________________
पीठिका - [भा. ६९२]
एते सर्वेऽप्याचार्योपाध्यायनिश्रया विहरन्ति ।। कथम् ? इत्याह[भा. ६९३] आयारपक्पधरा, चउदसपुव्वी अ जे अ तम्मज्झा । तन्नीसाए विहारो, सबाल-वुड्डस्स गच्छस्स ।।
वृ- ‘आचारस्प्रकल्पधराः’ निशीथाध्ययनधारिणो जघन्या गीतार्था, चतुर्दशपूर्विणः पुनरुत्कृष्टाः, 'तन्मध्यवर्त्तिनः' कल्प-व्यवहार-दशाश्रुतस्कन्धधरादयो मध्यमाः । तेषां जघन्यमध्यमोत्कृष्टानां गीतार्थानां निश्रा सबाल-वृद्धस्यापि गच्छस्य विहारो भवति, न पुनरगीतार्थस्य स्वच्छन्दमेकाकिविहारः कर्त्तु युक्तः । कुतः ? इति चेद् उच्यते
[ भा. ६९४ ] एगविहारी अ अजायकप्पिओ जो भवे चवणकप्पे । उवसंपन्नो मंदो, होहिइ वोसट्टतिट्ठाणो ।
१८१
वृ- एकः सन् विहरतीत्येवंशील एकविहारी, स च 'अजातकल्पिकः' अगीतार्थ, तथा च्यवनं चारित्रात् प्रतिपतनं तस्य कल्पः-प्रकारश्चयवनकल्पः, पार्श्वस्थादिविहार इत्यर्थः, तस्मिन् यो भवेत् स एकाकित्वम् 'उपसम्पन्नः ' प्रतिपन्नः सन् 'मन्दः' सद्बुद्धिविकलो भविष्यति 'व्युत्सृष्टत्रिस्थान:' व्युत्सृष्टानि परित्यक्तानि त्रीणि स्थानानि - ज्ञानादिरूपाणि येन स व्युत्सृष्टत्रिस्थानः । एषा नियुक्तिगाथा ।। अथैनामेव विवृणोति
[भा. ६९५] मोत्तूण गच्छनिग्गते, गीयस्स वि एक्कगस्स मासो उ । अविगीए चउगुरुगा, चवणे लहुगा य भंगट्ठा ॥
वृ- मुक्त्वा 'गच्छनिर्गतान्' जिनकल्पिकादीन् गीतार्थस्यापि 'एककस्य' एकाकिविहारं कुर्वतो मासलघु । 'अविगीते' अगीतार्थे एकाकिविहारिणि चत्वारो गुरुकाः । च्यवने' पार्श्वस्थादिविहारे यदि मनसाऽपि संकल्पं कुरुते तदा चत्वारो लघुकाः । “भंगट्ठ" त्ति अष्टौ भङ्गा अत्र कर्त्तव्याः, तद्यथ-एकाकी अजातकल्पिकश्चयवनकल्पिकश्च १ एकाकी अजातकल्पिको न च्यवनकल्पिकः २ एकाकी जातकल्पिकश्चयवनकल्पिकः ३ एकाकी जातकल्पिको न . च्यवनकल्पिकः ४, एवमेकाकिपदेन चत्वारो भङ्गा लब्धाः; अनेकाकिपदेनापि चत्वारो लभ्यन्ते, सर्वसङ्ख्यया अष्टौ भङ्गाः । अत्राष्टमो भङ्गस्त्रिष्वपि पदेषु शुद्धत्वात् प्रायश्चित्तरहितः । शेषेषु तु यथायथमनन्तरोक्तं प्रायश्चित्तम् । एतेषु सप्तस्वपि भङ्गेषु वर्त्तमानस्य दोषमुपदर्शयन्नुपसम्पन्नमन्दपदे व्याचष्टे
[ भा. ६९६ ] एगागित्तमणट्ठा, उवसंपज्जइ चुओ व जो कप्पा । सो खलु सोचो मंदो मंदो पुण दव्व-भावेणं ॥
वृ-य एकाकित्वम् 'अनर्थाद्' ज्ञानादिप्रयोजनाभावाद् 'उपसम्पद्यते ' अङ्गीकरोति, यो वा ‘च्युतः’ प्रतिपतितः ‘कल्पात्' संविग्नविहारात् स खलु वराको द्रव्यजीवितेन जीवन्नपि ‘शोच्यः’ शोचनीयः संयमजीविताभावात्, मन्दश्चासौ । अथ मन्द इति कोऽर्थः ? इत्याह- मन्दः पुनः 'द्रव्य-भावेन' द्रव्यतो भावतश्च मन्दो भवतीत्यर्थः ॥
[भा. ६९७] एक्केक्को पुन उवचय, अवचय भावे उ अवचए पगयं । तलिना बुद्धी सेट्ठा, उभयमओ केइ इच्छन्ति ॥
वृ-द्रव्यमन्दो भावमन्दश्चैकैकः पुनर्द्विधा- उपचयेऽपचये च । ततरोपचयद्रव्यमन्दो नाम
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International