवः । कल्पेन शिरःस्थगनरूपां शीर्षद्वारिका कुर्वतो मासलघु । चतुष्फलं मुत्कलं वा कल्पं स्कन्धोपरि कृत्वा गोपुच्छवदधोलमबमानं कुर्वतो मासलघु । एतेऽपि लिङ्गानवस्थितेऽन्तर्भवन्ति । तथा 'चरणे' चारित्रे ‘अस्थिरः' यः पुनः पुनश्चारित्रात् प्रतिपतति तस्य यदि सूत्रं ददाति तदा चतुर्लघु, अर्थं ददाति तदा चतुर्गुरु । 'गणे' गच्छे ‘अस्थिरः' पुनः पुनर्गणाद् गणं सङ्क्रामति। एष द्विविधोऽपि विहारानवस्थितः । एतद्विपरीतस्य स्वलिङ्गावस्थितस्य संविग्नविहारावस्थितस्य च दातव्यम् । यदि न ददाति तदा तथैव सूत्रे चतुर्लघु, अर्थे चतुर्गुरु ।।गतमवस्थितद्वारम् ।
अथ मेधाविद्वारमाह[भा.७५९] उग्गहण धारणाए मेराए चेव होइ मेधावी।
तिविहम्मि अहीकारो, मेरासंजुत्तो मेहावी॥ वृ-मेधावी त्रिविधः, तद्यथा-अवग्रहणमेधावी सूत्रार्थग्रहणपटुप्रज्ञावान् १, धारणामेधावी पूर्वाधीतयोः प्रभूतयोरपि सूत्रार्थयोश्चिरमवधारणाबुद्धिमान् २, मर्यादामेधावी चरणकरणप्रवणमतिमान् ३ । एभिस्त्रीभिः पदैरष्टौ भङ्गाः, तद्यथा-ग्रहणमेधावी धारणामेधावी मर्यादामेधावी १ ग्रहणमेदावी धारणामेधावी अमर्यादामेधावी २ इत्यादि । इह च यत्र यत्र भङ्गे मर्यादामेधावीन भवततत्रतत्र नदातव्यम्, यदिददातितदा प्रायश्चित्तम्। तत्र यदि पार्श्वस्थादिभ्यः सूत्रमर्थं वा ददातितदाचत्वारो लघवः, यथाच्छन्देभ्यः प्रददाति चत्वारो गुरुमासाः। “तिविहम्मि अहीगारो"त्ति मर्यादामेधाविनो ग्रहण-धारणामेधाविभ्यां सम्पन्नस्यासम्पन्नस्य वा दातव्यम्, मर्यादाविकलयोरितरयोर्न दातव्यमिति त्रिविधेनापि दाना-ऽदानरूपतया यथायोगमत्राधिकार इति । गाथायां तृतीयार्थे सप्तमी । अथ मर्यादामेधाविनो व्युत्पत्तिमाह-“मेरासंजुत्तो मेहावि"त्ति मेरा-मर्यादा तत्संयुक्तो मेधावी मर्यादामेधावी, शाकपार्थिवादिक्द् मध्यपदलोपी समासः॥
गतं मेधाविद्वारम् । अथापरिश्राविद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org