________________
१४२
बृहत्कल्प-छेदसूत्रम् - १
ततो यावद् वयं बलिं कुर्मस्तावत् त्वं बहिस्तिष्ठ, मा कूरेण खरण्टयिष्यते (ष्यसे), एवं तं निष्काश्य तस्योपधिमपहरन्ति।यदिवा ते एवं ब्रूयुः यावद् वयं बलिं कुर्मस्तावदभ्यन्तरादात्मीयमुपधिमुपनय, स च बालस्तत्कार्यमजानन् एकवारं च सर्वमुपकरणं नेतुमशक्नुवन् स्तोकं गृहीत्वा निर्गत्य बहिः स्थापयित्वा यावदन्यस्य प्रविशति तावत् तदुपकरणमभ्यन्तरस्थितं धूर्तेरपहियते ॥
तदेवं बलिद्वारं गतम् । अधुना धर्मकथाद्वारमाह
[भा. ५५७] कतिएण सभावेण व, कहापमत्ते हरंति से अन्ने । किड्डा सयं व रिंखा, पासति व तहेव किड्डदुगं ।।
वृ- केचन पुरुषाः 'धर्मं श्रणुमः' इति कैतवेन वा स्वभावेन वा समागच्छेयुः । तत्र स्वभावत आगतानां बालमेकाकिनं दृष्ट्वा हरणबुद्धिरुपजायते । इतरे तु प्रथमत एव हरणबुधैव समागतास्ते क्षुल्लकं ब्रुवते कथय धर्मकथामस्माकमिति; ततः स कथां कथयितुं प्रवृत्तः प्रबन्धेन च कथयति, कथाप्रमत्ते केचिदग्रत उपविष्टाः श्र ण्वन्ति, अन्ये तस्योपकरणमपहरन्ति । गतं धर्मकथाद्वारम् । क्रीडाद्वारमाह-“किड्डा" इत्यादि । क्रीडायामपि द्विकं वक्तव्यम् । किमुक्तं भवति ? - क्रीडानिमित्तमपि केचन स्वभावत आगच्छेयुः कैतवेन वा । स्वभावतोऽ प्यागतानां बालमेकाकिनं दृष्ट्वा हरणबुद्धिरुल्लसति, तत्र स स्वयं बालः क्रीडति गोलादिना । अथ कदाचित् स क्षुल्लको ब्रूयात्-न वर्त्ततेऽस्माकं क्रीडा; ततस्ते वदन्ति-यद्येवं तर्हि रिङ्खाः कुरु, कः कियन्तो वारान् रिङ्खति ? एवं स बालो रिङ्ङ्खाः करोति; अथ ब्रूते-न कल्पन्ते संयतानां रिङ्खा अपि कर्त्तुमिति; ततस्ते वदन्तियद्येवमस्मान् क्रीडतः पश्य, ततः स कौतुकेन क्रीडतः पश्यति; एवं स्वयं क्रीडया रिङ्खाभिर्वा पश्यन् वा क्रीडाप्रमत्त उपजायते; ततस्तथैवान्ये तेन सह क्रीडन्ति, अन्ये हरन्त्युपकरणमिति ॥ सम्प्रति प्रमार्जनद्वारमावर्षणद्वारं च युगपदाह
[भा. ५५८/१]जो चेव बलीए गमो, पमजणाSSवरिसणे वि सो चेव ।
वृ-य एव बलिद्वारे गम उक्तः स एव प्रमार्जने आवर्षणे च द्रष्टव्यः । किमुक्तं भवति ? - प्रमार्जननिमित्तमावर्षणनिमित्तं वा केचित् स्वभावेन अपरे कैतवेन समागच्छन्ति, समागत्य च बलिद्वारोक्तेन प्रकारेणोपकरणमपहरन्तीति । इदानीं प्राभृतिकाद्वारमाह
[ भा. ५५८/२ ] पाहुडियं वा गेण्हसु, परिसाडणियं व जा कुणिमो ॥
वृ- 'प्राभृतिका' भिक्षाऽपि भण्यते अर्चनिकाऽपि । तत्रोभयमप्यधिकृत्य दोषानाह- कैतवेन स्वभावेन वा केचन ब्रूयुः क्षुल्लक ! भिक्षां गृहाण, अथवा द्वारे निर्गच्छ यावद् वयं 'परिशाटनिकाम्' अर्चनिकां कुर्मः । एवमुक्तः स यावद् भिक्षामाददाति बहिर्वा निर्गच्छति तावत् तस्योपकरणं हरन्तीति ।। गतं प्राभृतिकाद्वारम् । अधुना स्कन्धावारद्वारमग्निद्वारं चाह
[ भा. ५५९ ] खंधारभया नासति, एस व एइ त्ति कइयवे नस्स । अगनिभया व पलायति, नस्ससु अगन व एति त्ति ॥
वृ- कोऽपि स्वभावतः स्कन्धवाराभयान्नश्यति ब्रूते च एष सराजकः स्कन्धावारः समागच्छति, स च तथा स्वभावतो नश्यन् बालमेकाकिनं द्दष्टवाऽपहरेत् । अपरः कैतवेन ब्रूतेएव क्षुल्लक ! स्कन्धावारः समायाति तस्माल्लघु पलायस्व पलायस्व, ततः स बालो नश्यति; इतरे उपधिमपहरन्ति । अग्निभयादपि कोऽपि स्वभावतः पलायते, स च पलायमानो वक्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org