________________
पीठिका - [भा. ६८४]
१७९
वृ- 'चत्वारः', देवेन्द्र-राज-गृहपति-सागारिकाणामवग्रहा औदयिके भावे वर्त्तन्ते, 'ममेदं क्षेत्रम्' इत्यादिमूर्च्छायास्तेषु सद्भावात्, तस्याश्च कषायमोहनीयोदयजन्यत्वात् । 'पश्चिमः’ साधर्मिकावग्रहः स क्षायोपशमिके भावे वर्त्तते, कषायमोहनीयक्षयोपशमयुक्ततया 'ममेदं क्षेत्रम्, ममायमुपाश्रयः' इत्यादिमूर्च्छायाः साधूनामभावात् । एष भावावग्रहः । तदेवं प्ररूपितः पञ्चविधोऽप्यवग्रहः । अथ यदुक्तं द्वारगाथायाम् “पंचविहम्मि परूविए, वावओ जो जहिं कमइ” त्ति तदिदानीं भाव्यते "मनसी करणमणुन्नं चे "त्यादि । मनसि करणमनुज्ञां च जानीहि, यद् 'यत्र' देवेन्द्रावग्रहादौ ‘क्रामति' अवतरति तत्र 'मनसि' चेतसि करणम् 'अनुजानीतां यस्यावग्रहः ' इति मनस्येवानुज्ञापनमिति ह्रदयम् । यत् पुनर्वचसाऽनुज्ञाप्यते साऽनुज्ञा, अन्तर्भूतण्यर्थत्वादनुज्ञापनेति भावः । तत्र देवेन्द्र-राजावग्रहयोर्मनसैवानुज्ञपनं करोति, गृहपत्यव्रहस्य मनसा वा वचसा वा, सागारिक-साधर्मिकावग्रहयोर्नियमाद् वचसाऽनुज्ञापना, यथा- अनुजानीतास्माकं शय्यां वस्त्र-पात्र-शैक्षादिकं वेत्यादि । अथ भावावग्रहं प्रकारान्तरेणाह
[भा. ६८५] भावोग्गहो अहव दुहा, मइ-गहणे अत्थ- वंजणे उ मई । जउ गि, 'मणसी कर' अकरणे तिविहं ॥
वृ- अथवा भावावग्रहो द्विधा - मतिभावावग्रहो ग्रहणभावावग्रहश्च । तत्र 'मति' मतिज्ञानरूपभावावग्रहो भूयोऽपि द्विधा व्यञ्जनावग्रहोऽर्थावग्रहश्च । गाथायां बन्धानुलोम्येन पूर्वमर्थशब्दस्य निर्देशः । 'ग्रहणे' ग्रहणविषयो भावावग्रहः 'यत्र तु' यस्मिन् पुनर्देवेन्द्रावग्रहादौ यदा साधुः किञ्चिद्वस्तुजातं गृह्णाति सचित्तमचित्तं मिश्रंवा तस्य तदा ग्रहणभावावग्रहः । "मनसी कर”त्ति मनसि करणस्य उपलक्षणत्वाद् अनुज्ञापनायाश्चाकरणे त्रिविधं प्रायश्चित्तम् । एतदेव सविशेषमाह -
[भा. ६८६ ] पंचविहम्मि परूविए, स उग्गहो जाणएण घेत्तव्वो । अन्नाए उग्गहिए, पायच्छित्तं भवे तिविहं ॥
वृ- 'पञ्चविधे' अवग्रहे प्ररूपित सतीदं तात्पर्यमभिधीयते स एवंविधोऽवग्रहः 'ज्ञायकेन' पञ्चप्रकारावग्रहस्वरूपवेदिना ग्रहीतव्यो नाज्ञायकेन । कुतः ? इत्याह- 'अज्ञाते' अनधिगते सति यद्यवग्रहमवगृह्णाति ततस्तस्मिन्नवगृहीते त्रिविधं प्रायश्चित्तं भवति ॥ तदेवाह
[भा. ६८७] इक्कड कढिणे मासो, चाउम्मासो अ पीढ फलएसु । कटु-कलिंचे पणगं, छारे तह मल्लगाईसु ।
वृ- इक्कडं ढण्ढणी कठिनः शरस्तम्बः तयोः संस्तारकं मासलघु । काष्ठमयेषु पीठेषु फलकेषु च प्रत्येकं चत्वारो मासलघवः । काष्ठं च-काष्ठशकलं कलिश्चं च-वंशदलं काष्ठ-व 5- कलिञ्चं तत्र तथा 'क्षारे' भस्मनि 'मल्लकादिषु' मल्लकं-शरावम् आदिशब्दात् तृण- डगलादिपरिरहः, एतेषु सर्वेष्वपि 'पञ्चकं' पञ्च रात्रिन्दिवानि इति त्रिविधं प्रायश्चित्तमज्ञातावग्रहस्वरूपस्यावग्रहणे द्रष्टव्यम् ॥ उक्तोऽवग्रहकल्पि | सम्प्रति विहारकल्पिकमाह
[भा. ६८८] गीयत्थो य विहारो, बीओ गीयत्थनिस्सिओ भणिओ । इत्ततइयविहारो, नाणुन्नाओ जिनवरेहिं ॥
वृ- गीतः परिज्ञातोऽर्थो यैस्ते गीतार्था- जिनकल्पिकादयः, तेषां स्वातन्त्र्येण यद् विहरं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International