________________
पीठिका - [भा. ५५९ ]
१४३
वहिरागच्छति नश्यतामिति । केचित् पुनः कैतवेन ब्रूयुः मन्दभाग्याः ! नश्यत नश्यत, अग्नि समागच्छति ॥ ततः किम् ? इत्याह
[भा.५६०] उवहीलोभ भया वा, न नीति न य तत्थ किंचि नीनेइ । गुत्तो व सयं डज्झइ, उवहिं च विणा उ जा हानी ।
वृ- ‘उपधिलोभात्’ ‘उपधिर्मध्ये तिष्ठति तं मुक्त्वा कथमहं यामि ? मा कश्चिदपहरेत्' इत्युपधेर्लोभतोऽग्निभयाद् वा स बालो बहिर्न निर्गच्छति, न च तत्र बहि किञ्चिद् निष्काशयति, ततः कथमप्यग्निसमागमने स मध्ये गुप्तः सन् स्वयं दह्यते । कैतवेनाग्न्यागमं कथयित्वा बालं विप्रलम्भ्योपधिमपहरन्ति । उपधिं च विना या हानिस्तां साधवः प्राप्नुवन्ति ॥
गतं स्कन्धावारद्वारमग्निद्वारं च । सम्प्रति मालवद्वारं स्तेनद्वारं चाह
[ भा. ५६१] मालवतेना पडिया, इयरे वा नासती जनेन समं । न य गेण्हइ सारुवहिं, तप्पडिबद्धो व हीरेज्जा ।।
वृ- मालवा ए स्तेना मालवस्तेनाः, ते मालवग्रहणेन द्वारगाथायां सूचिताः 'इतरे' अन्ये
स्तेनाः स्तेनग्रहणेन । केचित्तु कैतवेन स्वभावेन वा ब्रूयुः मालवस्तेना इतरस्तेना वा पतिताः,
1
तत्र ये कैतवेन ब्रुवते ते पत्तनस्य ग्रामस्य वा भङ्गे जाते उपधिमपहरन्ति । स्वभावेन कथने स बालो भयान्न सारमुपधिं गृह्णह्वाति, अग्रहणे च तदभावे महती हानि । अथवा स तस्मिन्नुपधौ प्रतिबद्धः सन् मालवस्तेनैरितरैर्वा सोपधिरपह्रियेत ॥
गतं मालवद्वारं स्तेनद्वारं च । सम्प्रति ज्ञातिद्वारमाह
[ भा. ५६२] सन्नायगेहि नीते, एंति व नीय त्ति नद्वे जं उवहिं । कहिं नीय त्ति कइयवे, कहिए अन्नस्स सो कहए ।
वृ-स्वज्ञातिकाः स्वभावत आगताः, तैरेकाकी दृष्टः क्षुल्लकः, तैर्नीतेऽन्ये पश्चादुपधिमपहरेयुः, ततस्तन्निष्पन्नं तेषां साधूनां प्रायश्चित्तम् । अथवाऽन्येन केनापि ते स्वज्ञातय आगच्छन्तो दृष्टाः, तेनाऽऽगत्य क्षुल्लकस्य कथितम् - निजकास्तव समागच्छन्तीति, ततः स पलायितः, तस्मिन्नष्टे युमपर्धि जघन्यं मध्यमुत्कृष्टं वाऽपहरन्ति तन्निष्पन्नं तेषां प्रायश्चित्तम् । एवं तावत् स्वभावतः स्वातीनामागमने दोषा उक्ताः, अधुना कैतवेन तदागमनकथनतो दोषानाह- कोऽपि कैतवेनागत्य धूर्तो ब्रूते क्षुल्क ! क्व ते निजकाः सन्ति ? । तेन कथितम् अमुके ग्रामे नगरे वा । तेनान्यस्य धूर्तस्य कथितं 'मा स्वयमहं ब्रुवाणो लक्ष्ये' इति ॥
[भा. ५६३ ] चिंधेहिं आगमेउं, सो वि य साहेइ तुह निया पत्ता । मो उवहिग्गहणं, तेहिं व हं पेसितो हरइ ।।
वृ- सोऽपि अन्यो धूर्त्तस्तेषां स्वज्ञातीनां चिह्नानि नामानि चागम्य तस्य क्षुल्लकस्य समीपमागच्छति, आगत्य ब्रूते स त्वममुकानां निजकः; क्षुल्लको वक्ति कुतस्त्वं जानासि ? ; इतरो ब्रूते-किं न जानामि ते मातरममुकनामिकां पितरं चामुकमी शेन वर्णेन रूपेण वा ? | एवं संवादे कृते स क्षुल्लकोवदति-सत्यमहं तेषां निजकः; ततः स धूर्त्तो भाषते ते निजकास्तव कृते समागता मयाऽमुकप्रदेशे दृष्टाः, सम्प्रति अन्ये प्रविशन्ति वदन्ति च ते-तमात्मीयं नेष्याम इति; ततः स पलायते, इतरे उपधिमपहरन्ति । अथवा वक्ति-तैरहं तवोदन्तवाहकः प्रेषितः; ततः स,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org