________________
१७६
बृहत्कल्प-छेदसूत्रम् -१. ऊर्ध्वदिशमाश्रित्य 'मो' पादपूरणे यावत् स्वविमानानि स्तूप-ध्वजकलितानि, अधोदिशमुद्दिश्य यावदधस्तनो लोकान्त इति ॥भावितो देवेन्द्रक्षेत्रावग्रहः । सम्प्रति चक्रिणः क्षेत्रावग्रहमाह[भा.६७५] सरगोयरो अतिरियं, बावत्तरिजोयणाई उटुंतु।
अहलोगगाम-अधमाइ हेट्ठओ चक्किणो खित्तं॥ वृ-यावत्शरस्य-बाणस्य गोचरः-विषयस्तावत् चक्रिणस्तिर्यक् क्षेत्रम्। इदमुक्तं भवतिचक्रवर्ती दिग्विजययात्रां कुर्वन् मागधादिषु तीर्थेषुयं नामाङ्कितं बाणं निसृजति स पूर्व-दक्षिणाऽपरसमुद्रेषु द्वादशयोजनान्तं यावद् गच्छति, एतावदन्तश्चक्रिणस्तिर्यगवग्रहः । स एव बाणः क्षुद्रहिमवत्कुमारदेवसाधनार्थं चक्रिणैव निसृष्ट ऊर्ध्वं द्वासप्तातियोजनानि यावद् गच्छति तावानूर्धमवग्रहः । अधः पुनरधोलोकग्रामाः, तथा अधा-गर्ता, आदिशब्दाद्वापी-कूप-भूमिगृहादिपरिग्रहः । इयमत्र भावना-जम्बूद्वीपापारविदेहवर्त्तिनलिनावती-वप्राभिधानविजययुगलसमुद्भवा योजनसहस्रद्वेधाः समयप्रसिद्धा येऽधोलोकग्रामास्तेषु ये चक्रवर्तिनः समुत्पद्यन्ते तेषांतएवाधः क्षेत्रावग्रहः, तदपरेषांतुगत-कूप-भूमिगृहादिकमिति ।।प्ररूपितोराज्ञः क्षेत्रावग्रहः। अथ गृहपति-सागारिकयोस्तमाह[भा.६७६] गहवइणो आहारो, चउद्दिसिं सारियस घरवगडा।
हेट्ठा अधा-ऽगडाई, उड़े गिरि-गेहधय-रुक्खा ।। वृ- 'गृहपतेः' मण्डलेश्वरस्य यावान् ‘आधारः' विषयः प्रभुत्वविषयभूतश्चतसृषु दिक्षु तावानस्योत्कृष्टस्तिर्यगवग्रहः । 'सागारिकस्य' शय्यतरस्य 'गृहवगडा' गृहवृतिपरिक्षेप उत्कृष्टस्तिर्यगवग्रहः । द्वयोरपिचाधस्ताद् 'अधा-ऽगडादयः' अधा-गर्ता हृदो वा, अगड:-कूपः,आदिशब्दाद् वाप्यादयः; उर्ध्व 'गिरि-गेहध्वज-वृक्षाः' गिरयः-पर्वताः, गृहध्वजाः-गृहोपरि वर्त्तिन्यः पताकाः, वृक्षाः-सहकारादयः । साधर्मिकाणां तु क्षेत्रावग्रह उत्कृष्टः कुतोऽपि हेतोरत्र नोक्तः, परं बृहद्भाष्ये इत्थमभिहितः
खित्तोग्गहो सकोसं, जोयण साहम्मियाण बोधव्वं ।
छद्दिसि जा एगदिसिं, उजाणं वा मडंबाई ॥ मडम्बादौ उद्यानंयावदुत्कृष्टः क्षेत्रावग्रहः । शेषंसुगमम्॥अथ जघन्यमभिधातुकाम आह[भा.६७७] अजहन्नमणुक्कोसो, पढमो जो आवि चक्कवट्टीणं।
सेसनिव रोहगाइसु, जहन्नओ गहवईणं च ॥ वृ-'प्रथमः' दवेन्द्रावग्रह 'अजघन्योत्कृष्टः' नजघन्योन वाउत्कृष्टः किन्तूभयविवक्षारहितः, सर्वदैवैकरूपत्वात् । यश्चाप्यवग्रहः चक्रवर्तिनां सम्बन्धी सोऽप्यजघन्योत्कृष्टः, सर्वचक्रवर्तिनामाधिपत्यस्यैकरूपत्वात्। शेषनृपाणां' चक्रवर्त्तिव्यतिरिक्तानां नृपतीनां गृहपतीनांचरोधकादिषु जघन्यः क्षेत्रावग्रहो द्रष्टव्यः । रोधनं रोधकः-परचक्रेण नागरादेर्वेष्टनम्, आदिशब्दादन्यस्याप्येवंविधविड्वरस्य परिग्रहः । इयमत्र भावना-कोऽपि बलवान् राजा मण्डलेश्वरो वा कस्याप्यलपबलस्य नरपतेर्गृहपतेर्वा बाह्यनीवृतमात्मात्कृत्य यदा तदीयंनगरादि निरुध्यावतिष्ठते तदा तस्य तावान् नगरादिमात्रको जघन्यः क्षेत्रावग्रहः ॥
[भा.६७८] नगराइ निरुद्ध धरे, जा याऽणुना उ दुचरिम जहन्नो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org