SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १८३ पीठिका - [भा. ७००] दिनाऽऽत्म-परोभयसमुत्था दोषाभवेयुः । “सोहि"त्ति 'शोधि' प्रायश्चित्तम्, तद्अपराधमापन्नस्य तस्य को नाम ददातु? ।अनुद्यमता च तस्य सारणादीनामभावाद्भवति। "निप्पग्गहयाय"त्ति इह प्रग्रहशब्दो यद्यपि "तुलासूत्रेऽश्वादिरश्मी, सुवर्णे हलिपादपे। बन्धने किरणे बन्यां, मुजेच प्रग्रहं विदुः॥" इति वचनादनेकार्थ तथाप्यत्राश्वादिरश्मिवाचको द्रष्टव्यः, ततो यथा तया शम्या वल्गापरपर्याययोन्मार्गप्रस्थितस्तुरङ्गमो मार्गेऽवतार्यते तथा गुरूणामप्याज्ञावल्गया साधुःप्रमादत उत्पथप्रतिपत्रोऽपि सन्मार्गेऽवतार्यते इति प्रग्रहशब्देन गुर्वाज्ञाऽभिधीयते, प्रग्रहो नियन्त्रणा गुज्ञेिति यावत्, निर्गतः प्रहादिति निष्पग्रहः, तस्य भावो निष्पग्रहता, गुर्वाजाया अभावात् पाणि-पाद-मुखधावनादि निशङ्कं करोतीत्यर्थः । एवं चरणविषयः परित्याग इति । किञ्च[भा.७०१] सामन्नाजोगाणं, बज्झो गिहिसन्नसंथुओ होइ सण-नाण-चरित्ताण मइलणं पावई एक्को॥ वृ-स एकाकी “सामन्न"त्ति श्रामण्य-भाविनां विनय-वैयावृत्यप्रभृतीनांयोगानां 'बाह्यः' अनाभागी भवति । गृहिणाम्-अगारिणां संज्ञा-समाचारस्तस्यां संस्तुतः-परिचयवान् भवति । दर्शन-ज्ञान-चारित्राणां च मालिन्यमेकः सन् प्राप्नोति, तत्र बौद्धादिभिर्विपरिणामितमतेः 'अहो! अमीषामपि दर्शनं निपुणोपपत्ति-दृष्टान्तसंवर्मितं समीचीनमिव प्रतिमासते' इत्यादिना चित्तविप्लवेनोन्मार्गप्ररूपणयावादर्शनमालिन्यम्, विशाखिल-वात्स्यायनादिपापश्रुतान्यभ्यस्यतस्तेषु बहुमानबुद्धिं कुर्वतो ज्ञानमालिन्यम्, चारित्रमालिन्यं पुनरेकाकिनः सुप्रतीतमेव ।। अथ गृहिसंज्ञासंस्तुतः कथं भवति? इति उच्यते[भा.७०२] कयमकए गिहिकज्जे, संतप्पइ पुच्छई तहिं वसइ । संथव-सिनेहदोसा, भासा हिय नट्ट सोगोअ।। वृ- 'गृहिकार्ये' क्रय-विक्रयादावनभिमते कृतेऽभिमते वा अकृते स एकाकी विवक्षिते गृहस्थे ममत्वातिरेकतः ‘संतप्यते' सन्तापमनुभवति, यथा-आः ! शोभनं न समजनि यदेतेनागारिणाऽमुकं वस्तु व्यवह्वतंअमुकंन व्यवहतमित्यादि। तथा “पुच्छई"त्तिसुख-दुःखलाभाऽलाभादिकां वार्ता तस्य पार्शेव पृच्छति । “तहिं वसई"त्ति 'तत्र' तेषां गृहस्थानां मध्य एवासौ वसति । तत्र चवसतो निरन्तरं यस्तैः सह संस्तवस्तेनात्यन्तिकः स्नेहस्तेषु समुल्लसति, तद्वशात् तदीयापत्यानां यत् क्रीडापनं यच्चाक्षर-गणितादिशक्षापणंयच्चतदुपरोधतः कुण्टलविण्टलादिकरणं तदेवमादयो दोषा द्रष्टव्याः । तथा भाषां सावद्यामसावगीतार्थतया ब्रूयात्, यथा-हे श्रावक ! गम्यताम् आगम्यताम् उपविश्यतामित्यादि । गृहिसके च वस्तुजाते केनचित् चौरादिना हृते स्वयंवानष्टेतस्यस्नेहातिरेकतः 'शोकः' परिदेवनादिरूपः स्यादिति।यत एवंविधदोषोपनिपातस्तत एकाकिविहारविरहेण गच्छवासमध्यासीनेन साधुना यावज्जीवं विहरणीयम् ।। तस्य च गच्छस्याधिपतिराचार्यो भवति ततः शिष्यः प्रश्नयति-कीशस्य गच्छो दीयते? अयोग्यस्य वा गच्छं प्रयच्छन् अयोग्यो वा गच्छं धारयन् कीदृशं प्रायश्चित्तं प्राप्नोति ? उच्यते [भा.७०३] अबहुस्सुए अगीयत्थे निसिरए वा विधारए व गणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy